உத்தவன் பிருந்தாவனம் வருகை
ஸ்கந்தம் 10: அத்யாயம் 46
श्री-शुकः उवाच –
वृष्णीनाम् प्रवरः मन्त्री कृष्णस्य दयितः सखा ।
शिष्यः बृहस्पतेः साक्षात् उद्धवः बुद्धि-सत्तमः ॥ १ ॥
तम् आह भगवान् प्रेष्ठम् भक्तम् एकान्तिनम् क्वचित् ।
गृहीत्वा पाणिना पाणिम् प्रपन्न-आर्ति-हरः हरिः ॥ २ ॥
गच्छ उद्धव व्रजम् सौम्य पित्रोः नः प्रीतिम् आवह ।
गोपीनाम् मत्-वियोग-अधिम् मत्-सन्देशैः विमोचय ॥ ३ ॥
ताः मत्-मनस्काः मत्-प्राणाः मत्-अर्थे त्यक्त-दैहिकाः ।
माम् एव दयितम् प्रेष्ठम् आत्मानम् मनसा गताः ।
ये त्यक्त-लोक-धर्माः च मत्-अर्थे तान् बिभर्मि अहम् ॥ ४ ॥
मयि ताः प्रेयसाम् प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्यः अङ्ग विमुह्यन्ति विरह-उत्कण्ठ्य-विह्वलाः ॥ ५ ॥
धारयन्ति अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैः वल्लव्यः मे मत्-आत्मिकाः ॥ ६ ॥
श्री-शुकः उवाच –
इति उक्तः उद्धवः राजन् सन्देशम् भर्तुः आदृतः ।
आदाय रथम् आaruhya प्रययौ नन्द-गोकुलम् ॥ ७ ॥
प्राप्तः नन्द-व्रजम् श्रीमान् निम्लोचति विभा-अवसौ ।
छन्न-यानः प्रविशताम् पशूनाम् खुर-रेणुभिः ॥ ८ ॥
वासित-अर्थे अभियुध्यद्भिः नादितम् शुष्मिभिः वृषैः ।
धावन्तीभिः च वास्राभिः ऊढ-भारैः स्व-वत्सकान् ॥ ९ ॥
इतः-ततः विलङ्घद्भिः गोवत्सैः मण्डितम् सितैः ।
गो-दोह-शब्दाभिः रवम् वेणूनाम् निःस्वनेन च ॥ १० ॥
गायन्तीभिः च कर्माणि शुभानि बल-कृष्णयोः ।
स्वलङ्कृताभिः गोपीभिः गोपैः च सुविराजितम् ॥ ११ ॥
अग्नि-अर्क-अतिथि-गो-विप्र-
पितृ-देव-अर्चन-आन्वितैः ।
धूप-दीपैः च माल्यैः च गोप-आवासैः मनोरमम् ॥ १२ ॥
सर्वतः पुष्पित-वनम् द्विज-अलि-कुल-नादितम् ।
हंस-कारण्डव-आकीर्णैः पद्म-षण्डैः च मण्डितम् ॥ १३ ॥
तम् आगतम् समागम्य कृष्णस्य अनुचरम् प्रियम् ।
नन्दः प्रीतः परिष्वज्य वासुदेव-धिया अर्चयत् ॥ १४ ॥
भोजितम् परम-अन्नेन संविष्टम् कशिपौ सुखम् ।
गत-श्रमम् पर्यपृच्छत् पाद-संवाहन-आदिभिः ॥ १५ ॥
कच्चित् अङ्ग महा-भाग सखा नः शूर-नन्दनः ।
आस्ते कुशल्य-पत्य-आद्यैः युक्तः मुक्तः सुहृत्-वृतः ॥ १६ ॥
दिष्ट्या कंसः हतः पापः स-अनुगः स्वेन पाप्मना ।
साधूनाम् धर्मशीलानाम् यदूनाम् द्वेष्टि यः सदा ॥ १७ ॥
अपि स्मरति नः कृष्णः मातरम् सुहृतः सखीन् ।
गोपान् व्रजम् च आत्म-नाथम् गावः वृन्दावनम् गिरिम् ॥ १८ ॥
अपि आयास्यति गोविन्दः स्व-जनान् सकृत्-ईक्षितुम् ।
तर्हि द्रक्ष्याम तत्-वक्त्रम् सु-नसम् सु-स्मित-ईक्षणम् ॥ १९ ॥
दाव-अग्नेः वात-वर्षात् च वृष-सर्पात् च रक्षिताः ।
दुरत्ययेभ्यः मृत्युभ्यः कृष्णेन सु-महात्मना ॥ २० ॥
स्मरताम् कृष्ण-वीर्याणि लीला-अपाङ्ग-निरीक्षितम् ।
हसितम् भाषितम् च अङ्ग सर्वाः नः शिथिलाः क्रियाः ॥ २१ ॥
सरित्-शैल-वन-उद्देशान् मुकुन्द-पद-भूषितान् ।
आक्रीडानी-ईक्ष्यमाणानाम् मनो याति तत्-आत्मताम् ॥ २२ ॥
मन्ये कृष्णम् च रामम् च प्राप्तौ इह सुर-उत्तमौ ।
सुराणाम् महत्-अर्थाय गर्गस्य वचनम् यथा ॥ २३ ॥
कंसम् नाग-आयुत-प्राणम् मल्लौ गज-पतिम् यथा ।
अवधिष्टाम् लीलया एव पशून् इव मृग-अधिपः ॥ २४ ॥
ताल-त्रयम् महा-सारम् धनुः-यष्टिम् इव इभ-राट् ।
बभञ्ज एकेन हस्तेन सप्त-अहम् अदधात् गिरिम् ॥ २५ ॥
प्रलम्बः धेनुकः अरिष्टः तृणावर्तः बक-आदयः ।
