Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 16 (காளிங்க நர்த்தனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

காளிங்க நர்த்தனம்

ஸ்கந்தம் 10: அத்யாயம் 16

श्रीशुक उवाच।

विलोक्य दूषितां कृष्णां कृष्ण: कृष्ण-आहिना विभु:।

तस्या: विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत्॥ 1


श्रीराज उवाच।

कथम् अन्त: जले अगाधे न्यगृह्णात् भगवान् अहिम्।

स: वै बहु-युग-आवासं यथा आसीत् विप्र कथ्यताम्॥ 2


ब्रह्मन् भगवत: तस्य भूम्न: स्व-च्छन्द-वर्तिन:।

गोप-आल-उदार-चरितं क: तृप्येत अमृतं जुषन्॥ 3


श्रीशुक उवाच।

कालिन्द्यां कालियस्य आसीत् ह्रद: कश्चित् विष-अग्निना।

श्रप्यमाण-पया यस्मिन् पतन्ति उपरि-गाः खगाः॥ 4


विप्रुष्मता विष-दोर्मि-मारुतेन अभिमर्शिताः।

म्रियन्ते तीर-गा यस्य प्राणिन: स्थिर-जङ्‌गमाः॥ 5


तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन

दुष्टां नदीं च खल-संयमन-आवतारः।

कृष्ण: कदम्बम् अधिरुह्य तत: अति-तुङ्गम्

आस्फोट्य गाढ-रशन: न्यपतत् विष-उदे॥ 6


सर्प-ह्रद: पुरुष-सार-निपात-वेग

संक्षोभित-उरग-विष-उच्छ्वसित-अम्बु-राशि:।

पर्यक्‌प्लुत: विष-कषाय-विभीषण-उर्मि:

धावन् धनुः-शतम् अनन्त-बलस्य किं तत्॥ 7


तस्य ह्रदे विहरत: भुज-दण्ड-घूर्ण

वार-घोषम् अङ्ग वर-वारण-विक्रमस्य।

आश्रुत्य तत् स्व-सदन-अभिभवं निरीक्ष्य

चक्षु:श्रवाः समसरत् तत् अमृष्यमाण:॥ 8


तं प्रेक्षणीय-सुकुमार-घन-आवदातं

श्रीवत्स-पीत-वसनं स्मित-सुन्दर-आस्यम्।

क्रीडन्तम् अप्रतिभयं कमल-उदर-अङ्‌घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद॥ 9


तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्

आलोक्य तत् प्रिय-सखाः पशुपा भृश-आर्ताः।

कृष्णे अर्पित-आत्म-सुहृत्-अर्थ-कलत्र-कामा

दुःख-अनुशोक-भय-मूढ-धिय: निपेतु:॥ 10


गावो वृषा वत्स-तर्यः क्रन्दमानाः सुदुःखिताः।

कृष्णे न्यस्त-ईक्षणाः भीता रुदत्य इव तस्थिरे॥ 11


अथ व्रजे महा-उत्पाताः त्रिविधाः हि अति-दारुणाः।

उत्पेतु: भुवि दिव्य-आत्मन् या: सन् अभय-शंसिनः॥ 12


तान् आलक्ष्य भय-उद्विग्नाः गोपा नन्द-पुरोगमाः।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥ 13


तैः दुर्निमित्तैः निधनं मत्वा प्राप्तम् अतद्-विदः।

तत् प्राणाः तत्-मनसकाः ते दुःख-शोक-भय-आतुराः॥ 14


आबाल-वृद्ध-वनिताः सर्वे अङ्ग पशु-वृत्तयः।

निर्जग्मु: गोकुलात् दीनाः कृष्ण-दर्शन-लालसाः॥ 15


तांस् तथा कातरान् वीक्ष्य भगवान् माधव: बलः।

प्रहस्य किञ्चित् नोवाच प्रभाव-ज्ञ: अनुजस्य सः॥ 16


ते अन्वेषमाणाः दयितं कृष्णं सूचित-या पदैः।

भगवत् लक्षणैः जग्मुः पदव्या यमुनातटम्॥ 17


ते तत्र तत्र अब्ज-यव-अङ्कुश-आशनि

ध्वज-उपपन्नानि पदानि विष्पतेः।

मार्गे गवाम् अन्य-पदान्तरा-अन्तरे

निरीक्षमाणा ययुर् अङ्ग सत्वराः॥ 18


अन्त: ह्रदे भुजग-भोग-परीतम् आरात्

कृष्णं निरीहम् उपलभ्य जलाशय-अन्ते।

गोपांश्च मूढ-धिषणान् परित: पशूंश्च

संक्रन्दतः परम-कश्मलम् आपुर् आर्ताः॥ 19


गोप्यः अनुरक्त-मनसः भगवति अनन्ते।

तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः।

ग्रस्ते अहिना प्रिय-तमे भृश-दुःख-तप्ताः

शून्यं प्रिय-व्यतिहृतं ददृशुः त्रि-लोकम्॥ 20


ताः कृष्ण-मातरम् अपत्य-मनु प्रविष्टाः
तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः।
तास्ताः व्रज-प्रिय-कथाः कथयन्त्य आसन्
कृष्ण-आनने अर्पित-दृशः मृतक-प्रतीकाः॥ 21॥

कृष्ण-प्राणान् निर्विशतः नन्द-आदीन् वीक्ष्य तं ह्रदम्।
प्रत्यषेधत् स भगवान् रामः कृष्ण-अनुभाव-वित्॥ 22॥

इत्थं स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य
स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः।
आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः
स्थित्वा मुहूर्तम् उदतिष्ठत् उरङ्ग-बन्धात्॥ 23॥

तत् प्रथ्यमान-वपुषा व्यथित-आत्म-भोगः
त्यक्त्वा उन्नमय्य कुपितः स्व-फणान् भुजङ्गः।
तस्थौ श्वसन् श्वसन-रन्ध्र-विष-अम्बरीषः
स्तब्ध-ईक्षणः उल्मुक-मुखः हरिम् ईक्षमाणः॥ 24॥

तं जिह्वया द्वि-शिखया परिलेलिहानं
द्वे सृक्किणी हि अति-कराल-विष-अग्नि-दृष्टिम्।
क्रीडन् अमुं परिससार यथा खग-इन्द्रः
बभ्राम सः अपि अवसरं प्रसमीक्षमाणः॥ 25॥

एवं परिभ्रम-हत-ओजसम् उन्नत-अंसम्
आनम्य तत् पृथु-शिरः-स्व अधिरूढः आद्यः।
तत् मूर्ध-रत्न-निकर-स्पर्श-आति-ताम्रः
पाद-अम्बुजः अखिल-कलादि-गुरुः ननर्त॥ 26॥

तं नर्तुम् उद्दयतम् अवेक्ष्य तदा तदीय
गन्धर्व-सिद्ध-सुर-चारण-देव-वध्वः।
प्रीत्या मृदङ्ग-पणव-आनक-वाद्य-गीत
पुष्प-उपहार-नुतिभिः सहसा उपसेदुः॥ 27॥

यत् यत् शिरः न नमते अङ्ग शत-एक-शीर्ष्णः
तत् तत् ममर्द खर-दण्ड-धरः अङ्घ्रि-पातैः।
क्षीण-अयुषः भ्रमतः उल्बणम् आस्यतः असृक्
नस्तः वमन् परम-कश्मलम् आप नागः॥ 28॥

तस्य अक्षिभिः गरलम् उद्वमतः शिरःसु
यत् यत् समुन्नमति निःश्वसतः रुषा उच्चैः।
नृत्यन् पदानु-नमयन् दमयां बभूव
पुष्पैः प्रपूजितः इव इह पुमान् पुराणः॥ 29॥

तत् चित्र-ताण्डव-विरुग्ण-फणातपत्रः
रक्तं मुखैः उरु वमन् नृप भग्न-गात्रः।
स्मृत्वा चर-अचर-गुरुं पुरुषं पुराणं
नारायणं तम् अरणं मनसा जगाम॥ 30॥

कृष्णस्य गर्भ-जगतः अति-भर-आवसन्नं
पार्ष्णि-प्रहार-परिरुग्ण-फणातपत्रम्।
दृष्ट्वा अहिम् आद्यम् उपसेदुः अमुष्य पत्नीः
आर्ताः श्लथ-वसन-भूषण-केश-बन्धाः॥ 31॥

ताः तं सुविग्न-मनसः अथ पुरस्कृत-अर्भाः
कायं निधाय भुवि भूत-पतिं प्रणेमुः।
साध्व्यः कृत-अञ्जलि-पुटाः शमलस्य भर्तुः
मोक्ष-इप्सवः शरण-दं शरणं प्रपन्नाः॥ 32॥

नाग-पत्न्यः ऊचुः।
न्याय्यः हि दण्डः कृत-किल्बिषे अस्मिन्
तव-अवतारः खल-निग्रहाय।
रिपोः सुतानाम् अपि तुल्य-दृष्टेः
धत्से दमं फलम् एव अनुशंसन्॥ 33॥

अनुग्रहः अयं भवतः कृतः हि नः
दण्डः असतां ते खलु कल्मष-आपहः।
यत् दन्दशूकत्वम् अमुष्य देहिनः
क्रोधः अपि ते अनुग्रह एव सम्मतः॥ 34॥

तपः सुतप्तं किम् अनेन पूर्वं
निरस्त-मानेन च मानदेन।
धर्मः अथ वा सर्व-जन-अनुकम्पया
यतः भवाञ् तुष्यति सर्व-जीवः॥ 35॥

कस्य अनुपावः अस्य न देव विद्महे
तव अङ्घ्रि-रेणु-स्पर्श-अधिकारः।
यत्-वान्छया श्रीः ललना आचरत् तपः
विहाय कामान् सुचिरं धृत-व्रता॥ 36॥

न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रस-अधिपत्यम्।
न योग-सिद्धीः अपुनर्भवं वा
वाञ्छन्ति यत्-पाद-रजः प्रपन्नाः॥ 37॥

तत् एष नाथ अप दुरापम् अन्यैः
तमः जनिः क्रोध- वशः अपि अहि-ईशः।
संसार-चक्रे भ्रमतः शरीरिणः
यत् इच्छतः स्यात् विभवः समक्षः॥ 38॥

नमः तुभ्यं भगवते पुरुषाय महात्मने।
भूत-आवासाय भूताय पराय परमात्मने॥ 39॥

ज्ञान-विज्ञान-निधये ब्रह्मणे अनन्त-शक्तये।
अगुणाय अविकाराय नमः ते अप्राकृताय च॥ 40॥

कालाय काल-नाभाय काल-अवयव-साक्षिणे।
विश्वाय तत्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे॥ 41॥

भूत-मात्र-इन्द्रिय-प्राण-मनो-बुद्धि-आशय-आत्मने।
त्रि-गुणेन अभिमानेन गूढ-स्व-आत्म-अनुभूतये॥ 42॥

नमः अनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते।
नाना-वाद-अनुरोधाय वाच्य-वाचक-शक्तये॥ 43॥

नमः प्रमाण-मूलाय कवये शास्त्र-योनये।
प्रवृत्ताय निवृत्ताय निगमाय नमः नमः॥ 44॥

नमः कृष्णाय रामाय वसुदेव-सुताय च।
प्रद्युम्नाय अनिरुद्धाय सात्वतां पतये नमः॥ 45॥

नमः गुण-प्रदीपाय गुण-आत्म-छादनाय च।
गुण-वृत्ति-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे॥ 46॥

अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये।
हृषीकेश नमस्ते अस्तु मुनये मौन-शीलिने॥ 47॥

पर-अवर-गति-ज्ञाय सर्व-अध्यक्षाय ते नमः।
अविश्वाय च विश्वाय तत्-द्रष्ट्रे अस्य च हेतवे॥ 48॥

त्वं हि अस्य जन्म-स्थिति-संयमान् प्रभो
गुणैः अनीहः अ-कृत-काल-शक्ति-धृक्।
तत्-तत् स्वभावान् प्रतिबोधयन् सतः
समीक्षया अमोघ-विहारः ईहसे॥ 49॥

तस्य एव ते अमूः तनवः त्रि-लोक्यां
शान्ताः अशान्ताः उत मूढ-योनयः।
शान्ताः प्रियाः ते हि अधुना अवितुं सतां
स्थातुः च ते धर्म-परिप्सया इहतः॥ 50॥

अपराधः सकृत् भर्त्रा सोढव्यः स्व-प्रजा-कृतः।
क्षन्तुम् अर्हसि शान्त-आत्मन् मूढस्य त्वाम् अजानतः॥ 51॥

अनुगृह्णीष्व भगवन् प्राणान् त्यजति पन्नगः।
स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम्॥ 52॥

विधेहि ते किङ्करीणां अनुस्थेयं तव आज्ञया।
यत् श्रद्धया अनुतिष्ठन् वै मुच्यते सर्वतः भयात्॥ 53॥

श्रीशुक उवाच।
इत्थं स नाग-पत्निभिः भगवान् समभिष्टुतः।
मूर्छितं भग्न-शिरसं विससर्ज अङ्घ्रि-कुट्टनैः॥ 54॥

प्रतिलब्ध-इन्द्रिय-प्राणः कालियः शनकैः हरिम्।
कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः॥ 55॥

कालिय उवाच।
वयं खलाः सह-उत्पत्त्या तमसा दीर्घ-मन्यवः।
स्वभावः दुस्त्यजः नाथ लोकानां यत् असत्-ग्रहः॥ 56॥

त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम्।
नाना-स्वभाव-वीर्य-ओजः योनि-बीज-आशय-आकृतिः॥ 57॥

वयं च तत्र भगवन् सर्पाः जाति-उरु-मन्यवः।
कथं त्यजामः त्वत्-मायां दुस्त्यजां मोहिताः स्वयम्॥ 58॥

भवान् हि कारणं तत्र सर्व-ज्ञः जगद्-ईश्वरः।
अनुग्रहं निग्रहं वा मन्यसे तत् विधेहि नः॥ 59॥

श्रीशुक उवाच।
इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः।
न अत्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्।
स्व-ज्ञाति-अपत्य-दार-आढ्यः गो-नृभिः भुज्यतां नदी॥ 60॥

यः एतत् संस्मरेत् मर्त्यः तुभ्यम् मद्-अनुशासनम्।
कीर्तयन् उभयोः सन्ध्योः न युष्मत् भयम् आप्नुयात्॥ 61॥

यः अस्मिन् स्नात्वा मद्-आक्रीडे देवा-आदीन् तर्पयेत् जलैः।
उपोष्य माम् स्मरन् अर्चेत् सर्व-पापैः प्रमुच्यते॥ 62॥

द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः।
यत् भयात् स सुपर्णः त्वाम् न अाद्यात् मत्-पाद-लाञ्छितम्॥ 63॥

श्रीशुक उवाच।
एवम् उक्तः भगवता कृष्णेन अद्भुत-कर्मणा।
तं पूजयामास मुदा नाग-पत्न्यः च सादरम्॥ 64॥

दिव्य-अम्बर-स्रक्-मणिभिः परार्ध्यैः अपि भूषणैः।
दिव्य-गन्ध-अनुलेपैः च महत्या उत्पल-मालया॥ 65॥

पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम्।
ततः प्रीतः अभ्यनुज्ञातः परिक्रम्य अभिवन्द्य तम्॥ 66॥

स-कलत्र-सुहृत्-पुत्रः द्वीपम् अब्धेः जगाम ह।
तदा एव सा अमृत-जलाः यमुना निर्विषा अभवत्।
अनुग्रहात् भगवतः क्रीडामानुष-रूपिणः॥ 67॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः ॥ 16

ஸ்கந்தம் 10: அத்யாயம் 15 (தேனுகன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 தேனுகன் மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 15

श्रीशुक उवाच

ततः च पौगण्ड वयः श्रितौ व्रजे

बभूवतुः तौ पशुपाल सम्मतौ।

गाः चारयन्तौ सखिभिः समं पदैः

बृन्दावनं पुण्यम् अतीव चक्रतुः॥ 1


तन् माधवः वेणुम् उदीरयन् वृतः

गोपैः गृणद्भिः स्वयशः बलान्वितः।

पशून् पुरस्कृत्य पशव्यम् आविशत्

विहर्तुकामः कुसुमाकरं वनम्॥ 2


तन् मञ्जुघोष आलिमृग द्विजाकुलं

महान् मनः प्रख्य पयः सरस्वता।

वातेन जुष्टं शतपत्र गन्धिना

निरीक्ष्य रन्तुं भगवान् मनः दधे॥ 3


स तत्र तत्र अरुण पल्लव श्रिया

फल प्रसून उरु भरेण पादयोः।

स्पृशत् शिखान् वीक्ष्य वनस्पतीन् मुदा

स्मयन् इव आह अग्रजम् आदिपूरुषः॥ 4


श्रीभगवान् उवाच

अहो अमी देव वर अमर अर्चितं

पादाम्बुजं ते सुमनः फल अर्हणम्।

नमन्ति उपादाय शिखाभिः आत्मनः

तमः अपहत्यै तरुजन्म यत् कृतम्॥ 5


एते अलिनः तव यशः अखिल लोक तीर्थं

गायन्ति आदिपुरुष अनुपथं भजन्ते।

प्रायः अमी मुनिगणाः भवदीय मुख्याः

गूढं वने अपि न जहति अनघ आत्मदैवम्॥ 6


नृत्यन्ति अमी शिखिनः ईड्य मुदा

हरिण्यः कुर्वन्ति गोप्य इव ते प्रिय मीक्षणेन।

सूक्तैः च कोकिलगणाः गृहमागताय

धन्याः वनौकसः इयान् हि सतां निसर्गः॥ 7


धन्या इयम् अद्य धरणी तृण वीरुधः

त्वत् पाद स्पृशः द्रुमलताः करज अभिमृष्टाः।

नद्यः अद्रयः खगमृगाः सदयावलोकैः

गोप्यः अन्तरेण भुजयोः अपि यत् स्पृहा श्रीः॥ 8


श्रीशुक उवाच

एवं बृन्दावनं श्रीमत् कृष्णः प्रीतमनाः

पशून् रेमे सञ्चारयन् अद्रेः सरित् रोधःसु सानुगः॥ 9


क्वचित् गायति गायत्सु मदान्ध आलिषु अनुव्रतैः।

उपगीयमान चरितः स्र्ग्वी सङ्कर्षण अन्वितः॥ 10


क्वचित् च कालहंसानाम् अनु कूजति कूजितम्।

अभि नृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित्॥ 11


मेघगम्भीरया वाचा नामभिः दूरगान् पशून्।

क्वचित् आह्वयति प्रीत्या गो गोपाल मनोज्ञया॥ 12


चकोर क्रौञ्च चक्राह्व भारद्वाजान् च बर्हिणः।

अनुरौति स्म सत्त्वानां भीतवत् व्याघ्रसिंहयोः॥ 13


क्वचित् क्रीडा परिश्रान्तं गोपोत्सङ्ग उपबर्हणम्।

स्वयं विश्रमयति आर्यं पादसंवाहन आदिभिः॥ 14


नृत्यतः गायतः क्वापि वल्गतः युध्यतः मिथः।

गृहीत हस्तौ गोपालान् हसन्तौ प्रशशंसतुः॥ 15


क्वचित् पल्लवतल्पेषु नियुद्ध श्रमकर्शितः।

वृक्षमूल आश्रयः शेते गोपोत्सङ्ग उपबर्हणः॥ 16


पादसंवाहनं चक्रुः केचित् तस्य महात्मनः।

अपरे हतपाप्मानः व्यजनैः समवीजयन्॥ 17


अन्ये तद् अनुरूपाणि मनोज्ञानि महात्मनः।

गायन्ति स्म महाराज स्नेहक्लिन्न धियः शनैः॥ 18


एवं निगूढ आत्म गतिः स्वमायया

गोपात्मजत्वं चरितैः विडम्बयन्।

रेमे रमा लालित पाद पल्लवः

ग्राम्यैः समं ग्राम्यवत् ईश चेष्टितः॥ 19


श्रीदामा नाम गोपालः राम केशवयोः सखा।

सुबलः तोककृष्ण आद्याः गोपाः प्रेम्णा इदम् अब्रुवन्॥ 20


राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण।
इत: अविदूरे सुमहत् वनं ताल-आलि-सङ्कुलम्॥ 21

फलानि तत्र भूरीणि पतन्ति पतितानि च।
सन्ति किन्तु अवरुद्धानि धेनुकेन दुरात्मना॥ 22

स: अति-वीर्य: असुर: राम हे कृष्ण खर-रूप-धृक्।
आत्म-तुल्य-बलै: अन्यै: ज्ञातिभि: बहुभि: वृत:॥ 23

तस्मात् कृत-नर-आहारात् भीतै: नृभि: अमित्रहन्।
न सेव्यते पशु-गणै: पक्षि-सङ्घै: विवर्जितम्॥ 24

विद्यन्ते अभुक्त-पूर्वाणि फलानि सुरभीणि च।
एष वै सुरभि: गन्ध: विषूचीन: अवगृह्यते॥ 25

प्रयच्छ तानि न: कृष्ण गन्ध-लोभित-चेतसाम्।
वाञ्छा अस्ति महती राम गम्यतां यदि रोचते॥ 26

एवं सुहृद्-वच: श्रुत्वा सुहृत्-प्रिय-चिकीर्षया।
प्रहस्य जग्मतुर् गोपै: वृतौ ताल-वनं प्रभू॥ 27

बल: प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन्।
फलानि पातयामास मतङ्गज: इव ओजसा॥ 28

फलानां पततां शब्दं निशम्य असुर-रासभ:।
अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन्॥ 29

समेत्य तरसा प्रत्यक्-द्वाभ्यां पद्भ्यां बलं बली।
निहत्य उरसि काशब्दं मुञ्चन् पर्यसरत् खल:॥ 30

पुन: आसाद्य संरब्ध उपक्रोष्टा पराक् स्थित:।
चरणौ अपरौ राजन् बलाय प्राक्षिपद् रुषा॥ 31

स तं गृहीत्वा प्रपदो: भ्रामयित्वा एक-पाणिना।
चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम्॥ 32

तेन आहत: महा-ताल: वेपमान: बृहत्-शिरा:।
पार्श्व-स्थं कम्पयन् भग्न: स च अन्यं स: अपि च अपरम्॥ 33

बलस्य लीला-या उत्सृष्ट खर-देह-हत-आहताः।
तालाः च कम्पिरे सर्वे महा-वा-त-इरिता इव॥ 34

न एतत् चित्रं भगवति हि अनन्ते जगद्-ईश्वरे।
ओत-प्रोतम् इदं यस्मिन् तन्तुषु अङ्ग यथा पट:॥ 35

तत: कृष्णं च रामं च ज्ञातय: धेनुकस्य ये।
क्रोष्टार: अभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः॥ 36

