பரீக்ஷித் கலி யுகத்தை சந்தித்தார்
ஸ்கந்தம் 1: அத்யாயம் 16
सूत उवाच
तत: परीक्षिद् द्विज-वर्य शिक्षया महीं महा-भागवत: शशास ह ।
यथा हि सूत्याम् अभिजात कोविदा: समादिशन् विप्र महद्-गुण: तथा ॥
स उत्तरस्य तनयाम् उपयेम इरावतीम् ।
जनमेजय आदीं: चतुर: तस्याम् उत्पादयत् सुतान् ॥
आजहार अश्वमेधां त्रीन् गङ्गायां भूरि दक्षिणान् ।
शारद्वतं गुरुं कृत्वा देवा यत्र अक्षि गोचरा: ॥
निजग्राह ओजसा वीर: कलिं दिग्विजये क्वचित् ।
नृप लिङ्ग धरं शूद्रं घ्नन्तं गो-मिथुनं पदा ॥
शौनक उवाच
कस्य हेतो: निजग्राह कलिं दिग्विजये नृप: ।
नृ-देव चिह्न-धृक् शूद्रक: असौ गां य: पदा अहनत् ।
तत् कथ्यतां महा-भाग यदि कृष्ण कथ आश्रयम् ॥
अथवा अस्य पद-अम्भोज मकरन्द लिहां सताम् ।
किम् अन्यै: असद् आलापै: आयुषो यद् असद्-व्यय: ॥
क्षुद्र आयुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् ।
इह उपहूतो भगवान् मृत्यु: शामित्र कर्मणि ॥
न कश्चित् म्रियते तावद् यावद् आस्त इह अन्तक: ।
एतद् अर्थं हि भगवान् आहूत: परम-ऋषिभि: ।
अहो नृ-लोके पीयेत हरि लीला अमृतं वच: ॥
मन्दस्य मन्द प्रज्ञस्य वयो मन्द आयुष: च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थ कर्मभि: ॥
सूत उवाच
यदा परीक्षित् कुरु-जाङ्गले अवसत् कलिं प्रविष्टं निज चक्रवर्तिते ।
निशम्य वार्ताम् अनति प्रियां तत: शरासनं संयुग शौण्डि: आददे ॥
सु-अलङ्कृतं श्याम तुरङ्ग योजितं रथं मृगेन्द्र ध्वजम् आश्रित: पुरात् ।
वृतो रथ अश्व द्विपपत्ति युक्तया स्व-सेनया दिग्विजयाय निर्गत: ॥
भद्राश्वं केतुमालं च भारतं च उत्तरान् कुरून् ।
किम्पुरुष आदीनि वर्षाणि विजित्य जगृहे बलिम् ॥
तत्र तत्र उपशृण्वान: स्व-पूर्वेषां महा-आत्मनाम् ।
प्रगीयमाणं च यश: कृष्ण माहात्म्य सूचकम् ॥
आत्मानं च परित्रातम् अश्वत्थाम्न: अस्त्र तेजस: ।
स्नेहं च वृष्णि पार्थानां तेषां भक्तिं च केशवे ॥
तेभ्य: परम सन्तुष्ट: प्रीति उज्जृम्भित लोचन: ।
महा धनानि वासांसि ददौ हारान् महामना: ॥
सारथ्य पारषद सेवन सख्य दौत्य वीर-आसन अनुगमन: स्तवन प्रणामान् ।
स्निग्धेषु पाण्डुषु जगत् प्रणतिं च विष्णो: भक्तिं करोति नृपति: चरण अरविन्दे ॥
तस्य एवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् ।
न अति-दूरे किल आश्चर्यं यद् आसीत् तद् निबोध मे ॥
धर्म: पदा एकेन चरन् विच्छायाम् उपलभ्य गाम् ।
पृच्छति-स्म अश्रु-वदनां विवत्साम् इव मातरम् ॥
धर्म उवाच
कच्चिद् भद्रे अनामयम् आत्मन: ते विच्छाया असि म्लायता ईषत् मुखेन ।
आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चन अम्ब ॥
पादै: न्यूनं शोचसि माँ एक-पादम् आत्मानं वा वृषलै: भोक्ष्यमाणम् ।
आहो सुर-आदीन् हृत यज्ञ भागान् प्रजा उत स्विद् मघवति अवर्षति ॥
अरक्ष्यमाणा: स्त्रिय उर्वि बालान् शोचसि अथो पुरुष आदै: इव आर्तान् ।
वाचं देवीं ब्रह्मकुले कुकर्मणि ब्रह्मण्ये राजकुले कुल अग्रयान् ॥
किं क्षत्र-बन्धून् कलिना उपसृष्टान् राष्ट्राणि वा तै: अवरोपितानि ।
इत: ततो वा अशन पान वास: स्नान व्यवाय उन्मुख जीव-लोकम् ॥
यद्वा अम्ब ते भूरि भर अवतार कृत अवतारस्य हरे: धरित्रि ।
अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाण विलम्बितानि ॥
इदं मम आचक्ष्व तव आधिमूलं वसुन्धरे येन विकर्शित असि ।
कालेन वा ते बलिनां बलीयसा सुर अर्चितं किं हृतम् अम्ब सौभगम् ॥
धरणि उवाच
भवान् हि वेद तत्-सर्वं यत् मां धर्म अनुपृच्छसि ।
चतुर्भि: वर्तसे येन पादै: लोक सुख-आवहैः ॥
सत्यं शौचं दया क्षान्ति: त्याग: सन्तोष आर्जवम् ।
शमो दम: तप: साम्यं तितिक्षा उपरति: श्रुतम् ॥
ज्ञानं विरक्ति: ऎश्वर्यं शौर्यं तेजो बलं स्मृति: ।
स्वातन्त्र्यं कौशलं कान्ति: धैर्यं मार्दवम् एव च ॥
प्रागल्भ्यं प्रश्रय: शीलं सह ओजो बलं भग: ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्ति: मान: अनहङ्कृति: ॥
एते च अन्ये च भगवन् नित्या यत्र महा-गुणा: ।
प्रार्थ्या महत्त्वम् इच्छद्भि: न वियन्ति स्म कर्हिचित् ॥
तेन अहं गुण-पात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिना ईक्षितम् ॥
आत्मानं च अनुशोचामि भवन्तं च अमर उत्तमम् ।
देवान् पितृन् ऋषीन् साधून् सर्वान् वर्णां: तथा आश्रमान् ॥
ब्रह्मादयो बहु-तिथं यद् अपाङ्ग मोक्ष कामा: तप: समचरन् भगवत् प्रपन्ना: ।
सा श्री: स्व-वासम् अरविन्द-वनं विहाय यत्-पाद सौभगम् अलं भजते अनुरक्ता ॥
तस्य अहम् अब्ज कुलिश अङ्कुश केतु केतै: श्रीमत् पदै: भगवत: समलङ्कृत-अङ्गी ।
त्रीन् अति अरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजद् उत्स्मयतीं तद् अन्ते ॥
यो वै मम अति भरम् आसुर-वंश राज्ञाम्-अक्षौहिणी शतम् अपानुदद् आत्म-तन्त्र: ।
त्वां दु:स्थम् ऊन-पदम् आत्मनि पौरुषेण सम्पादयन् यदुषु रम्यम् अबिभ्रद् अङ्गम् ॥
का वा सहेत विरहं पुरुष-उत्तमस्य प्रेम-अवलोक रुचिर-स्मित वल्गु-जल्पै: ।
स्थैर्यं समानम् अहरद् मधु मानिनीनां रोम-उत्सव: मम यद् अङ्घ्रि विटङ्किताया: ॥
तयो: एवं कथयतो: पृथिवी धर्मयो: तदा ।
परीक्षित् नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