கண்ணனை கோபியர்கள் தேடுகிறார்கள்
ஸ்கந்தம் 10: அத்யாயம் 30
श्री-शुकः उवाच –
अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः।
अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम्॥ 1
गति-अनुराग-स्मित-विभ्रम-ईक्षितैः
मनोरम-आलाप-विहार-विभ्रमैः।
आक्षिप्त-चित्ताः प्रमदाः रमा-पतेः
ताः ताः विचेष्टाः जगृहुः तत्-आत्मिकाः॥ 2
गति-स्मित-प्रेक्षण-भाषण-आदिषु
प्रियाः प्रियस्य प्रति-रूढ-मूर्तयः।
असौ अहम् इति अबलाः तत्-आत्मिकाः
न्यवेदिषुः कृष्ण-विहार-विभ्रमाः॥ 3
गायन्त्यः उच्चैः अमुम् एव संहताः
विचिक्युः उन्मत्तक-वद् वनात् वनम्।
पप्रच्छुः आकाशवत् अन्तरम् बहिः
भूतेषु सन्तम् पुरुषम् वनस्पतीन्॥ 4
दृष्टः वः कचित् अश्वत्थ-प्लक्ष-न्यग्रोधाः
नः मनः-नन्द-सूनुः गतः हृत्वा
प्रेम-हास-आवलोकनैः॥ 5
कचित् कुरबक-अशोक-नाग-पुन्नाग-चम्पकाः।
राम-अनुजः मानिनीनाम् इतः
दर्प-हर-स्मितः दृष्टः॥ 6
कचित् तुलसि कल्याणि गोविन्द-चरण-प्रिये।
सह त्वा आलि-कुलैः बिभ्रत् दृष्टः ते
अति-प्रियः अच्युतः॥ 7
मालति अदर्शि वः कचित् मल्लिके जाति-यूथिके।
प्रीतिम् वः जनयन् यातः कर-स्पर्शेन माधवः॥ 8
चूत-प्रियाल-पनस-आसनक-ओविदार-
जम्बु-अर्क-बिल्व-बकुल-आम्र-कदम्ब-नीपाः।
ये अन्ये पर-अर्थ-भवकाः यमुना-उपकूलाः
शंसन्तु कृष्ण-पदवीं रहित-आत्मनाम् नः॥ 9
किं ते कृतम् क्षिति-तपः बत केशव-अङ्घ्रि-
स्पर्श-उत्सव-उत्पुलकित-अङ्गरुहैः विभासि।
अपि अङ्घ्रि-सम्भवः उरुक्रम-विक्रमात् वा
आहो वराह-वपुषः परिरम्भणेन॥ 10
अपि एण-पत्न्याः उपगतः प्रियया इह गात्रैः
तन्वन् दृशाम् सखि सु-निर्वृतिम् अच्युतः वः।
कान्त-अङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेः इह वाति गन्धः॥ 11॥
बाहुं प्रियांसः उपधाय गृहीत-पद्मः
राम-अनुजः तुलसि-कालि-कुलैः मद-अन्धैः।
अन्वीयमानः इह वः तरवः प्रणामम्
किम् वा अभिनन्दति चरन् प्रणय-आवलोकैः॥ 12॥
पृच्छते इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः।
नूनम् तत्-करज-स्पृष्टाः बिभ्रति उत्पुलकान् अहो॥ 13॥
इति उन्मत्त-वचः गोप्यः कृष्ण-अन्वेषण-कातराः।
लीलाम् भगवतः ताः ताः हि अनुचक्रुः तत्-आत्मिकाः॥ 14॥
कस्याःचित् पूतनायन्त्याः कृष्ण-आयन्त्या अपिबत् स्तनम्।
तोकायित्वा रुदति अन्या पद-आहन् शकट-आयतीम्॥ 15॥
दैत्यायित्वा जहार अन्याम् एकः कृष्ण-अर्भ-भावनाम्।
रिङ्गयामास का अपि अङ्घ्री कर्षन्ती घोष-निःस्वनैः॥ 16॥
कृष्ण-राम-आयिते द्वे तु गोप-आयन्त्यः च काश्चन।
वत्स-आयतीम् हन्ति च अन्या तत्र एका तु बक-आयतीम्॥ 17॥
आहूय दूर-गाम् यद्वत् कृष्णः तम् अनु कुर्वतीम्।
वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति॥ 18॥
कस्याञ्चित् स्व-भुजम् न्यस्य चलन्त्या आह अपरा ननु।
कृष्णः अहम् पश्यत गतिम् ललिताम् इति तत्-मनाः॥ 19॥
मा भैष्ट वात-वर्षाभ्याम् तत्-त्राणम् विहितम् मया।
इति उक्त्वा एकेन हस्तेन यतन्त्युः निनिदहे अम्बरम्॥ 20॥
आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप ।
दुष्टा अहे गच्छ जातः अहम् खलानाम् ननु दण्डकृत् ॥२१॥
तत्र एकः उवाच हे गोपाः दावाग्निम् पश्यत उलबणम् ।
चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा ॥२२॥
