Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 20 (புரு பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரு பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 20


श्री-शुकः उवाच।
पूरोः वंशं प्रवक्ष्यामि यत्र जातः असि भारत।
यत्र राज-ऋषयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे ॥१॥

जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत्-सुतः ततः।
प्रवीरः अथ नमस्युः वै तस्मात् चारु-पदः अभवत् ॥२॥

तस्य सुद्युः अभूत् पुत्रः तस्मात् बहु-गवः ततः।
संयातिः तस्य आंहयातिः रौद्र-आश्वः तत्-सुतः स्मृतः ॥३॥

ऋतेयुः तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः।
जलेयुः सन्ततेयुः च धर्म-सत्य-व्रतेयवः ॥४॥

दश एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः।
घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगद्-आत्मनः ॥५॥

ऋतेयुः रन्तिभारः अभूत् त्रयः तस्य आत्मजाः नृप।
सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः ॥६॥

तस्य मेधातिथिः तस्मात् प्रस्कण्व-आद्याः द्विजातयः।
पुत्रः अभूत् सुमतेः रैभ्यः दुष्यन्तः तत्-सुतः मतः ॥७॥

दुष्यन्तः मृगयाम् यातः कण्व-आश्रम-पदं गतः।
तत्र आसीनाम् स्व-प्रभया मण्डयन्तीं रमाम् इव ॥८॥

विलोक्य सद्यः मुमुहे देव-मायाम् इव स्त्रियम्।
बभाषे तां वर-आरोहां भटैः कतिपयैः वृतः ॥९॥

तत्-दर्शन-प्रमुदितः संनिवृत्त-परिश्रमः।
पप्रच्छ काम-संतप्तः प्रहसन् श्लक्ष्णया गिरा ॥१०॥

का त्वं कमल-पत्र-आक्षि कस्य असि हृदय-अङ्गमे।
किं वा चिकीर्षितं तु अत्र भवत्या निर्जने वने ॥११॥

व्यक्तं राजन्य-तनयां वेद्मि अहं त्वां सुमध्यमे।
न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥१२॥

श्री-शकुन्तला उवाच।
विश्वा-मित्र-आत्मजैः एव अहं त्यक्ता मेनकया वने।
वेद एतत् भगवान् कण्वः वीर किं करवाम ते ॥१३॥

आस्यतां हि अरविन्द-आक्ष गृह्यतां अर्हणं च नः।
भुज्यतां सन्ति नीवाराः उष्यतां यदि रोचते ॥१४॥

दुष्यन्तः उवाच।
उपपन्नम् इदं सुभ्रु जातायाः कुशिक-आन्वये।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥१५॥

ओम् इति उक्ते यथा धर्मम् उपयेमे शकुन्तलाम्।
गान्धर्व-विधिना राजा देश-काल-विधान-वित् ॥१६॥

अमोघ-वीर्यः राज-ऋषिः महिष्यां वीर्यम् आदधे।
श्वोभूते स्वपुरं यातः कालेन असूत सा सुतम् ॥१७॥

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः।
बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥१८॥

तं दुरत्यय-विक्रान्तम् आदाय प्रमद-उत्तमा।
हरेः अंश-अंश-सम्भूतं भर्तुः अन्तिकम् आगमत् ॥१९॥

यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ।
श्रृण्वतां सर्व-भूतानां खे वाक् आहा-शरीरिणी ॥२०॥

माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः।
भरस्व पुत्रं दुष्यन्त मा अवमंस्थाः शकुन्तलाम् ॥२१॥

रेतोधाः पुत्रः नयति नर-देव यम-अक्षयात्।
त्वं च अस्य धाता गर्भस्य सत्यं आह शकुन्तला ॥२२॥

पितरि उपरते सः अपि चक्रवर्ती महा-यशाः।
महिमा गीयते तस्य हरेः अंश-भुवः भुवि ॥२३॥

चक्रं दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः।
ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराट् विभुः ॥२४॥

पञ्च-पञ्चाशता मेध्यैः गङ्गायाम् अनु वाजिभिः।
मामतेयं पुरोधाय यमुनाम् अनु प्रभुः ॥२५॥

अष्ट-सप्तति मेध्य-अश्वान् बबन्ध प्रददद् वसु।
भरतस्य हि दौष्यन्तेः अग्निः साची-गुणे चितः।
सहस्रं बद्वशः यस्मिन् ब्राह्मणा गाः विभेजिरे ॥२६॥

त्रयः त्रिंशत्-शतं हि अश्वान् बद्ध्वा विस्मापयन् नृपान्।
दौष्यन्तिः अत्यगात् मायां देवानां गुरुम् आययौ ॥२७॥

मृगान् शुक्ल-दतः कृष्णान् हिरण्येन परीवृतान्।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥२८॥

भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः।
न एव अपुः न एव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥२९॥

किरात-हूणान् यवनान् अन्ध्रान् कङ्कान् खशान् शकान्।
अब्रह्मण्यान् नृपान् च अहन् म्लेच्छान् दिग्विजये अखिलान् ॥३०॥

जित्वा पुरा असुरान् देवान् ये रस-औकांसि भेजिरे।
देव-स्त्रियः रसां नीताः प्राणिभिः पुनः आहरत् ॥३१॥

सर्व-अकामान् दुदुहतुः प्रजानां तस्य रोदसी।
समाः त्रि-नव-साहस्रीः दिक्षु चक्रम् अवर्तयत् ॥३२॥

सः सम्राट् लोकपाल-आख्यम् ऐश्वर्यम् अधिराट् श्रियम्।
चक्रम् च अस्खलितं प्राणान् मृषेत्य् उपरराम ह ॥३३॥

तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सुसम्मताः।
जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते ॥३४॥

तस्य एवं वितथे वंशे तदर्थं यजतः सुतम्।
मरुत्स्तोमेन मरुतः भरद्वाजम् उपाददुः ॥३५॥

अन्तर्वत्‍न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः।
प्रवृत्तः वारितः गर्भं शप्त्वा वीर्यम् अवासृजत् ॥३६॥

तं त्यक्तु-कामां ममतां भर्तृ-त्याग-विशङ्किताम्।
नाम-निर्वाचनं तस्य श्लोकम् एनं सुराः जगुः ॥३७॥

मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते।
यातौ यद् उक्त्वा पितरौ भरद्वाजः ततः तु अयम् ॥३८॥

चोद्यमानाः सुरैः एवम् मत्वा वितथम् आत्मजम्।
व्यसृजन् मरुतः अभिभ्रन् दत्तः अयं वितथे अन्वये ॥३९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे विंश अध्यायः ॥ 20

ஸ்கந்தம் 9: அத்யாயம் 21 (பரதன் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பரதன் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 21


श्री-शुकः उवाच।
वितथस्य सुतः मन्युः बृहत्-क्षत्रः जयः ततः।
महा-वीर्यः नरः गर्गः सङ्कृतिः तु नर-आत्मजः ॥१॥

गुरुः च रन्ति-देवः च सङ्कृतेः पाण्डु-नन्दन।
रन्ति-देवस्य हि यशः इह अमुत्र च गीयते ॥२॥

वियद्-वित्तस्य ददतः लब्धं लब्धं बुभुक्षतः।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥३॥

व्यतीयुः अष्ट-चत्वारिंशत्-अहनि अपिबतः किल।
घृत-पायस-संयावं तोयं प्रातः उपस्थितम् ॥४॥

कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः।
अतिथिः ब्राह्मणः काले भोक्तु-कामस्य च आगमत् ॥५॥

तस्मै संव्यभजत् सः अन्नम् आदृत्य श्रद्धया अन्वितः।
हरिं सर्वत्र संपश्यन् सः भुक्त्वा प्रययौ द्विजः ॥६॥

अथ अन्यः भोक्ष्यमाणस्य विभक्तस्य मही-पतेः।
विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥७॥

याते शूद्रे तम् अन्यः आगात् अतिथिः श्वभिः आवृतः।
राजन् मे दीयताम् अन्नं सगणाय बुभुक्षते ॥८॥

सः आदृत्य अवशिष्टं यत् बहु-मान-पुरस्कृतम्।
तत् च दत्त्वा नमः चक्रे श्वभ्यः श्व-पतये विभुः ॥९॥

पानीय-मात्रम् उच्छेषं तत् च एक-परितर्पणम्।
पास्यतः पुल्कसः अभ्यागात् अपः देहि अशुभस्य मे ॥१०॥

तस्य ताम् करुणाम् वाचम् निशम्य विपुल-श्रमाम्।
कृपया भृश-सन्तप्तः इदम् आह अमृतम् वचः ॥११॥

न कामये अहम् गतिम् ईश्वरात् पराम्
अष्ट-ऋद्धि-युक्ताम् अपुनः-भवम् वा।
आर्तिम् प्रपद्ये अखिल-देह-भाजाम्
अन्तः स्थितः येन भवन्ति अदुःखाः ॥१२॥

क्षुत्-तृट्-श्रमः गात्र-परिश्रमः च
दैन्यम् क्लमः शोक-विषाद-मोहाः।
सर्वे निवृत्ताः कृपणस्य जन्तोः
जिजीविषोः जीव-जल-अर्पणात् मे ॥१३॥

इति प्रभाष्य पानीयम् म्रियमाणः पिपासया।
पुल्कसाय अददात् धीरः निसर्ग-करुणः नृपः ॥१४॥

तस्य त्रिभुवन-अधीशाः फलदाः फलम् इच्छताम्।
आत्मानम् दर्शयाञ्चक्रुः माया विष्णु-विनिर्मिताः ॥१५॥

सः वै तेभ्यः नमस्कृत्य निःसङ्गः विगत-स्पृहः।
वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥१६॥

ईश्वर-आलम्बनम् चित्तम् कुर्वतः अनन्य-राधसः।
माया गुण-मयी राजन् स्वप्नवत् प्रत्यलीयत ॥१७॥

तत्-प्रसङ्ग-अनुभावेन रन्तिदेव-अनुवर्तिनः।
अभवन् योगिनः सर्वे नारायण-परायणाः ॥१८॥

गर्गात् शिनिः ततः गार्ग्यः क्षत्रात् ब्रह्म हि अवर्तत।
दुरित-क्षयः महा-वीर्यात् तस्य त्रय्या-अरुणिः कविः ॥१९॥

पुष्कर-अरुणिः इति अत्र ये ब्राह्मण-गतिम् गताः।
बृहत्क्षत्रस्य पुत्रः अभूत् हस्ती यत् हस्तिनापुरम् ॥२०॥

अजमीढः द्विमीढः-च पुरुमीढः-च हस्तिनः।
अजमीढस्य वंश्याः स्युः प्रियमेध-आदयः द्विजाः॥ 21

अजमीढात् बृहदिषुः तस्य पुत्रः बृहद्धनुः।
बृहत्कायः ततः तस्य पुत्रः आसीत् जयद्रथः॥ 22

तत्सुतः विशदः तस्य सेनजित् समजायत।
रुचिराश्वः दृढ-हनुः काश्यः वत्सः-च तत्सुताः॥ 23

रुचिराश्व-सुतः पारः पृथुसेनः तत्-आत्मजः।
पारस्य तनयः नीपः तस्य पुत्र-शतम् तु अभूत्॥ 24

सः कृत्व्याम् शुक-कन्यायाम् ब्रह्मदत्तम् अजीजनत्।
सः योगी गवि-भार्यायाम् विष्वक्सेनम् अधात् सुतम्॥ 25

जैगीषव्य-उपदेशेन योग-तन्त्रम् चकार ह।
उदक्स्वनः ततः तस्मात् भल्लादः बार्हदीषवाः॥ 26

यवीनरः द्विमीढस्य कृतिमान् तत्सुतः स्मृतः।
नाम्ना सत्यधृतिः यस्य दृढनेमिः सुपार्श्व-कृत्॥ 27

सुपार्श्वात् सुमतिः तस्य पुत्रः सन्नतिमान् ततः।
कृतीः हिरण्यनाभात् यः योगम् प्राप्य जगौ स्म षट्॥ 28

संहिताः प्राच्य-साम्नाम् वै नीपः हि उग्रायुधः ततः।
तस्य क्षेम्यः सुवीरः-अथ सुवीरस्य रिपुञ्जयः॥ 29

ततः बहुरथः नाम पुरुमीढः-अप्रजः अभवत्।
नलिन्याम् अजमीढस्य नीलः शान्तिः सुतः ततः॥ 30

शान्तेः सुशान्तिः तत्-पुत्रः पुरुजः अर्कः ततः अभवत्।
भर्म्याश्वः तनयः तस्य पञ्च-आसन् मुद्गल-आदयः॥ 31

यवीनरः बृहदिषुः काम्पिल्यः संजयः सुताः।
भर्म्याश्वः प्राह पुत्राः मे पञ्चानाम् रक्षणाय हि॥ 32

विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः।
मुद्गलात् ब्रह्म निर्वृत्तम् गोत्रम् मौद्गल्य-संज्ञितम्॥ 33

मिथुनम् मुद्गलात् भार्म्यात् दिवोदासः पुमान् अभूत्।
अहल्या कन्यका यस्याम् शतानन्दः तु गौतमात्॥ 34

तस्य सत्यधृतिः पुत्रः धनुर्वेद-विशारदः।
शरद्वान् तत्-सुतः यस्मात् उर्वशी-दर्शनात् किल॥ 35

शर-स्तम्बे अपतत् रेतः मिथुनम् तत् अभूत् शुभम्।
तत् दृष्ट्वा कृपया-अगृह्णात् शन्तनुः मृगयाम् चरन्।
कृपः कुमारः कन्या च द्रोण-पत्नी अभवत् कृपी॥ 36

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकविंशोऽध्यायः॥ 21 ॥

ஸ்கந்தம் 9: அத்யாயம் 22 (அஜ்மீடன் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 அஜ்மீடன் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 22


श्रीशुकः - उवाच।
मित्रेयुः - च - दिवोदासात् - च्यवनः - तत् - सुतः - नृप।

सुदासः - सहदेवः - अथ - सोमकः - जन्तु - जन्म - कृत्॥ 1
तस्य - पुत्र - शतं - तेषां - यवीयान् - पृषतः - सुतः।
द्रुपदः - द्रौपदी - तस्य - धृष्टद्युम्न - आदयः - सुताः॥ 2

धृष्टद्युम्नात् - धृष्टकेतुः - भार्म्याः - पाञ्चालकाः - इमे।
यः - अजमीढ - सुतः - हि - अन्यः - ऋक्षः - संवरणः - ततः॥ 3

तपत्यां - सूर्य - कन्यायां - कुरुक्षेत्र - पतिः - कुरुः।
परीक्षित् - सुधनुः - जह्नुः - निषधाश्वः - कुरोः - सुताः॥ 4

सुहोत्रः - अभूत् - सुधनुषः - च्यवनः - अथ - ततः - कृती।
वसुः - तस्य - उपरिचरः - बृहद्रथ - मुखाः - ततः॥ 5

कुशाम्बः - मत्स्य - प्रत्यग्र - चेदिपाद्याः - च - चेदिपाः।
बृहद्रथात् - कुशाग्रः - अभूत् - ऋषभः - तस्य - तत् - सुतः॥ 6

जज्ञे - सत्यहितः - अपत्यं - पुष्पवान् - तत् - सुतः - जहुः।
अन्यस्याम् - च - अपि - भार्यायाम् - शकले - द्वे - बृहद्रथात्॥ 7

ये - मात्रा - बहिः - उत्सृष्टे - जरया - च - अभिसन्धिते।
जीव - जीव - इति - क्रीडन्त्या - जरासन्धः - अभवत् - सुतः॥ 8

ततः - च - सहदेवः - अभूत् - सोमापिः - यत् - श्रुतश्रवाः।
परीक्षित् - अनपत्यः - अभूत् - सुरथः - नाम - जाह्नवः॥ 9

ततः - विदूरथः - तस्मात् - सार्वभौमः - ततः - अभवत्।
जयसेनः - तत् - तनयः - राधिकः - अतः - अयुतः - हि - अभूत्॥ 10

ततः - च - क्रोधनः - तस्मात् - देवातिथिः - अमुष्य - च।
ऋष्यः - तस्य - दिलीपः - अभूत् - प्रतीपः - तस्य - च - आत्मजः॥ 11

देवापिः - शान्तनुः - तस्य - बाह्लीकः - इति - च - आत्मजाः।
पितृ - राज्यं - परित्यज्य - देवापिः - तु - वनं - गतः॥ 12

अभवत् - शान्तनुः - राजा - प्राङ् - महाभिष - संज्ञितः।
यं - यं - कराभ्यां - स्पृशति - जीर्णं - यौवनम् - एति - सः॥ 13

शान्तिम् - आप्नोति - च - एव - अग्र्यां - कर्मणा - तेन - शन्तनुः।
समा - द्वादश - तत् - राज्ये - न - ववर्ष - यदा - विभुः॥ 14

शन्तनुः - ब्राह्मणैः - उक्तः - परिवेत्ता - अयम् - अग्रभुक्।
राज्यं - देहि - अग्रजाय - आशु - पुर - राष्ट्र - विवृद्धये॥ 15

एवम् - उक्तः - द्विजैः - ज्येष्ठं - छन्दयामास - सः - अब्रवीत्।
तत् - मन्त्रि - प्रहितैः - विप्रैः - वेदात् - विभ्रंशितः - गिरा॥ 16

वेद - वाद - अतिवादान् - वै - तदा - देवः - ववर्ष - ह।
देवापिः - योगम् - आस्थाय - कलाप - ग्रामम् - आश्रितः॥ 17

सोम - वंशे - कलौ - नष्टे - कृत - आदौ - स्थापयिष्यति।
बाह्लीकात् - सोमदत्तः - अभूत् - भूरिः - भूरिश्रवाः - ततः॥ 18

शलः - च - शन्तनुः - आसीत् - गङ्गायां - भीष्मः - आत्मवान्।
सर्व - धर्म - विदां - श्रेष्ठः - महाभागवतः - कविः॥ 19

वीर - यूथ - अग्रणीः - येन - रामः - अपि - युधि - तोषितः।
शन्तनुः - दाश - कन्यायां - जज्ञे - चित्राङ्गदः - सुतः॥ 20


विचित्रवीर्यः - च - अवरजः - नाम्ना - चित्राङ्गदः - हतः।
यस्यां - पराशरात् - साक्षात् - अवतीर्णः - हरेः - कला॥ 21

वेदगुप्तः - मुनिः - कृष्णः - यतः - अहम् - इदम् - अध्यगाम्।
हित्वा - स्व - शिष्यान् - पैल - आदीन् - भगवान् - बादरायणः॥ 22

मह्यं - पुत्राय - शान्ताय - परं - गुह्यम् - इदम् - जगौ।
विचित्रवीर्यः - अथ - उवाह - काशीराज - सुते - बलात्॥ 23

स्वयंवरात् - उपानीते - अम्बिका - अम्बालिके - उभे।
तयोः - आसक्त - हृदयः - गृहीतः - यक्ष्मणा - मृतः॥ 24

क्षेत्रे - अप्रजस्य - वै - भ्रातुः - मात्रा - उक्तः - बादरायणः।
धृतराष्ट्रं - च - पाण्डुं - च - विदुरं - च - अपि - अजीजनत्॥ 25

गान्धार्यां - धृतराष्ट्रस्य - जज्ञे - पुत्र - शतम् - नृप।
तत्र - दुर्योधनः - ज्येष्ठः - दुःशला - च - अपि - कन्यका॥ 26

शापात् - मैथुन - रुद्धस्य - पाण्डोः - कुन्त्याम् - महारथाः।
जाता - धर्म - अनिल - इन्द्रेभ्यः - युधिष्ठिर - मुखाः - त्रयः॥ 27

नकुलः - सहदेवः - च - माद्र्यां - नासत्य - दस्योः।
द्रौपद्यां - पञ्च - पञ्चभ्यः - पुत्राः - ते - पितरः - अभवन्॥ 28

युधिष्ठिरात् - प्रतिविन्ध्यः - श्रुतसेनः - वृकोदरात्।
अर्जुनात् - श्रुतकीर्तिः - तु - शतानीकः - तु - नाकुलिः॥ 29

सहदेव - सुतः - राजन् - श्रुतकर्मा - तथा - अपरे।
युधिष्ठिरात् - तु - पौरव्यां - देवकः - अथ - घटोत्कचः॥ 30

भीमसेनात् - ढिडिम्बायां - काल्यां - सर्वगतः - ततः।
सहदेवात् - सुहोत्रं - तु - विजयाऽसूत - पार्वती॥ 31

करेणुमत्यां - नकुलः - निरमित्रं - तथा - अर्जुनः।
इरावन्तं - उलूप्यां - वै - सुतायां - बभ्रुवाहनम्।
मणिपुरपतेः - सः - अपि - तत्पुत्रः - पुत्रिकासुतः॥ 32

तव - तातः - सुभद्रायाम् - अभिमन्युः - अजात।
सर्वातिरथजित् - वीरः - उत्तरायां - ततः - भवान्॥ 33

परिक्षीणेषु - कुरुषु - द्रौणेः - ब्रह्मास्त्र - तेजसा।
त्वं - च - कृष्ण - अनुभावेन - सजीवः - मोचितः - अन्तकात्॥ 34

तव - इमे - तनयाः - तात - जनमेजय - पूर्वकाः।
श्रुतसेनः - भीमसेनः - उग्रसेनः - च - वीर्यवान्॥ 35

जनमेजयः - त्वां - विदित्वा - तक्षकात् - निधनं - गतम्।
सर्पान् - वै - सर्पयाग - अग्नौ - सः - होष्यति - रुषा - अन्वितः॥ 36

कावषेयं - पुरोधाय - तुरं - तुरगमेध - यात्।
समन्तात् - पृथिवीं - सर्वां - जित्वा - यक्ष्यति - च - अध्वरैः॥ 37

तस्य - पुत्रः - शतानीकः - याज्ञवल्क्यात् - त्रयीं - पठन्।
अस्त्रज्ञानं - क्रियाज्ञानं - शौनकात् - परमेष्यति॥ 38

सहस्रानीकः - तत्पुत्रः - ततः - च - एव - अश्वमेधजः।
असीमकृष्णः - तस्य - अपि - नेमिचक्रः - तु - तत्सुतः॥ 39

गजाह्वये - हृते - नद्या - कौशाम्ब्यां - साधु - वत्स्यति।
उक्तः - ततः - चित्ररथः - तस्मात् - कविरथः - सुतः॥ 40

तस्मात्-च वृष्टिमान्-तस्य सुषेणः-अथ महीपतिः।
सुनीथः-तस्य भविता नृचक्षुः-यत् सुखीनलः॥ 41

परिप्लवः सुतः-तस्मात्-मेधावी सुनय-आत्मजः।
नृपञ्जयः-ततः दूर्वस्तिमिः-तस्मात्-जनिष्यति॥ 42

तिमेः-बृहद्रथः-तस्मात्-शतानीकः सुदासजः।
शतानीकात्-दुर्दमनः-तस्य-अपत्यं बहीनरः॥ 43

दण्डपाणिः-निमिः-तस्य क्षेमकः भविता नृपः।
ब्रह्म-क्षत्रस्य वै प्रोक्तः वंशः देवर्षि-सत्कृतः॥ 44

क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
अथ मागध-राजानः भवितारः ये वदामि ते॥ 45

भविता सहदेवस्य मार्जारिः-यत्-श्रुतश्रवाः।
ततः-अयुतायुः-तस्य-अपि निरमित्रः-अथ तत्सुतः॥ 46

सुनक्षत्रः सुनक्षत्रात्-बृहत्सेनः-अथ कर्मजित्।
ततः सुतञ्जयात्-विप्रः शुचिः-तस्य भविष्यति॥ 47

क्षेमः-अथ सुव्रतः-तस्मात् धर्मसूत्रः शमः-ततः।
द्युमत्सेनः-अथ सुमतिः सुबलः जनितः-ततः॥ 48

सुनीथः सत्यजित्-अथ विश्वजित्-यत् रिपुञ्जयः।
बार्हद्रथाः-च भूपालाः भाव्याः साहस्र-वत्सरम्॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ 22 ॥



ஸ்கந்தம் 9: அத்யாயம் 23 (யயாதியின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதியின் பிள்ளைகள்

ஸ்கந்தம் 9: அத்யாயம் 23

श्रीशुक उवाच।
अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः।
सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः॥ 1

जनमेजयस्तस्य पुत्रो महाशालो महामनाः।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ॥ 2

शिबिर्वनः शमिर्दक्षश्चत्वारोशीनरात्मजाः।
वृषादर्भः सुवीरश्च मद्रः कैकेय आत्मजाः॥ 3

शिबेश्चत्वार एवासंस्तितिक्षोश्च रुशद्रथः।
ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत्॥ 4

अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः॥ 5

चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते।
खनपानोऽङ्‌गतो जज्ञे तस्माद् दिविरथस्ततः॥ 6

सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः।
रोमपाद इति ख्यातस्तस्मै दशरथः सखा॥ 7

शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्‌ग उवाह याम्।
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम्॥ 8

नाट्यसंगीतवादित्रैर्विभ्रमालिङ्गनार्हणैः।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः॥ 9

प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः॥ 10

बृहद्रथः - बृहत्कर्मा - बृहद्‍भानुः - च - तत्-सुताः।
आद्यात् - बृहन्मनाः - तस्मात् - जयद्रथः - उदाहृतः॥ 11

विजयः - तस्य - सम्भूत्याम् - ततः - धृतिः - अजायत।
ततः - धृतव्रतः - तस्य - सत्कर्मा - अधिरथः - ततः॥ 12

यः - असौ - गङ्गा-तटे - क्रीडन् - मञ्जूषा-अन्तर्गतं - शिशुम्।
कुन्त्या - अपविद्धं - कानीनम् - अनपत्यः - अकरोत् - सुतम्॥ 13

वृषसेनः - सुतः - तस्य - कर्णस्य - जगती-पते।
द्रुह्योः - च - तनयः - बभ्रुः - सेतुः - तस्य - आत्मजः - ततः॥ 14

आरब्धः - तस्य - गान्धारः - तस्य - धर्मः - ततः - धृतः।
धृतस्य - दुर्मदः - तस्मात् - प्रचेताः - प्राचेतसं - शतम्॥ 15

म्लेच्छ-अधिपतयः - अभूवन् - उदीचीं - दिशम् - आश्रिताः।
तुर्वसोः - च - सुतः - वह्निः - वह्नेः - भर्गः - अथ - भानुमान्॥ 16

