Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 36 (அரிஷ்டன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அரிஷ்டன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 36

श्री-शुकः उवाच –
अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-ासुरः ।
महीं महाककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ 1 ॥

रम्भमाणः खरतरम् पदा च विलिखन् महीम् ।
उद्यम्य पुच्छम् वप्राणि विषाण-अग्रेण च उद्धरन् ॥ 2 ॥

किञ्चित् किञ्चित् शकृत् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ।
यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् ॥ 3 ॥

पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घनाः यस्य ककुदि अचल-शङ्कया ॥ 4 ॥

तम् तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः ।
पशवः दुद्रुवुः भीता: राजन् सन्त्यज्य गोकुलम् ॥ 5 ॥

कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः ।
भगवान् अपि तत् वीक्ष्य गोकुलम् भय-विद्रुतम् ॥ 6 ॥

मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत् ।
गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम ॥ 7 ॥

बल-दर्प-हा अहम् दुष्टानाम् त्वद्-विदानाम् दुरात्मनाम् ।
इति आस्फोट्य अच्युतः अरिष्टम् तल-शब्देन कोपयन् ॥ 8 ॥

सख्युः अंसे भुज-अभोगम् प्रसार्य आवस्थितः हरिः ।
सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् ।
उद्यत-पुच्छ-भ्रमत्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ 9 ॥

अग्र-न्यस्त-विषाण-अग्रः स्तब्ध-असृक्-लोचनः अच्युतम् ।
कटाक्षिप्य आद्रवत् तूर्णम् इन्द्र-मुक्तः अशनिः यथा ॥ 10 ॥

गृहीत्वा शृङ्गयोः तम् वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रतिगजम् यथा ॥11॥

सः अपविद्धः भगवता पुनः उत्थाय सत्वरः ।
आपतत् स्विन्न-सर्व-अङ्गः निःश्वसन् क्रोध-मूर्च्छितः ॥12॥

तम् आपतन्तम् सः निगृह्य शृङ्गयोः ।
पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथा आर्द्रम् अम्बरम् ।
कृत्वा विषाणेन जघान सः अपतत् ॥13॥

असृक् वमन् मूत्र-शकृत् समुत्सृजन् ।
क्षिपन् च पादान् अनवस्थित-ईक्षणः ।
जगाम कृच्छ्रम् नि:ऋतेः अर्थ क्षयम् ।
पुष्पैः किरन्तः हरिम् ईडिरे सुराः ॥14॥

एवम् कुकुद्मिनम् हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठम् सबलः गोपीनाम् नयन-उत्सवः ॥15॥

अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा ।
कंसाय अथ आह भगवान् नारदः देव-दर्शनः ॥16॥

यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च ।
रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता ॥17॥

न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः ।
निशम्य तत् भोज-पतिः कोपात् प्रचलित-इन्द्रियः ॥18॥

निशातमसिम् आदत्त वसुदेव-जिघांसया ।
निवारितः नारदेन तत्-सुतौ मृत्युम् आत्मनः ॥19॥

ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।
प्रतियाते तु देवर्षौ कंसः आभाष्य केशिनम् ॥20॥

प्रेषयामास हन्येताम् भवता राम-केशवौ ।
ततः मुष्टिक-चाणूर-शल-तोशलक-आदिकान् ॥21॥

अमात्यान् हस्तिपान् च एव समाहूय आह भोज-राट् ।
भो भो निशम्यताम् एतत् वीर-चाणूर-मुष्टिकौ ॥22॥

नन्द-व्रजे किल आसाते सुतौ अनक-दुन्दुभेः ।
राम-कृष्णौ ततः मह्यम् मृत्युः किल निदर्शितः ॥23॥

भवद्‌भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल-लीलया ।
मञ्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग-परिश्रिताः ।
पौराः जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥24॥

महामात्र त्वया भद्र रङ्ग-द्वारि उपनियताम् ।
द्विपः कुवलयापीडः जहि तेन मम-आहितौ ॥25॥

आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥26॥

इति आज्ञाप्य अर्थ-तन्त्र-ज्ञः आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिम् ततः अक्रूरम् उवाच ह ॥27॥

भो भो दानपते मह्यम् क्रियताम् मैत्रम् आदृतः ।
न अन्यः त्वत्तः हिततमः विद्यते भोज-वृष्णिषु ॥28॥

अतः त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः ॥29॥

गच्छ नन्द-व्रजम् तत्र सुतौ अनक-दुन्दुभेः ।
आसाते तौ इह आनेन रथेन आनय मा चिरम् ॥30॥

निसृष्टः किल मे मृत्युः दैवैः वैकुण्ठ-संश्रयैः ।
तौ आनय समम् गोपैः नन्द-आद्यैः स-आभ्युपायनैः ॥३१॥

घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततः मल्लैः घातये वैद्युत-उपमैः ॥३२॥

तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् ।
तत्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥३३॥

उग्रसेनम् च पितरम् स्थविरम् राज्य-कामुकम् ।
तत्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम ॥३४॥

ततः च एषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धः मम गुरुः द्विविदः दयितः सखा ॥३५॥

शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः ।
तैः अहम् सुर-पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान् ॥३६॥

एतत् ज्ञात्वा आनय क्षिप्रं राम-कृष्णौ इह अर्भकौ ।
धनुः-मख-निरीक्ष-अर्थम् द्रष्टुम् यदु-पुर-श्रियम् ॥३७॥

श्रीअक्रूर उवाच
राजन् मनीषितम् सध्र्यक् तव स्व-अवद्य-मार्जनम् ।
सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल-साधनम् ॥३८॥

मनोरथान् करोति उच्चैः जनः दैव-हतान् अपि ।
युज्यते हर्ष-शोक-आभ्याम् तथापि आज्ञाम् करोमि ते ॥३९॥

श्रीशुक उवाच
एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विषृज्य सः ।
प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम् ॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम 
षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥ 

No comments: