அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார்
ஸ்கந்தம் 10: அத்யாயம் 49
श्री शुक उवाच –
सः गत्वा हास्तिनपुरम् पौरव-इन्द्र-यशः-अङ्कितम् ।
ददर्श तत्र अम्बिकायम् सभीष्मम् विदुरम् पृथाम् ॥ १ ॥
सह-पुत्रम् च बाह्लीकम् भारद्वाजम् स-गौतमम् ।
कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान् ॥ २ ॥
यथावत् उपसङ्गम्य बन्धुभिः गांदिनी-सुतः ।
सम्पृष्टः तैः सुहृत्-वार्ताम् स्वयं च अपृच्छत् अव्ययम् ॥ ३ ॥
उवास कतिचित् मासान् राज्ञः वृत्त-विवित्सया ।
दुष्प्रजस्य अल्प-सारस्य खल-छन्द-अनुवर्तिनः ॥ ४ ॥
तेजः ओजः बलम् वीर्यम् प्रश्रय-आदीन् च सत्-गुणान् ।
प्रजा-अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् ॥ ५ ॥
कृतम् च धार्तराष्ट्रैः यत् गरद-अनादि-अपेशलम् ।
आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च ॥ ६ ॥
पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयम् स्मरन्ती अश्रु-कल-ईक्षणा ॥ ७ ॥
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे ।
भगिन्यः भ्रातृ-पुत्राः च जामयः सख्यः एव च ॥ ८ ॥
भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्तवत्सलः ।
पैतृष्वस्य-यान् स्मरति रामः च अम्बुज-ईक्षणः ॥ ९ ॥
स-पत्न-मध्ये शोचन्तीम् वृकाणाम् हरिणीम् इव ।
सान्त्वयिष्यति माम् वाक्यैः पितृ-हीनान् च बालकान् ॥ १० ॥
कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-भावन ।
प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम् ॥ ११ ॥
न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् ।
बिभ्यताम् मृत्यु-संसारात् ईश्वरस्य अपवर्गिकात् ॥ १२ ॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परम-आत्मने ।
योगेश्वराय योगाय त्वाम् अहम् शरणम् गता ॥ १३ ॥
श्री शुक उवाच –
इति अनुस्मृत्य स्व-जन्म् कृष्णम् च जगत्-ईश्वरम् ।
प्रारुदत् दुःखिता राजन् भवताम् प्रपितामही ॥ १४ ॥
सम-दुःख-सुखः अक्रूरः विदुरः च महा-यशाः ।
सान्त्वयामासतुः कुन्तीम् तत्-पुत्र-उत्पत्ति-हेतुभिः ॥ १५ ॥
यास्यन् राजानम् अभ्येत्य विषम् पुत्र-लालसम् ।
अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद-उदितम् ॥ १६ ॥
अक्रूर उवाच –
भो भो वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति-वर्धन ।
भ्रातरि उपरते पाण्डवः अधुना आसनम् आस्थितः ॥ १७ ॥
धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ १८ ॥
अन्यथा त्वा अचरन् लोके गर्हितः यास्यसि तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्म-जेषु च ॥ १९ ॥
न इह च अत्यन्त-संवासः कर्हिचित् केनचित् सह ।
राजन् स्वेन अपि देहेन किम् उ जाय-आत्मज-आदिभिः ॥ २० ॥
एकः प्रसूयते जन्तुः एक एव प्रलीयते ।
एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ २१ ॥
अधर्म-उपचितम् वित्तम् हरन्ति अन्ये अल्प-मेधसः ।
सम्भोजनीय-अपदेशैः जलानि इव जल-ओकसः ॥ २२ ॥
पुष्णाति यत् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।
ते अकृत-अर्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः ॥ २३ ॥
स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ-कोविदः ।
असिद्ध-अर्थः विशति अन्धम् स्व-धर्म-विमुखः तमः ॥ २४ ॥
तस्मात् लोकम् इम् राजन् स्वप्न-माया-मनो-रथम् ।
वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो ॥ २५ ॥
धृतराष्ट्र उवाच –
यथा वदति कल्याणीम् वाचम् दान-पते भवान् ।
तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम् ॥ २६ ॥
तथा अपि सूनृता सौम्य हृदि न स्थीयते चले ।
पुत्र-अनुराग-विषमे विद्युत् सौदामनी यथा ॥ २७ ॥
ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् ।
भूमेः भार-अवताराय यः अवतीर्णः यदोह् कुले ॥ २८ ॥
यः दुर्विमर्श-पथया निज-मायया इदम्
सृष्ट्वा गुणान् विभजते तत् अनुप्रविष्टः ।
तस्मै नमः दुरवबोध-विहार-तन्त्र-
संसार-चक्र-गतये परम-ईश्वराय ॥ २९ ॥
श्रीशुक उवाच –
इति अभिप्रेत्य नृपतेः अभिप्रायम् स यादवः ।
सुहृद्भिः समनुज्ञातः पुनः यदु-पुरिम् अगात् ॥ ३० ॥
शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् ।
पाण्डवान् प्रति कौरव्य यत्-अर्थम् प्रेषितः स्वयम् ॥ ३१ ॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशम-स्कन्धे पूर्वार्धे एकोन-पञ्चाशः अध्यायः ॥
No comments:
Post a Comment