त्रिभानुः - तत्-सुतः - अस्य - अपि - करन्धमः - उदार-धीः।
मरुतः - तत्-सुतः - अपुत्रः - पुत्रं - पौरवम् - अन्वभूत्॥ 17

दुष्मन्तः - सः - पुनः - भेजे - स्वं - वंशं - राज्य-कामुकः।
ययातेः - ज्येष्ठ-पुत्रस्य - यदोः - वंशं - नर-ऋषभ॥ 18

वर्णयामि - महा-पुण्यं - सर्व-पाप-हरं - नृणाम्।
यदोः - वंशं - नरः - श्रुत्वा - सर्व-पापैः - प्रमुच्यते॥ 19


यत्र - अवतीर्णः - भगवान् - परमात्मा - नर - आकृतिः।
यदोः - सहस्रजित् - क्रोष्टा - नलः - रिपुः - इति - श्रुताः॥ 20

चत्वारः - सूनवः - तत्र - शतजित् - प्रथम - आत्मजः।
महाहयः - वेणुहयः - हैहयः - च - इति - तत् - सुताः॥ 21

धर्मः - तु - हैहय - सुतः - नेत्रः - कुन्तेः - पिता - ततः।
सः - अहञ्जिः - अभवत् - कुन्तेः - महिष्मान् - भद्रसेनकः॥ 22

दुर्मदः - भद्रसेनस्य - धनकः - कृतवीर्य - सूः।
कृताग्निः - कृतवर्मा - च - कृतौजाः - धनक - आत्मजाः॥ 23

अर्जुनः - कृतवीर्यस्य - सप्त - द्वीप - ईश्वरः - अभवत्।
दत्तात्रेयात् - हरेः - अंशात् - प्राप्त - योग - महा - गुणः॥ 24

न - नूनं - कार्तवीर्यस्य - गतिं - यास्यन्ति - पार्थिवाः।
यज्ञ - दान - तपः - योग - श्रुत - वीर्य - जय - आदिभिः॥ 25

पञ्च - अशीति - सहस्राणि - हि - अव्याहत - बलः - समाः।
अनष्ट - वित्त - स्मरणः - बुभुजे - अक्षय्य - षड्वसु॥ 26

तस्य - पुत्र - सहस्रेषु - पञ्च - एव - उर्वरिताः - मृधे।
जयध्वजः - शूरसेनः - वृषभः - मधुर - ऊर्जितः॥ 27

जयध्वजात् - तालजङ्घः - तस्य - पुत्र - शतं - तु - अभूत्।
क्षत्रं - यत् - तालजङ्घ - आाख्यम् - और्व - तेज - उपसंहृतम्॥ 28

तेषां - ज्येष्ठः - वीतिहोत्रः - वृष्णिः - पुत्रः - मधोः - स्मृतः।
तस्य - पुत्र - शतं - तु - आसीत् - वृष्णि - ज्येष्ठं - यतः - कुलम्॥ 29

माधवाः - वृष्णयः - राजन् - यादवाः - च - इति - संज्ञिताः।
यदु - पुत्रस्य - च - क्रोष्टोः - पुत्रः - वृजिनवान् - ततः॥ 30

श्वाहिः - ततः - रुशेकुः - वै - तस्य - चित्ररथः - ततः।
शशबिन्दुः - महा-योगी - महा-भाजः - महान् - अभूत्॥ 31

चतुर्दश - महा-रत्नः - चक्रवर्ती - अपराजितः।
तस्य - पत्नीसहस्राणां - दशानां - सुमहा-यशाः॥ 32

दश - लक्ष - सहस्राणि - पुत्राणां - तासु - अजीजनत्।
तेषां - तु - षट् - प्रधानानां - पृथुश्रवः - आत्मजः॥ 33

धर्मः - नाम - औशना - तस्य - हय-मेध - शतस्य - याट्।
तत् - सुतः - रुचकः - तस्य - पञ्च - आसन् - आत्मजाः - श्रृणु॥ 34

पुरुजित् - रुक्मरुक्मेषुः - पृथुज्या - मघसंज्ञिताः।
ज्यामघः - तु - अप्रजः - अपि - अन्यां - भार्यां - शैब्या - पतिः - भयात्॥ 35

न - अविन्दत् - शत्रु - भवनात् - भोज्यां - कन्यां - अहार्षीत्।
रथस्थां - तां - निरीक्ष्य - आह - शैब्या - पतिम् - अमर्षिता॥ 36

का - इयम् - कुहक - मत्स्थानं - रथम् - आरोपिता - इति - वै।
स्नुषा - तव - इति - अभिहिते - स्मयन्ती - पतिम् - अब्रवीत्॥ 37

अहं - बन्ध्या - सपत्नि - च - स्नुषा - मे - युज्यते - कथम्।
जनयिष्यसि - यं - राज्ञि - तस्य - इयम् - उपयुज्यते॥ 38

अन्वमोदन्त - तत् - विश्वे - देवाः - पितरः - एव - च।
शैब्या - गर्भम् - अधात् - काले - कुमारं - सुषुवे - शुभम्।
सः - विदर्भः - इति - प्रोक्तः - उपयेमे - स्नुषां - सतीम्॥ 39

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे यदुवंशानुवर्णनं त्रयोविंशोऽध्यायः॥ 23 ॥

ஸ்கந்தம் 9: அத்யாயம் 24 (ஸ்ரீ கிருஷ்ணன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 ஸ்ரீ கிருஷ்ணன்

ஸ்கந்தம் 9: அத்யாயம் 24

श्री-शुकः उवाच।
तस्याम् विदर्भः अजनयत् पुत्रौ नाम्ना कुश-कथौ।
तृतीयं रोम-पादं च विदर्भ-कुल-नन्दनम्॥ 1

रोम-पाद-सुतः बभ्रुः, बभ्रोः कृतिः अजायत।
उशिकः तत्-सुतः तस्मात् चेदिः चैद्य-आदयः नृपाः॥ 2

क्रथस्य कुन्तिः पुत्रः अभूत् धृष्टिः तस्य अथ निर्वृतिः।
ततः दशार्हः नाम्ना अभूत् तस्य व्योमः सुतः ततः॥ 3

जीमूतः विकृतिः तस्य यस्य भीम-रथः सुतः।
ततः नवरथः पुत्रः जातः दशरथः ततः॥ 4

करम्भिः शकुनेः पुत्रः देवरातः तत्-आत्मजः।
देव-क्षत्रः ततः तस्य मधुः कुरु-वशात् अनुः॥ 5

पुरु-होत्रः तु अनुः पुत्रः तस्य आयुः सात्वतः ततः।
भजमानः भजिः दिव्यः वृष्णिः देवावृधः अन्धकः॥ 6

सात्वतस्य सुताः सप्त महा-भोजः च मारिष।
भजमानस्य निम्लोचिः किङ्कणः धृष्टिः एव च॥ 7

एकस्याम् आत्मजाः पत्न्याम् अन्यस्याम् च त्रयः सुताः।
शताजित् च सहस्राजित् अयुताजित् इति प्रभो॥ 8

बभ्रुः देवावृध-सुतः तयोः श्लोकौ पठन्ति अमू।
यथा एव शृणुमः दूरात् सम्पश्यामः तथा अन्तिकात्॥ 9

बभ्रुः श्रेष्ठः मनुष्याणाम् देवैः देवावृधः समः।
पुरुषाः पञ्च-षष्टिः च षट् सहस्राणि च अष्ट च॥ 10


ये-अमृतत्वम्-अनुप्राप्ताः बभ्रोः-देवावृधात्-अपि।
महा-भोजः-अपि धर्म-आत्मा भोजाः आसन्-तत्-अन्वये॥ 11

वृष्णेः सुमित्रः पुत्रः-अभूत् युधाजित्-च परन्तप।
शिनिः-तस्य-अनमित्रः-च निघ्नः-अभूत्-अनमित्रतः॥ 12

सत्राजितः प्रसेनः-च निघ्नस्य-अपि-आसतुः सुतौ।
अनमित्र-सुतः यः-अन्यः शिनिः-तस्य-अथ सत्यकः॥ 13

युयुधानः सात्यकिः-वै जयः-तस्य कुणिः-ततः।
युगन्धरः-अनमित्रस्य वृष्णिः पुत्रः-अपरः-ततः॥ 14

श्वफल्कः-चित्ररथः-च गान्दिन्यां च श्वफल्कतः।
अक्रूर-प्रमुखाः आसन् पुत्राः द्वादश विश्रुताः॥ 15

आसङ्गः सारमेयः-च मृदुरः मृदु-वित् गिरिः।
धर्म-वृद्धः सुकर्मा च क्षेत्र-उपेक्षः-अरि-मर्दनः॥ 16

शत्रुघ्नः गन्ध-मादः-च प्रतिबाहुः-च द्वादश।
तेषां स्वसा सुचारा-आख्या द्वौ-अक्रूर-सुतौ-अपि॥ 17

देववान्-उपदेवः-च तथा चित्ररथ-आत्मजाः।
पृथुः विदूरथ-आद्याः-च बहवः वृष्णि-नन्दनाः॥ 18

कुकुरः भजमानः-च शुचिः कम्बल-बर्हिषः।
कुकुरस्य सुतः वह्निः विलोमा तनयः-ततः॥ 19

कपोत-रोमा तस्य-अनुः सखा यस्य च तुम्बुरुः।
अन्धकः दुन्दुभिः-तस्मात् अरिद्योतः पुनर्वसुः॥ 20


तस्य-अहुकः-च-अहुकी-च कन्या-च-एव-अहुक-आत्मजौ।
देवकः-च-उग्रसेनः-च चत्वारः देवक-आत्मजाः॥ 21

देववान्-उपदेवः-च सुदेवः देववर्धनः।
तेषां स्वसारः सप्त-आसन् धृतदेव-आदयः नृप॥ 22

शान्तिदेवा-उपदेवा-च श्रीदेवा देवरक्षिता।
सहदेवा देवकी-च वसुदेवः उवाह ताः॥ 23

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूः तथा।
राष्ट्रपालः-अथ सृष्टिः-च तुष्टिमान्-औग्रसेनयः॥ 24

कंसा कंसवती कङ्का शूरभू राष्टपालिका।
उग्रसेन-दुहितरः वसुदेव-अनुज-स्त्रियः॥ 25

शूरः विदूरथात्-आसीत् भजमानः सुत-त्सुतः।
शिनिः-तस्मात् स्वयम्भोजः हृदीकः-तत्सुतः मतः॥ 26

देवबाहुः शतधनुः कृतवर्मा-इति तत्सुताः।
देवमीढस्य शूरस्य मारिषा नाम पत्नी-अभूत्॥ 27