बद्धानि अया स्रजा काचित् तन्वी तत्र उलूखले ।
भीता सुदृक् पिधाय आस्यम् भेजे भीति विडम्बनम् ॥२३॥
एवम् कृष्णम् पृच्छमानाः वृन्दावन लताः तरून् ।
व्यचक्षत वन-उद्देशे पदानि परमात्मनः ॥२४॥
पदानि व्यक्तम् एतानि नन्दसूनोः महात्मनः ।
लक्ष्यन्ते हि ध्वज-अम्भोज-वज्र-अङ्कुश-यव-आदिभिः ॥२५॥
तैः तैः पदैः तत् पदवीम् अन्विच्छन्त्यः अग्रतः अबलाः ।
वध्वः पदैः सुपृक्तानि विलोक्य आर्ताः समब्रुवन् ॥२६॥
कस्याः पदानि च एतानि यातायाः नन्दसूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणुः करिणा यथा ॥२७॥
अनया आराधितः नूनम् भगवान् हरिः ईश्वरः ।
यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः ॥२८॥
धन्याः अहो अमी आल्यः गोविन्द-अङ्घ्र्य-अब्ज-रेणवः ।
यान् ब्रह्म-ईशौ रमा देवी दधुः मूर्ध्नि अघनुत्तये ॥२९॥
तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैः पदानि यत् ।
या एका अपहृत्य गोपीनाम् रहः भुङ्क्ते अच्युत-अधरम् ॥३०॥
न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण-अङ्कुरैः ।
खिद्यत् सुजात-अङ्घ्रि-तलाम् उन्निन्ये प्रेयसीम् प्रियः ॥३१॥
इमानि अधिकम् अग्नानि पदानि वहतः वधूम् ।
गोप्यः पश्यत कृष्णस्य भार-आक्रान्तस्य कामिनः ॥३२॥
अत्र अवरोपिता कान्ता पुष्प-हेतोः महात्मना ।
अत्र प्रसून-अवचयः प्रिय-अर्थे प्रेयसा कृतः ।
प्रपद-आक्रमणः एते पश्यत असकले पदे ॥३३॥
केश-प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥३४॥
रेमे तया च आत्म-रतः आत्मा-रामः अपि अखण्डितः ।
कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् चैव दुरात्मताम् ॥३५॥
इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः ।
याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने ॥३६॥
सा च मेने तदा आत्मानम् वरिष्ठम् सर्व-योषिताम् ।
हित्वा गोपीः कामयानाः माम् असौ भजते प्रियः ॥३७॥
ततः गत्वा वन-उद्देशम् दृप्ता केशवम् अब्रवीत् ।
न पारये अहम् चलितुम् नय माम् यत्र ते मनः ॥३८॥
एवम् उक्तः प्रियाम् आह स्कन्धम् आरुह्यताम् इति ।
ततः च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत ॥३९॥
हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज ।
दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम् ॥४०॥
अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः ।
ददृशुः प्रिय-विश्लेष-मोहिताम् दुःखिताम् सखीम् ॥४१॥
तया कथितम् आकर्ण्य मान-प्राप्तिम् च माधवात् ।
अवमानम् च दौःआत्म्यात् विस्मयम् परमम् ययुः ॥४२॥
ततः अविशन् वनम् चन्द्र-ज्योत्स्ना यावत् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततः निववृतुः स्त्रियः ॥४३॥
तत्-मनस्काः तत्-अलापाः तत्-विचेष्टाः तत्-आत्मिकाः ।
तत्-गुणान् एव गायन्त्यः न आत्म-गारा-अणि सस्मरुः ॥४४॥
पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः ।
समवेताः जगुः कृष्णम् तत्-आगमन-काङ्क्षिताः ॥४५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां
कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥ 30 ॥
No comments:
Post a Comment