ருக்மிணி கல்யாணம்
ஸ்கந்தம் 10: அத்யாயம் 54
श्री-शुकः उवाच –
इति सर्वे सुसंरब्धाः वाहान् आरुह्य दंशिताः।
स्वैः स्वैः बलैः परिक्रान्ताः अन्वीयुः धृत-कार्मुकाः॥ १ ॥
तान् आपततः आलोक्य यादव-आनीक-यूथपाः।
तस्थुः तत्-सम्मुखाः राजन् विस्फूर्ज्य स्व-धनूंषि ते॥ २ ॥
अश्व-पृष्ठे गज-स्कन्धे रथ-उपस्थे च कोविदाः।
मुमुचुः शर-वर्षाणि मेघाः अद्रिषु अपः यथा॥ ३ ॥
पत्युः बलम् शर-आसारैः छन्नम् वीक्ष्य सुमध्यमा।
स-व्रीडा अमैक्षत् तत्-वक्त्रं भय-विह्वल-लोचना॥ ४ ॥
प्रहस्य भगवान् आह मा स्म भैः वाम-लोचने।
विनङ्क्ष्यति अधुना एव एतत् तावकैः शात्रवम् बलम्॥ ५ ॥
तेषाम् तत्-विक्रमम् वीराः गद-सङ्कर्षण-आदयः।
अमृष्यमाणाः नाराचैः जघ्नुः हय-गजान् रथान्॥ ६ ॥
पेतुः शिरांसि रथिनाम् अश्विनाम् गजिनाम् भुवि।
स-कुण्डल-किरीटानि स-उष्णीषाणि च कोटिशः॥ ७ ॥
हस्ताः स-असि-गद-इषु-आसाः करभाः ऊरवः अङ्घ्रयः।
अश्व-अश्वतर-नाग-उष्ट्र-खर-मर्त्य-शिरांसि च॥ ८ ॥
हन्यमान-बल-आनीकाः वृष्णिभिः जय-काङ्क्षिभिः।
राजानः विमुखाः जग्मुः जरासन्ध-पुरःसराः॥ ९ ॥
शिशुपालम् समभ्येत्य हृत-दारम् इव आतुरम्।
नष्ट-त्विषम् गत-उत्साहम् शुष्यत्-वदनम् अब्रुवन्॥ १० ॥
भोः भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज।
न प्रिय-अप्रिययोः राजन् निष्ठा देहिषु दृश्यते॥ ११ ॥
यथा दारुमयी योषित् नृत्यते कुहक-इच्छया।
एवम् ईश्वर-तन्त्रः अयम् ईहते सुख-दुःखयोः॥ १२ ॥
शौरेः सप्तदश अहम् वै संयुगानि पराजितः।
त्रयोविंशतिभिः सैन्यैः जिग्ये एकम् अहम् परम्॥ १३ ॥
तथापि अहम् न शोचामि न प्रहृष्यामि कर्हिचित्।
कालेन दैव-युक्तेन जानन् विद्रावितम् जगत्॥ १४ ॥
अधुना अपि वयम् सर्वे वीर-यूथप-यूथपाः।
पराजिताः फल्गु-तन्त्रैः यदुभिः कृष्ण-पालितैः॥ १५ ॥
रिपवः जिग्युः अधुना काले आत्म-अनुसारिणि।
तदा वयम् विजेष्यामः यदा कालः प्रदक्षिणः॥ १६ ॥
एवम् प्रबोधितः मित्रैः चैद्यः अगात् स-अनुगः पुरम्।
हत-शेषाः पुनः ते अपि ययुः स्वं स्वं पुरम् नृपाः॥ १७ ॥
रुक्मी तु राक्षस-उद्वाहम् कृष्ण-द्विषा असहन् स्वसुः।
पृष्ठतः अन्वगमत् कृष्णम् अक्षौहिण्या वृतः बली॥ १८ ॥
रुक्मिः अमर्षी सुसंरब्धः शृण्वताम् सर्व-भूभुजाम्।
प्रतिजज्ञे महाबाहुः दंशितः स-शर-आसनः॥ १९ ॥
अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम्।
कुण्डिनम् न प्रवेक्ष्यामि सत्यम् एतत् ब्रवीमि वः॥ २० ॥
इत्युक्त्वा रथम् आरुह्य सारथिम् प्राह सत्वरः।