तस्यां सः जनयामास दश पुत्रान्-अकल्मषान्।
वसुदेवं देवभागं देवश्रवसम्-आनकम्॥ 28

सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्।
देवदुन्दुभयः नेदुः-आनका यस्य जन्मनि॥ 29

वसुदेवं हरेः स्थानं वदन्ति-आनकदुन्दुभिम्।
पृथा-च श्रुतदेवा-च श्रुतकीर्तिः श्रुतश्रवाः॥ 30


राजाधिदेवी-च-एतेषां भगिन्यः पञ्च कन्यकाः।
कुन्तेः सख्युः पिता शूरः हि-अपुत्रस्य पृथाम्-अदात्॥ 31

सा-आऽप दुर्वाससः विद्यां देवहूतीं प्रतोषितात्।
तस्या वीर्य-परीक्षार्थम्-आजुहाव रविं शुचिम्॥ 32

तदा-एव-उपागतं देवं वीक्ष्य विस्मित-मानसा।
प्रत्यय-अर्थं प्रयुक्ता मे याहि देव क्षमस्व मे॥ 33

अमोघं दर्शनं देवि आधित्से त्वयि च-आत्मजम्।
योनिः यथा न दुष्येत कर्ता-अहं ते सुमध्यमे॥ 34

इति तस्यां सः आधाय गर्भं सूर्यो दिवं गतः।
सद्यः कुमारः संजज्ञे द्वितीयः इव भास्करः॥ 35

तं सा-त्यजत्-नदी-तोये कृच्छ्रात्-लोकस्य बिभ्यती।
प्रपितामहः ताम्-उवाह पाण्डुः वै सत्यविक्रमः॥ 36

श्रुतदेवां तु कारूषः वृद्धशर्मा समग्रहीत्।
यस्याम्-अभूत् दन्तवक्त्रः ऋषिशप्तः दितेः सुतः॥ 37

कैकेयो धृष्टकेतुः-च श्रुतकीर्तिम्-अविन्दत।
सन्तर्दन-आदयः तस्य पञ्च-आसन् कैकयाः सुताः॥ 38

राजाधिदेव्याम्-आवन्त्यौ जयसेनः-अजनिष्ट ह।
दमघोषः-चेदिराजः श्रुतश्रवसम्-अग्रहीत्॥ 39

शिशुपालः सुतः तस्याः कथितः तस्य सम्भवः।
देवभागस्य कंसायां चित्रकेतुः-बृहद्बलौ॥ 40


कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा।
कङ्कायामानकाज्जातः सत्यजित् पुरुजित् तथा॥ 41

सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्।
हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः॥ 42

मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा।
तक्षपुष्करशालादीन् दुर्वार्क्ष्यां वृक आदधे॥ 43

सुमित्रार्जुनपालादीञ्चमीकात्तु सुदामनी।
कङ्कश्च कर्णिकायां वै ऋतधामजयावपि॥ 44

पौरवी रोहिणी भद्रा मदिरा रोचना इला।
देवकीप्रमुखा आसन् पत्न्य आनकदुन्दुभेः॥ 45

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्॥ 46

सुभद्रो भद्रवाहश्च दुर्मदो भद्र एव च।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन्॥ 47

नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः।
कौशल्या केशिनं त्वेकमसूत कुलनन्दनम्॥ 48

रोचनायामतो जाता हस्तहेमाङ्गदादयः।
इलायामुरुवल्कादीन् यदुमुख्यानजीजनत्॥ 49

विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः।
शान्तिदेवात्मजा राजञ्छ्रमप्रतिश्रुतादयः॥ 50


राजनः कल्पवर्षाद्या उपदेवासुता दश।
वसुहंससुवंशाद्याः श्रीदेवायास्तु षट् सुताः॥ 51

देवरक्षितया लब्धा नव चात्र गदादयः।
वसुदेवः सुतानष्टावादधे सहदेवया॥ 52

पुरुविश्रुतमुख्यांश्च साक्षाद् धर्मो वसूनिव।
वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत्॥ 53

कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः।
ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम्॥ 54

अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल।
सुभद्रा च महाभागा तव राजन् पितामही॥ 55

यदा यदेह धर्मस्य क्षयो वृद्धिश्च पाप्मनः।
तदा तु भगवानीश आत्मानं सृजते हरिः॥ 56

न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते।
आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः॥ 57

यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते॥ 58

अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः।
भुव आक्रम्यमाणाया अभाराय कृतोद्यमः॥ 59

कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः।
सहसङ्कर्षणश्चक्रे भगवान् मधुसूदनः॥ 60


कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यशः॥ 61

यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्।
श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम्॥ 62

भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः।
श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः॥ 63

स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया।
नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया॥ 64

यस्याननं मकरकुण्डलचारुकर्ण-
भ्राजत्कपोलसुभगं सविलासहासम्।
नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो
नार्यो नराश्च मुदिताः कुपिता निमेश्च॥ 65

जातो गतः पितृगृहाद् व्रजमेधितार्थो
हत्वा रिपून् सुतशतानि कृतोरुदारः।
उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे
आत्मानमात्मनिगमं प्रथयञ्जनेषु॥ 66

पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणा-
मन्तःसमुत्थकलिना युधि भूपचम्वः।
दृष्ट्या विधूय विजये जयमुद्विघोष्य
प्रोच्योद्धवाय च परं समगात् स्वधाम॥ 67

इति श्रीमद्भागवते महापुराणे
वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां
नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने
यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः॥ 24 ॥