तान् तान् आपतत: कृष्ण: राम: च नृप लीलया।
गृहीत-पश्चात्-चरणान् प्राहिणोत् तृण-राजसु॥ 37

फल-प्रकर-सङ्कीर्णं दैत्य-देहै: गत-आसुभि:।
रराज भू: स-ताल-आग्रै: घनै: इव नभस्तलम्॥ 38

तयो: तत् सुमहत् कर्म निशम्य विबुध-आदय:।
मुमुचु: पुष्प-वर्षाणि चक्रु: वाद्यानि तुष्टुवु:॥ 39

अथ ताल-फलानि आदन् मनुष्या गत-साध्वसाः।
तृणं च पशव: चेरु: हत-धेनुक-कानने॥ 40


कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः। स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत्॥ 41 तं गोरजश्छुरितकुन्तलबद्धबर्ह वन्यप्रसूनरुचिरेक्षणचारुहासम्। वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः॥ 42 पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस् तापं जहुर्विरहजं व्रजयोषितोऽह्नि। तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम्॥ 43 तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले। यथाकामं यथाकालं व्यधत्तां परमाशिषः॥ 44 गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः। नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ॥ 45 जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ। संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे॥ 46 एवं स भगवान् कृष्णो बृन्दावनचरः क्वचित्। ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः॥ 47 अथ गावश्च गोपाश्च निदाघातपपीडिताः। दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम्॥ 48 विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः। निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह॥ 49 वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः। ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत्॥ 50 ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात्। आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम्॥ 51 अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम्। पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः॥ 52

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः ॥ 15

ஸ்கந்தம் 10: அத்யாயம் 13 (ப்ரம்ம மோஹனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ப்ரம்ம மோஹனம்

ஸ்கந்தம் 10: அத்யாயம் 13

श्री शुकः उवाच


साधु पृष्टं महा भाग त्वया भागवत उत्तम

यत् नूतनयसि ईशस्य श्रृण्वन् अपि कथां मुहुः ॥ 1


सताम् अयं सार भृताम् निसर्गः

यत् अर्थ वाणी श्रुति चेतसाम् अपि

प्रति क्षणं नव्यवत् अच्युतस्य यत्

स्त्रिया विटानाम् इव साधु वार्ता ॥ 2


श्रुणुष्व अवहितः राजन् अपि गुह्यं वदामि ते

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत ॥ 3


तथा अघ वदनात् मृत्यः रक्षित्वा वत्स पालकान्

सरित् पुलिनम् आनाय भगवान् इदम् अब्रवीत् ॥ 4


अहो अतिरम्यम् पुलिनं वयस्याः

स्व-केलि सम्पन्न् मृदुल आच्छ वालुकम्

स्फुटत् सरो-गन्ध हृत-अलि पत्रिक-

ध्वनि-प्रतिध्वान लसत् द्रुम आकुलम् ॥ 5


अत्र भोक्तव्यम् अस्माभिः दिवा रूढं क्षुधा अर्दिताः

वत्साः समीपे अपः पीत्वा चरन्तु शनकैः तृणम् ॥ 6


तथा इति पाययित्वा अर्भाः वत्सान् आरुध्य शाद्वले

मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ 7


कृष्णस्य विष्वक् पुरु-राजि मण्डलैः

अभ्याननाः फुल्ल-दृशः व्रज अर्भकाः

सह उपविष्टाः विपिने विरेजुः

छदा यथा अम्भोरुह कर्णिकायाः ॥ 8


केचित् पुष्पैः दलैः केचित् पल्लवैः अङ्कुरैः फलैः

शिग्भिः त्वग्भिः दृषद्‌भिः च बुभुजुः कृत भाजनाः ॥ 9


सर्वे मिथः दर्शयन्तः स्व-स्व भोज्य रुचिं पृथक्

हसन्तः हासयन्तः च अभ्यवजह्रुः सह ईश्वराः ॥ 10


बिभ्रत् वेणुं जठर पटयोः श्रृङ्ग वेत्रे च कक्षे

वामे पाणौ मसृण कवलं तत् फलानि अङ्गुलीषु

तिष्ठन् मध्ये स्व-परि सुहृदः हासयन् नर्मभिः स्वैः

स्वर्गे लोके मिषति बुभुजे यज्ञ-भुक् बाल-केलिः ॥ 11


भारत एवं वत्स पेषु भुञ्जानेषु अच्युत आत्मसु

वत्साः तु अन्तर्-वने दूरं विविशुः तृण-लोभिताः ॥ 12


तान् दृष्ट्वा भय-संत्रस्तान् ऊचे कृष्णः अस्य भी-भयम्

मित्राणि आशान् मा विरमत एहा अनेष्ये वत्सकान् अहम् ॥ 13


इति उक्त्वा अद्रि-दरी-कुञ्ज-गह्वरेषु आत्म-वत्सकान्

विचिन्वन् भगवान् कृष्णः स-पाणि-कवलः ययौ ॥ 14


अम्भोज जन्म जनिः तत् अन्तर गतः माय-अर्भकस्य ईशितुः

द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तत् वत्सान् इतः वत्सपान्

नीत्वा अन्यत्र कुरु-उद्वह अन्तर-दधात् खे अवस्थितः यः पुरा

दृष्ट्वा अघासुर मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ 15


ततः वत्सान् अदृष्ट्वा एत्य पुलिने अपि च वत्सपान्

उभावपि वने कृष्णः विचिकाय समन्ततः ॥ 16


क्व अपि अदृष्ट्वा अन्तर्-विपिने वत्सान् पालान् च विश्ववित्

सर्वं विधि-कृतं कृष्णः सहसा अवजगाम ह ॥ 17


ततः कृष्णः मुदं कर्तुं तन् मातॄणां च कस्य च

उभयायितम् आत्मानं चक्रे विश्व-कृत् ईश्वरः ॥ 18


यावत् वत्स-पवत्सक-अल्पक-वपुः

यावत् कर-अङ्घ्र्यादिकम्

यावत् यष्टि-विषाण-वेणु-दल-शिग्

यावत् विभूषा-अम्बरम्

यावत् शील-गुण-अभिधा-कृति-वयो

यावत् विहार-आदिकम्

सर्वं विष्णुमयं गिरेः अङ्गवत् अजः

सर्व-स्वरूपः बभौ ॥ 19


स्वयम् आत्मा आत्म-गोवत्सान् प्रतिवार्य आत्म-वत्सपैः

क्रीडन् आत्म-विहारैः च सर्व-आत्मा प्राविशत् व्रजम् ॥ 20


तत्तत् वत्सान् पृथक् नीत्वा तत्तत् गोष्ठे निवेश्य सः ।
तत्तत् आत्मा अभवत् राजन् तत्तत् सद्म प्रविष्टवान् ॥ 21

तन् मात्रः वेणु रव तत् वर उत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।

स्नेह स्रुत स्तन्य पयः सुधा असवम्
मत्वा परम् ब्रह्म सुतान् अपाययन् ॥ 22

ततः नृप उन्मर्दन मज्जन लेपन
अलङ्कार रक्षा तिलक आसन आदिभिः ।

संलालितः स्व आचरितैः प्रहर्षयन्
सायं गतः याम यमेन माधवः ॥ 23

गावः ततः गोष्ठम् उपेत्य सत्वरम्
हुंकार घोषैः परिहूत सङ्गतान् ।

स्वकान् स्वकान् वत्स तरान् अपाययन्
मुहुः लिहन्त्यः स्रवत् औधसम् पयः ॥ 24

गो गोपीनाम् मातृता अस्मिन् सर्वा स्नेह अर्धिकाम् विना ।
पुरो वतासु अपि हरेः तॊकता मायया विना ॥ 25

व्रज औकसाम् स्व तॊकेषु स्नेह वल्ली अब्दम् अन्वहम् ।
शनैः निःसीम ववृधे यथा कृष्णे तु अपूर्ववत् ॥ 26

इत्थम् आत्मा आत्मना आत्मानम् वत्सपालम् इषेण सः ।
पालयन् वत्सपः वर्षम् चिक्रीडे वन गोष्ठयोः ॥ 27

एकदा चारयन् वत्सान् स रामः वनम् आविशत् ।
पञ्च षासु त्रियामासु हायन पूर्णीषु अजः ॥ 28

ततः विदूरात् चरतः गावः वत्सान् उपव्रजम् ।
गोवर्धन आद्रि शिरसि चरन्त्यः ददृशुः तृणम् ॥ 29

दृष्ट्वा अथ तत् स्नेह वशः अस्मृत आत्मा
स गोव्रजः अति आत्म पद दुर्ग मार्गः ।

द्विपात् ककुद् ग्रीव उदास्य पुच्छः
अगात् हुं कृतैः आस्रुपयाः जवेन ॥ 30

समेत्य गावः अधः वत्सान् वत्सवत् यः अपि अपाययन् ।
गिलन्त्यः इव च अङ्गानि लिहन्त्यः स्रवत् औधसम् पयः ॥ 31

गोपाः तत् रोधन आयास मौघ्य लज्जा ऊरु मन्युना ।
दुर्ग अध्वकृच्छ्रतः अभ्येत्य गोवत्सैः ददृशुः सुतान् ॥ 32

तत् ईक्षण उत्स्रेम रस आप्लुत आशयाः
जात अनुरागाः गत मन्यवः अर्भकान् ।

उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैः अवापुः परमाम् मुदम् ते ॥ 33

ततः प्रवयसः गोपाः तॊक आलिङ्गन सु निर्वृताः ।
कृच्छ्रात् शनैः अपगताः तत् अनुस्मृत्य उदश्रवः ॥ 34

व्रजस्य रामः प्रेम अर्धेः वीक्ष्य उत्कण्ठ्यम् अनुक्षणम् ।
मुक्त स्तनेषु अपत्येषु अपि अहेतु विद् अचिन्तयत् ॥ 35

किम् एतत् अद्भुतम् इव वासुदेवे अखिल आत्मनि ।
व्रजस्य स आत्मनः तॊकेषु अपूर्वम् प्रेम वर्धते ॥ 36

का इयम् वा कुतः आयाता दैवी वा नारी उत असुरी ।
प्रायः माया अस्तु मे भर्तुः न अन्याः मे अपि विमोहिनी ॥ 37

इति सञ्चिन्त्य दाशार्हः वत्सान् सवयसान् अपि ।
सर्वान् आचष्ट वैकुण्ठम् चक्षुषा वयुनेन सः ॥ 38

न एते सुरेशाः ऋषयः न च एते
त्वम् एव भासि ईश भिदा आश्रये अपि ।

सर्वम् पृथक् त्वम् निगमात् कथम् वदे
इति उक्तेन वृत्तम् प्रभुणा बलः अवैत् ॥ 39

तावत् एत्य आत्मभूः आत्म मानेन त्रुट्य अनिहसा ।
पुरः वत् अब्दम् क्रीडन्तम् ददृशे सकलम् हरिम् ॥ 40


यावन्तः गोकुले बालाः सवत्साः सर्वे एव हि।

मायाशये शयाना मे न अद्य अपि पुनः उत्थिताः ॥ 41


इतः एते अत्र कुत्रत्या मन्माया मोहिते इतरे।

तावन्तः एव तत्र अब्दं क्रीडन्तः विष्णुना समम् ॥ 42


एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः।

सत्याः के कतरे न इति ज्ञातुम् न ऐष्टे कथञ्चन ॥ 43


एवं सम्मोहयन् विष्णुम् विमोहम् विश्वमोहनम्।

स्वया एव मायया अजः अपि स्वयम् एव विमोहितः ॥ 44


तम्यां तमोवत् नैहारं खद्योत अर्चिः इव अहनि।

महती इतरा माया ईश्यं निहन्ति आत्मनि युञ्जतः ॥ 45


तावत् सर्वे वत्सपालाः पश्यतः अजस्य तत्क्षणात्।

व्यदृश्यन्त घनश्यामाः पीत कौशेय वाससः ॥ 46


चतुर्भुजाः शङ्ख चक्र गदा राजीव पाणयः।

किरीटिनः कुण्डलिनः हारिणः वन मालिनः ॥ 47


श्रीवत्स अङ्गद दोः रत्न कम्बु कङ्कण पाणयः।

नूपुरैः कटकैः भाताः कटि सूत्र अङ्गुलीयकैः ॥ 48


आङ्घ्रि मस्तकम् आपूर्णाः तुलसी नव दामभिः।

कोमलैः सर्व गात्रेषु भूरि पुण्य वद अर्पितैः ॥ 49


चन्द्रिका विशद स्मेरैः सारुण अपाङ्ग वीक्षितैः।

स्वकार्थानाम् इव रजः सत्त्वाभ्यां स्रष्टृ पालकाः ॥ 50


आत्म आदि स्तम्ब पर्यन्तैः मूर्तिमद्भिः चर अचरैः।

नृत्य गीत आद्य अनेक अर्हैः पृथक् पृथक् उपासिताः ॥ 51


अणिमा आद्यैः महिमभिः अज आदि अभिः विभूतिभिः।

चतुर्विंशतिभिः तत्त्वैः परीता महत् आदिभिः ॥ 52


काल स्वभाव संस्कार काम कर्म गुण आदिभिः।

स्व महि ध्वस्त महिभिः मूर्तिमद्भिः उपासिताः ॥ 53


सत्य ज्ञान आनन्त आनन्द मात्र एक रस मूर्तयः।

अस्पृष्ट भूरि माहात्म्याः अपि हि उपनिषद् दृशाम् ॥ 54


एवं सकृत् ददर्श अजः परब्रह्म आत्मनः अखिलान्।

यस्य भासा सर्वम् इदं विभाति सचर अचरम् ॥ 55


ततः अतिकुतुक उद्वृत्त स्तिमित एकादश इन्द्रियः।

तत् धाम्ना अभूत् अजः तूष्णीं पूर्देव्यन्ती इव पुत्रिका ॥ 56


इति ईशे अतिक्ये निज महिमनि स्व प्रमितिके।

परत्र आजातः अतन् निरसन मुख ब्रह्म कमितौ ॥


अनीशे अपि द्रष्टुं किम् इदम् इति वा मुह्यति सति।

छाद अजः ज्ञात्वा सपदि परमः अज अज वनिकाम् ॥ 57


ततः अर्वाक् प्रतिलब्ध अक्षः कः परेतवत् उत्थितः।

कृच्छ्रात् उन्मील्य वै दृष्टिः आचष्ट इदं सह आत्मना ॥ 58


सपदि एव अभितः पश्यन् दिशः अपश्यत् पुरः स्थितम्।

वृन्दावनं जन आजीव्य द्रुम आकीर्णम् सम प्रियम् ॥ 59


यत्र नैसर्ग दुर्वैराः सह आसन् नृ मृग आदयः।

मित्राणि इव अजित आवास द्रुत रुट् तर्षक आदिकम् ॥ 60


तत्र उद्वहत् पशुप वंश शिशु त्व नाट्यम्

ब्रह्म अद्वयम् परम् अनन्तम् अगाध बोधम्।

वत्सान् सखीन् इव पुरा परितः विचिन्वत्

एकम् स पाणि कवलम् परमेष्ठी अचष्ट ॥ 61


दृष्ट्वा त्वरेण निज धोरणतः अवतीर्य

पृथ्व्याम् वपुः कनक दण्डम् इव अभिपात्य।

स्पृष्ट्वा चतुर्मुख उट कोटिभिः अङ्‌घ्रि युग्मम्

नत्वा मुद अश्रु सु जलैः अक्रुत अभिषेकम् ॥ 62


उत्थाय उत्थाय कृष्णस्य चिरस्य पादयोः पतन्।

आस्ते महित्वम् प्राक् दृष्टम् स्मृत्वा स्मृत्वा पुनः पुनः ॥ 63


शनैः अथ उत्थाय विमृज्य लोचने

मुकुन्दम् उद्वीक्ष्य विनम्र कन्धरः।

कृत अञ्जलिः प्रश्रयवान् समाहितः

स वेपथुः गद्‍गदया इलतेलया ॥ 64


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः॥ 13

ஸ்கந்தம் 10: அத்யாயம் 12 (அகாசுரன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 அகாசுரன் மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 12

