குப்ஜயை குமரியாக்கினான் கண்ணன்
ஸ்கந்தம் 10: அத்யாயம் 48
श्री शुक उवाच –
अथ विज्ञाय भगवान् सर्व-आत्मा सर्व-दर्शनः ।
सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहम् ययौ ॥ १ ॥
महा-अर्ह-उपस्करैः आढ्यम् काम-उपाय-उपबृंहितम् ।
मुक्ता-दाम-पताकाभिः वितान-शयन-आसनैः ।
धूपैः सुरभिभिः दीपैः स्रक्-गन्धैः अपि मण्डितम् ॥ २ ॥
गृहम् तम् आयान्तम् अवेक्ष्य सा-आसनात् ।
सद्यः समुत्थाय हि जात-सम्भ्रमा ।
यथा उपसङ्गम्य सखीभिः अच्युतम् ।
स-भाजयाम् आस सत्-आसन-आदिभिः ॥ ३ ॥
तथा उद्धवः साधु तया अभिपूजितः ।
न्यषीदत् उर्व्याम् अभिमृश्य च आसनम् ।
कृष्णः अपि तूर्णम् शयनम् महा-धनम् ।
विवेश लोक-आचरित-आनु-व्रतः ॥ ४ ॥
सा मज्जन-आलेप-दुकूल-भूषण ।
स्रक्-गन्ध-ताम्बूल-सुधा-अस्व-आदिभिः ।
प्रसाधित-आत्मा उपससार माधवम् ।
स-व्रीड-लीला-उत्स्मित-विभ्रम-ईक्षितैः ॥ ५ ॥
आहूय कान्ताम् नव-सङ्गम्-अह्रिया ।
वि-शङ्किताम् कङ्कण-भूषिते करे ।
प्रगृह्य शय्याम् अधिवेश्य रामया ।
रेमे अनु-लेप-अर्पण-पुण्य-लेशया ॥ ६ ॥
सा अनङ्ग-तप्त-कुच-उरु-रसः तथा अक्ष्णोः ।
जिघ्रन्ती अनन्त-चरणेन रुजः मृजन्ती ।
दोर्भ्याम् स्तन-अन्तर-गतम् परिरभ्य कान्तम् ।
आनन्द-मूर्तिम् अजहात् अति-दीर्घ-तापम् ॥ ७ ॥
सा एवम् कैवल्य-नाथम् तम् प्राप्य दुःप्राप्यम् ईश्वरम् ।
अङ्ग-राग-अर्पणेन आहो दुर्भगा इदम् अयाचत ॥ ८ ॥
आहोष्यताम् इह प्रेष्ठ दिनानि कतिचित् मया ।
रमस्व न उत्सहे त्यक्तुम् सङ्गम् ते अम्बुज-ईक्षण ॥ ९ ॥
तस्यै काम-वरम् दत्त्वा मानयित्वा च मानदः ।
स-उद्धवेन सर्वेशः स्व-धाम आगमत् अर्चितम् ॥ १० ॥
दुर्लभ-अाराध्यम् समाराध्य विष्णुम् सर्व-ईश्वर-ईश्वरम् ।
यः वृणीते मनः-ग्रह्यम् अ-सत्त्वात् कुमनीषि असौ ॥ ११ ॥
अक्रूर-भवनम् कृष्णः स-हराम-उद्धवः प्रभुः ।
किञ्चित् चिकीर्षयन् प्रागात् अक्रूर-प्रिय-काम्यया ॥ १२ ॥
सः तान् नर-वर-श्रेष्ठान् आरात् वीक्ष्य स्व-बान्धवान् ।
प्रत्युत्थाय प्रमुदितः परिष्वज्य अभ्यनन्दत ॥ १३ ॥
ननाम कृष्णम् रामम् च सः तैः अपि अभिवादितः ।
पूजयाम् आस विधि-वतः कृत-आसन-परिग्रहान् ॥ १४ ॥
पाद-आवनेजन-ईर्-आपः धारयन् शिरसा नृप ।
अर्हणेन अम्बरैः दिव्यैः गन्ध-स्रक्-भूषण-उत्तमैः ॥ १५ ॥
अर्चित्वा शिरसा आनम्य पादौ अङ्क-गतौ मृजन् ।
प्रश्रय-अवनतः अक्रूरः कृष्ण-रामौ अभाषत ॥ १६ ॥
दिष्ट्या पापः हतः कंसः स-अनुगः वाम् इदम् कुलम् ।
भवद्भ्याम् उद्धृतम् कृच्छ्रात् दुरन्तात् च समेधितम् ॥ १७ ॥
युवाम् प्रधान-पुरुषौ जगत्-हेतू जगत्-मयौ ।
भवद्भ्याम् न विना किञ्चित् परम् अस्ति न च अपरम् ॥ १८ ॥
आत्म-सृष्टम् इदम् विश्वम् अन्वाविश्य स्व-शक्तिभिः ।
ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् ॥ १९ ॥
यथा हि भूतेषु चर-अचरेषु ।
महि-आदयः योनिषु भान्ति नानाः ।
एवम् भवान् केवल-आत्म-योनि-षु ।
आत्मा आत्म-तन्त्रः बहुधा विभाति ॥ २० ॥
सृजसि अथ लुम्पसि पासि विश्वम्
रजः-तमः-सत्त्व-गुणैः स्व-शक्तिभिः ।
न बध्यसे तत्-गुण-कर्मभिः वा
ज्ञान-आत्मनः ते क्व च बन्ध-हेतुः ॥ २१ ॥
देह-आदि-उपाधेः अनिरूपित-त्वात्
भवः न साक्षात् न भिदा आत्मनः स्यात् ।
अतः न बन्धः तव नैव मोक्षः
स्याताम् निकामः त्वयि नः अविवेकः ॥ २२ ॥
त्वया उदितः अयम् जगतः हिताय
यदा यदा वेद-पथः पुराणः ।
बाध्येत पाखण्ड-पथैः असद्भिः
तदा भवान् सत्त्व-गुणम् बिभर्ति ॥ २३ ॥
सः त्वम् प्रभो अद्य वसुदेव-गृहे अवतीर्णः
स्व-अंशेन भारम् अपनेतुम् इह असि भूमेः ।
अक्षौहिणी-शत-वधेन सुर-इतर-अंश-
राज्ञाम् अमुष्य च कुलस्य यशः वितन्वन् ॥ २४ ॥
अद्य ईश नः वसतयः खलु भूरिभागाः
यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः ।
यत्-पाद-शौच-सलिलम् त्रि-जगत् पुनाति
सः त्वम् जगत्-गुरुः अधोक्षज यः प्रविष्टः ॥ २५ ॥
कः पण्डितः त्वत्-अपरम् शरणम् समीयात्
भक्त-प्रियात् ऋत-गिरः सुहृदः कृतज्ञात् ।
सर्वान् ददाति सुहृदः भजतः अभिकामान्
आत्मानम् अपि उपचय-अपचयौ न यस्य ॥ २६ ॥
दिष्ट्या जनार्दन भवन् इह नः प्रतीतः
योगेश्वरैः अपि दुराप-गतिः सुर-ईशैः ।
छिन्धि आशु नः सुत-कलत्र-धन-आप्त-गृह-
देह-आदि-मोह-रशनाम् भवदीय-मायाम् ॥ २७ ॥
श्री शुक उवाच –
इति अर्चितः संस्तुतः च भक्तेन भगवान् हरिः ।
अक्रूरम् सस्मितम् प्राह गीर्भिः सम्मोहयन् इव ॥ २८ ॥
श्री भगवान् उवाच –
त्वम् नः गुरुः पितृव्यः च श्लाघ्यः बन्धुः च नित्यदा ।
वयम् तु रक्ष्याः पोष्याः च अनुकम्प्याः प्रजाः हि वः ॥ २९ ॥
भवद्-विधाः महा-भागाः निषेव्याः अर्ह-सत्तमाः ।
श्रेयः-कामैः नृभिः नित्यं देवाः स्वार्थाः न साधवः ॥ ३० ॥
न हि अमय-यानि तीर्थानि न देवाः मृद्-शिलामयाः ।
ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः ॥ ३१ ॥
सः भवान् सुहृदाम् वै नः श्रेयान् श्रेयः-चिकीर्षया ।
जिज्ञासा-अर्थम् पाण्डवानाम् गच्छस्व त्वम् गजाह्वयम् ॥ ३२ ॥
पितरि उपरते बालाः स-मता्रा सुदुःखिताः ।
आनीताः स्व-पुरम् राज्ञा वसन्ति इति शुश्रुम ॥ ३३ ॥
तेषु राज्ञा अम्बिका-पुत्रः भ्रातृ-पुत्रेषु दीन-धीः ।
समः न वर्तते नूनम् दुःपुत्र- वश-गः अन्ध-दृक् ॥ ३४ ॥
गच्छ जानीहि तत्-वृत्तम् अधुना साधु-असाधु वा ।
विज्ञाय तत् विधास्यामः यथा शम् सुहृदाम् भवेत् ॥ ३५ ॥
इति अक्रूरम् समादिश्य भगवान् हरिः ईश्वरः ।
सङ्कर्षण-उद्धवाभ्याम् वै ततः स्व-भवनम् ययौ ॥ ३६ ॥
No comments:
Post a Comment