चोदय अश्वान् यतः कृष्णः तस्य मे संयुगम् भवेत्॥ २१ ॥
अद्य अहम् निशितैः बाणैः गोपालस्य सुदुर्मतेः।
नेष्ये वीर्य-आदम् येन स्वसा मे प्रसभम् हृता॥ २२ ॥
विकत्थमानः कुमतिः ईश्वरस्य अप्रमाण-वित्।
रथेन एकेन गोविन्दम् तिष्ठ तिष्ठ इति अथ आह्वयत्॥ २३ ॥
धनुः विकृष्य सुदृढम् जघ्ने कृष्णम् त्रिभिः शरैः।
आह च अत्र क्षणम् तिष्ठ यदूनाम् कुल-पांसन॥ २४ ॥
कुत्र यासि स्वसारम् मे मुषित्वा ध्वाङ्क्षवत् धविः।
हरिष्ये अद्य मदम् मन्द मायिनः कूट-योधिनः॥ २५ ॥
यावत् न मे हतः बाणैः शयीथा मुञ्च दारिकाम्।
स्मयन् कृष्णः धनुः छित्त्वा षड्भिः विव्याध रुक्मिणम्॥ २६ ॥
अष्टभिः चतुरः वाहान् द्वाभ्याम् सूतम् ध्वजम् त्रिभिः।
सः च अन्यत् धनुः आधाय कृष्णम् विव्याध पञ्चभिः॥ २७ ॥
तैः तातितः शर-ओघैः तु चिच्छेद धनुः अच्युतः।
पुनः अन्यत् उपादत्त तत् अपि अच्छिनद् अव्ययः॥ २८ ॥
परिघम् पट्टिशम् शूलम् चर्म-आसिः शक्ति-तोमरौ।
यत् यत् आयुधम् आदत्त तत् सर्वम् सः अच्छिनद् हरिः॥ २९ ॥
ततः रथात् अवप्लुत्य खड्ग-पाणिः जिघांसया।
कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्गः इव पावकम्॥ ३० ॥
तस्य च आपततः खड्गम् तिलशः चर्म च इषुभिः।
छित्त्वा असिम् आददे तिग्मम् रुक्मिणम् हन्तुम् उद्यतः॥ ३१ ॥
दृष्ट्वा भ्रातृ-वध-उद्योगम् रुक्मिणी भय-विह्वला।
पतित्वा पादयोः भर्तुः उवाच करुणम् सती॥ ३२ ॥
योगेश्वर अप्रमेय-आत्मन् देव-देव जगत्-पते।
हन्तुम् न अर्हसि कल्याण भ्रातरम् मे महाभुज॥ ३३ ॥
श्री-शुकः उवाच –
तया परित्रास-विकम्पित-अङ्गया
शुचा-उशुष्यन्-मुख-रुद्ध-कण्ठया।
कातर्य-विस्रंसित-हेम-मालया
गृहीत-पादः करुणः न्यवर्तत॥ ३४ ॥
चैलेन बद्ध्वा तम् असाधु-कारिणम्
स-श्मश्रु-केशम् प्रवपन् व्यरूपयत्।
तावत् ममर्दुः पर-सैन्यम् अद्भुतम्
यदु-प्रवीराः नलिनीम् यथा गजाः॥ ३५ ॥
कृष्ण-अन्तिकम् उपव्रज्य ददृशुः तत्र रुक्मिणम्।
तथा-भूतम् हत-प्रायम् दृष्ट्वा सङ्कर्षणः विभुः।
विमुच्य बद्धम् करुणः भगवान् कृष्णम् अब्रवीत्॥ ३६ ॥
असाधु इदम् त्वया कृष्ण कृतम् अस्मत्-जुगुप्सितम्।
वपनम् श्मश्रु-केशानाम् वैरूप्यम् सुहृदः वधः॥ ३७ ॥
मा एव अस्मान् साध्वि असूयथा भ्रातुः वैरूप्य-चिन्तया।
सुख-दुःख-दः न च अन्यः अस्ति यतः स्व-कृत-भुक् पुमान्॥ ३८ ॥
बन्धुः वध-अर्ह-दोषः अपि न बन्धोः वधम् अर्हति।
त्याज्यः स्वेन एव दोषेण हतः किं हन्यते पुनः॥ ३९ ॥
क्षत्रियाणाम् अयम् धर्मः प्रजापति-विनिर्मितः।
भ्राता अपि भ्रातरम् हन्यात् येन घोरतमः ततः॥ ४० ॥