श्रीशुक उवाच


क्वचित् वन-आशाय मनः दधत् व्रजात्

प्रातः समुत्थाय वयस्य-वत्सपान्।

प्रबोधयन् श्रृङ्ग-रवेण चारुणा

विनिर्गतः वत्स-पुरःसरः हरिः ॥१॥


तेन एव साकं पृथुकाः सहस्रशः

स्निग्धाः सु-शिग्वेत्र-विषाण-वेणवः।

स्वान् स्वान् सहस्रः परिसङ्ख्यान्वितान्

वत्सान् पुरस्कृत्य विनिर्ययुः मुदा ॥२॥


कृष्ण-वत्सैः असङ्ख्यातैः यूथीकृत्य स्व-वत्सकान्।

चारयन्तः अर्भ-लीलाभिः विजह्रुः तत्र तत्र ह ॥३॥


फल-प्रबाल-स्तबक-सुमनः-पिच्छ-धातुभिः।

काच-गुञ्जा-मणि-स्वर्ण-भूषिताः अपि अभूषयन् ॥४॥


मुष्णन्तः अन्योन्य-शिक्य-आदीन् ज्ञातान् आरा-अच्च चिक्षिपुः।

तत्रत्याः च पुनः दूरात् हसन्तः च पुनः अददुः ॥५॥


यदि दूरं गतः कृष्णः वन-शोभा-ईक्षणाय तम्।

अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥६॥


केचित् वेणून् वादयन्तः ध्मान्तः श्रृङ्गाणि केचन।

केचित् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥७॥


विच्छायाभिः प्रधावन्तः गच्छन्तः साधु हंसकैः।

बकैः उपविशन्तः च नृत्यन्तः च कलापिभिः ॥८॥


विकर्षन्तः कीश-बालान् आरोहन्तः च तैः द्रुमान्।

विकुर्वन्तः च तैः साकं प्लवन्तः च पलाशिषु ॥९॥


साकं भेकैः विलङ्घन्तः सरित्-प्रस्रव-संप्लुताः।

विहसन्तः प्रति-छायाः शपन्तः च प्रति-स्वनान् ॥१०॥


इत्थं सतां ब्रह्म-सुख-अनुभूत्याः

दास्यं गतानां पर-दैवतेन।

माया-आश्रितानां नर-दारकेण

साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥११॥


यत् पाद-पांसुः बहु-जन्म-कृच्छ्रतः

धृत-आत्मभिः योगिभिः अपि अलभ्यः।

स एव यत्-दृक्-विषयः स्वयं स्थितः

किं वर्ण्यते दिष्टम् अतः व्रज-औकसाम् ॥१२॥


अथ अघ-नाम आभ्यपतत् महा-असुरः

तेषां सुख-क्रीडन-वीक्षण-अक्षमः।

नित्यं यत् अन्तः निज-जीवित-ईप्सुभिः

पीत-अमृतैः अपि अमरैः प्रतीक्ष्यते ॥१३॥


दृष्ट्वा अर्भकान् कृष्ण-मुखान् अघासुरः

कंस-अनुशिष्टः स बकी-बक-अनुजः।

अयं तु मे स-उदर-नाश-कृत्

तयोः द्वयोः मम एनं सबलम् हनिष्ये ॥१४॥


एते यदा मत्-सुहृदः तिलापः

कृताः तदा नष्ट-समाः व्रज-औकसः।

प्राणे गते वर्ष्मसु का नु चिन्ता

प्रजा-असवः प्राण-भृतः हि ये ते ॥१५॥


इति व्यवस्य अजगरं बृहत्-वपुः

स योजन-आयाम-महा-द्रि-पीवरम्।

धृत्वा अद्भुतं व्यात्त-गुहा-आननं तदा

पथि व्यशेत ग्रसन-आशया खलः ॥१६॥


धरा-अधर-ओष्ठः जलद-उत्तर-ओष्ठः

दर्य-आनन-अन्तः गिरि-शृङ्ग-दंष्ट्रः।

ध्वान्त-अन्तर-आस्यः वितत-अध्व-जिह्वः

परुष-अनिल-श्वास-दम्-ईक्षण-उष्णः ॥१७॥


दृष्ट्वा तम् तादृशं सर्वे मत्वा वृन्दावन-श्रियम्।

व्यात्त-अजगर-तुण्डेन हि उत्प्रेक्षन्ते स्म लीलया ॥१८॥


अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम्।

अस्मत्-सङ्ग्रसन-व्यात्त व्याल-तुण्डायते न वा ॥१९॥


सत्यं अर्क-कर-आरक्तं उत्तर-आहनु-वत् धनम्।

अधर-आहनु-वत् रोधः तत्-प्रति-छायया अरुणम् ॥२०॥


प्रतिस्पर्धेते सृक्किभ्यां सव्या असव्ये नगा उदरे

तुंग शृंग आलय: अपि एताः तद् दंष्ट्राभिः च पश्यत ॥ 21


आस्तृत आयाम मार्ग: अयं रसनां प्रति गर्जति

एषाम् अन्तर्गतं ध्वान्तम् एतत् अपि अन्त: आननम् ॥ 22


दाव उष्ण खर वात: अयं श्वासवत् भाति पश्यत

तत् दग्ध सत्त्व दुर्गन्ध: अपि अन्तर आमिष गन्धवत् ॥ 23


अस्मान् किम् अत्र ग्रसिता निविष्टा

न अयं तथा चेत् बकवत् विनङ्क्ष्यति

क्षणात् अनेन इति बक आर्युषम् मुखम्

वीक्ष्य उद्धसन्तः करताडनै: ययुः ॥ 24


इत्थं मिथ: अतथ्यम् अ-तज्ज्ञ भाषितम्

श्रुत्वा विचिन्त्य इत्य अमृषा मृषायते

रक्ष: विदित्वा अखिल-भूत हृत् स्थित:

स्वानाम् निरोद्धुं भगवान् मन: दधे ॥ 25


तावत् प्रविष्टाः तु असुर उदर अन्तरम्

परं न गीर्णाः शिशवः सवत्साः

प्रतीक्षमाणेन बक आरिवेशनम्

हत स्वकान्त स्मरणेन रक्षसा ॥ 26


तान् वीक्ष्य कृष्णः सकल अभय प्रदः

हि अनन्य नाथान् स्व करात् अवच्युतान्

दीनान् च मृत्युः जठर अग्नि घासान्

घृणा अर्दितः दिष्ट कृतेंन विस्मितः ॥ 27


कृत्यं किम् अत्र अस्य खलस्य जीवनम्

न वा अमीषां च सतां विहिंसनम्

द्वयं कथं स्यात् इति संविचिन्त्य तत्

ज्ञात्वा अविशत् तुण्डम् अशेष दृष्ट् हरिः ॥ 28


तदा घनच्छदा देवाः भयात् हा हा इति चुक्रुशुः

जहृषुः ये च कंस आद्याः कौणपास् तु अघ बान्धवाः ॥ 29


तत् श्रुत्वा भगवान् कृष्णः तु अव्ययः सार्भवत्सकम्

चूर्णी चिकीर्षोः आत्मानं तरसा ववृधे गले ॥ 30


ततः अति कायस्य निरुद्ध मार्गिणः

हि उद्गीर्ण दृष्टेः भ्रमतः तु इत: ततः

पूर्णः अन्तरङ्गे पवनः निरुद्धः

मूर्धन् विनिष्पाट्य विनिर्गतः बहिः ॥ 31


तेन एव सर्वेषु बहिः गतेषु

प्राणेषु वत्सान् सुहृदः परेतान्

दृष्ट्या स्वयम् उत्थाप्य तत् अन्वितः पुनः

वक्त्रात् मुकुन्दः भगवान् विनिर्ययौ ॥ 32


पीन अहि भोग उत्थितम् अद्भुतम् महत्

ज्योतिः स्वधाम्ना ज्वलयत् दिशः दश

प्रतीक्ष्य खे अवस्थितम् ईश निर्गमम्

विवेश तस्मिन मिषताम् दिवौकसाम् ॥ 33


ततः अति हृष्टाः स्व कृतः अ-कृत अर्हणम्

पुष्पैः सुराः अप्सरसः च नर्तनैः

गीतैः सुगाः वाद्य धराः च वाद्यकैः

स्तवैः च विप्राः जय निःस्वनैः गणाः ॥ 34


तत् अद्भुत स्तोत्र सुवाद्य गीतिका

जय आदि नैक उत्सव मङ्गल स्वनान्

श्रुत्वा स्वधाम्नः अन्त्यजः आगतः अचिरात्

दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ 35


राजन् आजगरं चर्म शुष्कं वृन्दावने अद्भुतम्

व्रज औकसाम् बहु तिथं बभूव आक्रीड गह्वरम् ॥ 36


एतत् कौमारजं कर्म हरेः आत्मा अ-हिमोक्षणम्

मृत्युः पौगण्डके बालाः दृष्ट्वा ऊचुः विस्मिताः व्रजे ॥ 37


न एतत् विचित्रं मनुज अर्भ मायिनः

परावराणाम् परमस्य वेधसः

अघः अपि यत् स्पर्शन धौत पातकः

प्राप आत्म साम्यम् तु असताम् सुदुर्लभम् ॥ 38


सकृत् यत् अङ्ग प्रतिमा अन्तर आहिताः

मनो मयी भागवतीं ददौ गतिम्

सः एव नित्य आत्म सुख अनुभूत्य अभि

व्युदस्त माया अन्तर्गतः हि किम् पुनः ॥ 39


श्री सूत उवाच

इत्थं द्विजाः यादव देव दत्तः

श्रुत्वा स्वरातुः चरितं विचित्रम्

पप्रच्छ भूयः अपि तत् एव पुण्यम्

वैयासकिं यत् निगृहीत चेताः ॥ 40


श्री राजः उवाच


ब्रह्मन् काल अन्तर कृतं तत्कालीनं कथं भवेत्

यत् कौमारे हरि कृतं जगुः पौगण्डके अर्भकाः ॥ 41


तत् ब्रूहि मे महा योगिन् परं कौतूहलं गुरो

नूनम् एतत् हरेः एव माया भवति न अन्यथा ॥ 42


वयं धन्यतमाः लोके गुरो अपि क्षत्र बन्धवः

यत् पिबामः मुहुः त्वत्तः पुण्यम् कृष्ण कथा अमृतम् ॥ 43


श्री सूतः उवाच


इत्थं स्म पृष्टः स तु बादरायणिः

तत् स्मारित अनन्त हृत अखिल इन्द्रियः

कृच्छ्रात् पुनः लब्ध बहिः दृष्टिः शनैः

प्रत्याह तम् भागवत उत्तम उत्तम ॥ 44


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ 12

ஸ்கந்தம் 10: அத்யாயம் 11 (பாலலீலை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பால லீலை

ஸ்கந்தம் 10: அத்யாயம் 11

श्री शुक उवाच गोपा नन्द-आदयः श्रुत्वा द्रुमयोः पततो रवम्। तत्र आजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः ॥१॥ भूम्याम् निपतितौ तत्र ददृशुः यमलार्जुनौ। बभ्रमुः तत् अविज्ञाय लक्ष्यं पतन-कारणम् ॥२॥ उलूखलम् विकर्षन्तं दाम्ना बद्धं च बालकम्। कस्य इदम् कुतः आश्चर्यं उत्पातः इति कातराः ॥३॥ बाला ऊचुः अनेन इति तिर्यक्-गतं उलूखलम्। विकर्षता मध्य-गेन पुरुषौ अपि अचक्ष्महि ॥४॥ न ते तत् उक्तं जगृहुः न घटेते इति तस्य तत्। बालस्य उत्पाटनं तर्वोः केचित् संदिग्ध-चेतसः ॥५॥ उलूखलम् विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम्। विलोक्य नन्दः प्रहसत्-वदनः विमुमोच ह ॥६॥ गोपीभिः स्तोभितः अनृत्यत् भगवान् बालवत् क्वचित्। उद्गायति क्वचित् मुग्धः तद्वशः दारु-यन्त्रवत् ॥७॥ बिभर्ति क्वचित् आज्ञप्तः पीठक-उन्मान-पादुकम्। बाहु-क्षेपं च कुरुते स्वानाम् च प्रीतिम् आवहन् ॥८॥ दर्शयन् तद्विदां लोक आत्मनः भृत्य-वश्यताम्। व्रजस्य उवाह वै हर्षं भगवान् बाल-चेष्टितैः ॥९॥ क्रीणीहि भोः फलानि इति श्रुत्वा सत्वरम् अच्युतः। फल-अर्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥१०॥ फल-विक्रयिणी तस्य च्युत-धान्यं कर-द्वयम्। फलैः अपूरयत् रत्नैः फल-भाण्डम् अपूरि च ॥११॥ सरित्-तीर-गतं कृष्णं भग्न-अर्जुनम् अथ आह्वयत्। रामं च रोहिणी देवी क्रीडन्तं बालकैः भृशम् ॥१२॥ न उपेयाताम् यदा आहूतौ क्रीडा-सङ्गेन पुत्रकौ। यशोदाम् प्रेषयामास रोहिणी पुत्र-वत्सलाम् ॥१३॥ क्रीडन्तं सा सुतं बालैः अतिवेलं सह अग्रजम्। यशोदा आह्वयत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी ॥१४॥ कृष्ण कृष्ण अरविन्द-आक्ष तात एहि स्तनं पिब। अलम् विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तः असि पुत्रक ॥१५॥ हे राम आगच्छ तात अशु स-अनुजः कुल-नन्दन। प्रातः एव कृत-आहारः तत् भवान् भोक्तुम् अर्हति ॥१६॥ प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणः व्रज-अधिपः। एहि आवयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥१७॥ धूलि-धूसरित-अङ्गः त्वं पुत्र मज्जनम् आवह। जन्म-अर्क्षम् अद्य भवतः विप्रेभ्यः देहि गाः शुचिः ॥१८॥ पश्य पश्य वयस्यान् ते मातृ-मृष्टान् स्व-अलङ्कृतान्। त्वं च स्नातः कृत-आहारः विहरस्व स्व-अलङ्कृतः ॥१९॥ इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीः नृप। हस्ते गृहीत्वा स-रामम् अच्युतं नीत्वा स्व-वाटं कृतवती अथ उदयम् ॥२०॥