दैत्याः सुर-असुर-जितः हता येन् इह लीलया ॥ २६ ॥
श्री-शुकः उवाच –
इति संस्मृत्य संस्मृत्य नन्दः कृष्ण-अनुरक्त-धीः ।
अत्युत्कण्ठः अभवत् तूष्णीम् प्रेम-प्रसर-विह्वलः ॥ २७ ॥
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
शृण्वन्ती अश्रूणि अवास्राक्षीत् स्नेह-स्नुत-पयो-धराः ॥ २८ ॥
तयोः इत्थम् भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्य अनुरागम् परम् नन्दम् आह उद्धवः मुदा ॥ २९ ॥
श्री-उद्धवः उवाच –
युवाम् श्लाघ्य-तमौ नूनम् देहिनाम् इह मानद ।
नारायणे अखिल-गुरौ यत् कृता मतिः ईदृशी ॥ ३० ॥
एतौ हि विश्वस्य च बीज-योनी
रामः मुकुन्दः पुरुषः प्रधानम्।
अन्वीय भूतेषु विलक्षणस्य
ज्ञानस्य च ईशात् इमौ पुराणौ॥ ३१ ॥
यस्मिन् जनः प्राण-वियोग-काले
क्षणम् समावेश्य मनो विशुद्धम्।
निर्हृत्य कर्म-आशयम् आशु याति
पराम् गतिम् ब्रह्ममयः अर्कवर्णः॥ ३२ ॥
तस्मिन् भवन्तौ अखिल-आत्म-हेतौ
नारायणे कारण-मर्त्य-मूर्तौ।
भावम् विधत्ताम् नितराम् महात्मन्
किं वा अवशिष्टम् युवयोः सुकृत्यम्॥ ३३ ॥
आगमिष्यति अदीर्घेण कालेन व्रजम् अच्युतः।
प्रियं विधास्यते पित्रोः भगवान् सात्वताम् पतिः॥ ३४ ॥
हत्वा कंसम् रङ्ग-मध्ये प्रतीपम् सर्व-सात्वताम्।
यदा आह वः समागत्य कृष्णः सत्यं करोति तत्॥ ३५ ॥
मा खिद्यतम् महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके।
अन्तः-हृदि सः भूतानाम् आस्ते ज्योतिः इव एधसि॥ ३६ ॥
न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः वास्त्य् अमानिनः।
न उत्तमः न अधमः न अपि समानस्य असमः अपि वा॥ ३७ ॥
न माता न पिता तस्य न भार्या न सुत-आदयः।
न आत्मीयः न परः च अपि न देहः जन्म एव च॥ ३८ ॥
न च अस्य कर्म वा लोके सत्-असत्-मिश्र-योनि-षु।
क्रीडार्थः सः अपि साधूनाम् परित्राणाय कल्पते॥ ३९ ॥
सत्त्वम् रजः तमः इति भजते निर्गुणः गुणान्।
क्रीडन् अतीतः अत्र गुणैः सृजति अवति हन्ति अजः॥ ४० ॥
यथा भ्रमरिक-अदृष्ट्या भ्राम्यति इव महीयते।
चित्ते कर्तरि तत्र आत्मा कर्तेव अहं-धिया स्मृतः॥ ४१ ॥
युवयोः एव न एव अयम् आत्मजः भगवान् हरिः।
सर्वेषाम् आत्मजः हि आत्मा पिता माता सः ईश्वरः॥ ४२ ॥
दृष्टम् श्रुतम् भूत-भवत्-भविष्यत्
स्थास्नुः चरिष्णुः महत्-अल्पकं च।
विना अच्युतात् वस्तु तराम् न वाच्यम्
सः एव सर्वम् परम-आत्म-भूतः॥ ४३ ॥
एवम् निशा सा ब्रुवतोः व्यतीता
नन्दस्य कृष्ण-अनुचरस्य राजन्।
गोप्यः समुत्थाय निरूप्य दीपान्
वास्तून् समभ्यर्च्य दधि अन्यमन्थन्॥ ४४ ॥
ता दीप-दीप्तैः मणिभिः विरेजुः
रज्जु-उर्विकर्षत्-भुज-कङ्कण-स्रजः।
चलन्-नितम्ब-स्तन-हार-कुण्डल-
त्विषत्-कपोल-अरुण-कुङ्कुम-आननाः॥ ४५ ॥
उद्गायतीनाम् अरविन्द-लोचनम्
व्रजाङ्गनानाम् दिवम् अस्पृशत् ध्वनिः।
दध्नः च निर्मन्थन-शब्द-मिश्रितः
निरस्यते येन दिशाम् अमङ्गलम्॥ ४६ ॥
भगवति उदिते सूर्ये नन्द-द्वारि व्रज-औकसः।
दृष्ट्वा रथम् शातकौम्भम् कस्य अयम् इति च अब्रुवन्॥ ४७ ॥
अक्रूरः आगतः किं वा यः कंसस्य अर्थ-साधकः।
येन नीतः मधु-पुरीं कृष्णः कमल-लोचनः॥ ४८ ॥
किं साधयिष्यति अस्माभिः भर्तुः प्रीतस्य निष्कृतिम्।
ततः स्त्रीणाम् वदन्तीनाम् उद्धवः अगात् कृत-अह्निकः॥ ४९ ॥
No comments:
Post a Comment