राज्यस्य भूमेः वित्तस्य स्त्रियो मानस्य तेजसः।
मानिनः अन्यस्य वा हेतोः श्रीमद-आन्धाः क्षिपन्ति हि॥ ४१ ॥
तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम्।
यत्-मन्यसे सदा-आभद्रं सुहृदां भद्रम्-अज्ञवत्॥ ४२ ॥
आत्म-मोहो नृणाम्-एष कल्पते देव-मायया।
सुहृद् दुर्हृद-उदासीन इति देह-आत्म-मानिनाम्॥ ४३ ॥
एकः एव परः ह्यात्मा सर्वेषाम्-अपि देहिनाम्।
नानेव गृह्यते मूढैः यथा ज्योति-र्यथा नभः॥ ४४ ॥
देह आद्यन्त-वानेष द्रव्य-प्राण-गुणात्मकः।
आत्म-न्य-विद्यया कॢप्तः संसारयति देहिनम्॥ ४५ ॥
नात्मनोऽन्येन संयोगो वियोगः चासतः सति।
तद्धेतुत्वात् तत्प्रसिद्धेः दृग्-रूपाभ्यां यथा रवेः॥ ४६ ॥
जन्म-आदयः तु देहस्य विक्रिया नात्मनः क्वचित्।
कलानामिव नैव एन्दोर्मृतिः ह्यस्य कुहूरिव॥ ४७ ॥
यथा शयान आत्मानं विषयान् फलम्-एव च।
अनुभुङ्क्ते अपि असत्य-अर्थे तथा आप्नोत्य-न-आबुधो भवम्॥ ४८ ॥
तस्मात्-ज्ञान-जं शोकम् आत्म-शोष-विमोहनम्।
तत्त्व-ज्ञान-एन निर्हृत्य स्व-स्था भव शुचिस्मिते॥ ४९ ॥
श्री-शुकः उवाच –
एवं भगवता तन्वी रामेण प्रतिबोधिता।
वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे॥ ५० ॥
प्राण-अवशेष उत्सृष्टः द्विड्भिः हतबल-प्रभः।
स्मरन् विरूपकरणं वितथात्म-मनोरथः॥ ५१ ॥
चक्रे भोज-कटं नाम निवासाय महत् पुरम्।
अहत्वा दुर्मतिं कृष्णम् प्रत्यूह्य यवीयसीम्।
कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्र आवसद् रुषा॥ ५२ ॥
भगवान् भीष्मकसुताम् एवं निर्जित्य भूमिपान्।
पुरमानीय विधिवदुपयेमे कुरूद्वह॥ ५३ ॥
तदा महोत्सवो नृणां यदुपुर्यां गृहे गृहे।
अभूद् अनन्यभावानां कृष्णे यदुपतौ नृप॥ ५४ ॥
नरा नार्यः च मुदिताः प्रमृष्ट-मणि-कुण्डलाः।
पारिबर्हम् उपाजह्रुः वरयोश्चित्र-वाससोः॥ ५५ ॥
सा वृष्णि-पुरि युत्तभितेन्द्र-केतुभि-
विचित्र-माल्या-अम्बर-रत्न-तोरणैः।
बभौ प्रतिद्वार्युपकॢप्त-मङ्गलै-
रापूर्ण-कुम्भागुरु-धूपदीपकैः॥ ५६ ॥
सिक्तमार्गा मदच्युद्भिराहूत-प्रेष्ठ-भूभुजाम्।
गजैः द्वास्सु परामृष्टरम्भा-पूगो-पशोभिता॥ ५७ ॥
कुरुसृञ्जय-केकेय-विदर्भ-यदुकुन्तयः।
मिथो मुमुदिरे तस्मिन सम्भ्रमात् परिधावताम्॥ ५८ ॥
रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः।
राजानः राजकन्याश्च बभूवुर्हृशविस्मिताः॥ ५९ ॥
द्वारकायामभूद् राजन् महामोदः पुरौकसाम्।
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः-पतिम्॥ ६० ॥
No comments:
Post a Comment