गोप-वृद्धाः महा-उत्पातान् अनुभूय बृहत्-वने।

नन्द-आदयः समागम्य व्रज-कार्यं अमन्त्रयन् ॥२१॥


तत्र उपनन्द-नामाः आह गोपः ज्ञान-वयः अधिकः।

देश-काल-अर्थ-तत्त्व-ज्ञः प्रिय-कृत् राम-कृष्णयोः ॥२२॥


उत्थातव्यम् इतः अस्माभिः गो-कुलस्य हित-ऐषिभिः।

आयान्ति अत्र महा-उत्पाताः बालानाम् नाश-हेतवः ॥२३॥


मुक्तः कथं चित् राक्षस्या बाल-घ्न्या बालकः हि असौ।

हरेः अनुग्रहात् नूनम् अनः च उपरि न आपतत् ॥२४॥


चक्र-वातेन नीतः अयम् दैत्येन विपदम् वियत्।

शिलायाम् पतितः तत्र परित्रातः सुर-ईश्वरैः ॥२५॥


यत् न म्रियेत द्रुमयोः अन्तरम् प्राप्य बालकः।

असौ अन्य-तमः वा अपि तत् अपि अच्युत-रक्षणम् ॥२६॥


यावत् औत्पातिकः अरिष्टः व्रजम् न अभिभवेत् इतः।

तावत् बालान् उपादाय यास्यामः अन्यत्र स-अनुगाः ॥२७॥


वनम् वृन्दावनं नाम पशव्यं नव-काननम्।

गोप-गोपि-गवां सेव्यं पुण्य-अद्रि तृण-वीरुधम् ॥२८॥


तत् तत्र अद्य एव यास्यामः शकटान् युङ्क्त मा चिरम्।

गो-धनानि अग्रतः यान्तु भवताम् यदि रोचते ॥२९॥


तत् श्रुत्वा एक-धियः गोपाः साधु साधु इति वादिनः।

व्रजान् स्वान् स्वान् समायुज्य ययुः ऊढ-परिच्छदाः ॥३०॥


वृद्धान् बालान् स्त्रियः राजन् सर्व-उपकरणानि च।

अनः-स्व आरोप्य गोपालाः यत्ताः आत्त-शरासनाः ॥३१॥


गो-धनानि पुरस्कृत्य शृङ्गाणि आपूर्य सर्वतः।

तूर्य-घोषेण महता ययुः सह-पुरोहिताः ॥३२॥


गोप्यः ऊढ-रथाः नूत्न-कुच-कुङ्कुम-कान्तयः।

कृष्ण-लीलाः जगुः प्रीत्या निष्क-कण्ठ्यः सु-वससः ॥३३॥


तथा यशोदा रोहिण्यौ एकं शकटम् आस्थिते।

रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवण-उत्सुके ॥३४॥


वृन्दावनं सम्प्रविश्य सर्व-काल-सुख-अवहम्।

तत्र चक्रुः व्रज-आवासं शकटैः अर्ध-चन्द्रवत् ॥३५॥


वृन्दावनं गोवर्धनं यमुन-अपुलिनानि च।

वीक्ष्य आसीत् उत्तमा प्रीति राम-माधवयोः नृप ॥३६॥


एवं व्रज-औकसाम् प्रीतिं यच्छन्तौ बाल-चेष्टितैः।

कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥३७॥


अविदूरे व्रज-भुवः सह गोपाल-दारकैः।

चारयामासतुः वत्सान् नाना-क्रीडा-परिच्छदौ ॥३८॥


क्वचित् वादयतः वेणुं क्षेपणैः क्षिपतः क्वचित्।

क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः ॥३९॥


वृष-आयमाणौ नर्दन्तौ युयुधाते परस्परम्।

अनुकृत्य रुतैः जन्तून् अंश्चेरतुः प्राकृतौ यथा ॥४०॥


कदाचित् यमुना-तीरे वत्सान् चारयतोः स्वकैः।

वयस्यैः कृष्ण-बलयोः जिघांसुः दैत्यः आगमत् ॥४१॥


तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतम् हरिः।

दर्शयन् बलदेवाय शनैः मुग्धः इव आसदत् ॥४२॥


गृहीत्वा अपर-पादाभ्यां सह-लाङ्गूलम् अच्युतः।

भ्रामयित्वा कपित्थ-अग्रे प्राहिणोत् गत-जीवितम् ॥

स कपित्थैः महा-कायः पात्यमानैः पपात ह ॥४३॥


तं वीक्ष्य विस्मिताः बालाः शशंसुः साधु साधु इति।

देवाः च परिसन्तुष्टाः बभूवुः पुष्प-वर्षिणः ॥४४॥


तौ वत्स-पालकौ भूत्वा सर्व-लोक-एक-पालकौ।

स-प्रातराशौ गो-वत्सान् चारयन्तौ विचेरतुः ॥४५॥


स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्तः एकदा।

गत्वा जलाशय-अभ्याशं पाययित्वा पपुः जलम् ॥४६॥


ते तत्र ददृशुः बालाः महा-सत्त्वम् अवस्थितम्।

तत्र असुरः वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥४७॥


स वै बकः नाम महान् असुरः बक-रूप-धृक्।

आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डः अग्रसत् बली ॥४८॥


कृष्णं महा-बक-ग्रस्तं दृष्ट्वा राम-आदयः अर्भकाः।

बभूवुः इन्द्रियाणि इव विना प्राणं विचेतसः ॥४९॥


तं तालु-मूलं प्रदहन्तम् अग्नि-वत्

गोपाल-सूनुं पितरं जगत्-गुरोः।

चच्छर्द सद्यः अति-रुषा क्षतम् बकः

तुण्डेन हन्तुं पुनः अभ्यपद्यत् ॥५०॥


तम् आपतन्तं स निगृह्य तुण्डयोः

दोर्भ्यां बकम् कंस-सखं सतां पतिः।

पश्यत्सु बालेषु ददार लीलया

मुदा-अवहः वीरणवत् दिव-औकसाम् ॥५१॥


तदा बकारिं सुर-लोक-वासिनः

समाकिरन् नन्दन-मल्लिका-आदिभिः।

समीडिरे च अनक-शङ्ख-संस्तवैः तद्

वीक्ष्य गोपाल-सुताः विसिस्मिरे ॥५२॥


मुक्तं बक-अस्यात् उपलभ्य बालकाः

राम-आदयः प्राणम् इव इन्द्रिय-गणः।

स्थान-आगतं तं परिरभ्य निर्वृताः

प्रणीय वत्सान् व्रजम् एत्य तत् जगुः ॥५३॥


श्रुत्वा तत् विस्मिताः गोपाः गोप्यः च अति-प्रिया-आदृताः।

प्रेत्य-आगतम् इव उत्सुक्यात् ऐक्षन्त तृषित-ईक्षणाः ॥५४॥


अहो बत अस्य बालस्य बहवः मृत्यवः अभवन्।

अपि आसीत् विप्रियं तेषां कृतं पूर्वं यतः भयम् ॥५५॥


अथ अपि अभिभवन्ति एनं नैव ते घोर-दर्शनाः।

जिघांसया एनम् आसाद्य नश्यन्ति अग्नौ पतङ्गवत् ॥५६॥


अहो ब्रह्म-विदां वाचः न असत्याः सन्ति कर्हिचित्।

गर्गः यत् आह भगवान् अन्वभावि तथैव तत् ॥५७॥


इति नन्द-आदयः गोपाः कृष्ण-राम-कथाम् मुदा।

कुर्वन्तः रममाणाः च न अविन्दन् भव-वेदनाम् ॥५८॥


एवं विहारैः कौमारैः कौमारं जहतुः व्रजे।

निलायनैः सेतु-बन्धैः मर्कट-उत्प्लवन-आदिभिः ॥५९॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वत्सचकवधो नामैकादशोऽध्यायः ॥ ११