கம்ஸ வதம்
ஸ்கந்தம் 10: அத்யாயம் 44
श्री शुक उवाच –
एवम् चर्चित-सङ्कल्पः भगवान् मधु-सूदनः ।
आससाद अथ चणूरम् मुष्टिकम् रोहिणी-सुतः ॥ १ ॥
हस्ताभ्याम् हस्तयोः बद्ध्वा पद्भ्याम् एव च पादयोः ।
विचकर्षतुः अन्योन्यम् प्रसह्य विजिगीषया ॥ २ ॥
अरत्नी द्वे अरत्निभ्याम् जानुभ्याम् च एव जानुनी ।
शिरः शीर्ष्णोः उरसः उरस्तौ अन्योन्यम् अभिजघ्नतुः ॥ ३ ॥
परि-भ्रामण-विक्षेप-परि-रम्भ-अपातनैः ।
उत्सर्पण-अपसर्पणैः च अन्योन्यम् प्रत्यरुन्धताम् ॥ ४ ॥
उत्थापनैः उन्नयनैः चालनैः स्थापनैः अपि ।
परस्परम् जिगीषन्तौ अपचक्रतुः आत्मनः ॥ ५ ॥
तत् बल-अबल-वत् युद्धम् समेतााः सर्व-योषितः ।
ऊचुः परस्परम् राजन् सा-अनुकम्पाः वरूथशः ॥ ६ ॥
महान् अयम् बतः अधर्मः एषाम् राज-सभा-सदाम् ।
ये बल-अबलवत् युद्धम् राज्ञः अन्विच्छन्ति पश्यतः ॥ ७ ॥
क्व वज्र-सार-सर्व-अङ्गौ मल्लौ शैल-इन्द्र-सन्निभौ ।
क्व च अति-सुकुमार-अङ्गौ किशोरौ न आप्त-यौवनौ ॥ ८ ॥
धर्म-व्यतिक्रमः हि अस्य समाजस्य ध्रुवम् भवेत् ।
यत्र अधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित् ॥ ९ ॥
न सभाम् प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् ।
अब्रुवन् विब्रुवन् अज्ञः नरः किल्बिषम् अश्नुते ॥ १० ॥
वल्गतः शत्रुम् अभितः कृष्णस्य वदन-अम्बुजम् ।
वीक्ष्यताम् श्रम-वारि-उप्तम् पद्म-कोशम् इव आम्बुभिः ॥ ११ ॥
किम् न पश्यति रामस्य मुखम् आताम्र-लोचनम् ।
मुष्टिकम् प्रति सामर्षम् हास-संरम्भ-शोभितम् ॥ १२ ॥
पुण्याः बतः व्रज-भवः यत् अयम् नृ-लिङ्ग-
गूढः पुराण-पुरुषः वन-चित्र-माल्यः ।
गाः पालयन् सह बलः क्वणयन् च वेणुम्
विक्रीडयन् चति गिरि-त्र-रमा-अर्चित-अङ्घ्रिः ॥ १३ ॥
गोप्यः तपः किम् अचरन् यत् अमुर्ष्य रूपम्
लावण्य-सारम् असमा-ऊर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्यः अनु-सव-अभिनवम् दुरापम् –
एकान्त-धाम यशसः श्रियः ऐश्वरस्य ॥ १४ ॥
या दोहने-अवहनने मथन-उपलेप-
प्रेङ्खेण खन-अर्भ-रुदित-उक्षण-मार्जन-आदौ ।
गायन्ति च एनम् अनुरक्त-धियः अश्रु-कण्ठ्यः
धन्याः व्रज-स्त्रियः उरुक्रम-चित्त-यानाः ॥ १५ ॥
प्रातर् व्रजात् व्रजतः आविशतः च सायम्
गोभिः समम् क्वणयतः अस्य निशम्य वेणुम् ।
निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः
पश्यन्ति सस्मित-मुखम् सदय-आवलोकम् ॥ १६ ॥
एवम् प्रभाषमाणासु स्त्रीषु योग-ईश्वरः हरिः ।
शत्रुम् हन्तुम् मनः चक्रे भगवान् भरत-ऋषभ ॥ १७ ॥
सभयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचा आतुरौ ।
पितरौ अन्वतप्येताम् पुत्रयोः अबुधौ बलम् ॥ १८ ॥
तैः–तैः नियुद्ध-विधिभिः विविधैः अच्युत–इतरौ ।
युयुधाते यथा अन्योन्यम् तथैव बल–मुष्टिकौ ॥ १९ ॥
भगवत्–गात्र-निष्पातैः वज्र-नीष्पेष-निष्ठुरैः ।
चाणूरः भज्यमान-अङ्गः मुहुः ग्लानिम् अवाप ह ॥ २० ॥
सः श्येन-वेगः उत्पत्य मुष्टीकृत्य करौ उभौ ।
भगवन्तम् वासुदेवम् क्रुद्धः वक्षसि अबाधत ॥ २१ ॥
न अचलत् तत् प्रहारेण माला-आहतः इव द्विपः ।
बाह्वोः निगृह्य चाणूरम् बहुशः भ्रामयन् हरिः ॥ २२ ॥
भू-पृष्ठे पोथयाम्-आस तरसा क्षीण-जीवितम् ।
विस्रस्त–आकल्प–केश–स्रक् इन्द्र-ध्वजः इव अपतत् ॥ २३ ॥
तथा एव मुष्टिकः पूर्वम् स्व-मुष्ट्या अभिहतेन वै ।
बलभद्रेण बलिना तलेन अभिहतः भृशम् ॥ २४ ॥
प्रवेपितः सः रुधिरम् उद्वमन् मुखतः आर्दितः ।
व्यसुः पपात उर्वि-उपस्थे वात-आहतः इव अङ्घ्रिपः ॥ २५ ॥
ततः कूटम् अनुप्राप्तम् रामः प्रहरताम् वरः ।
अवधीद् लीलया राजन् सावज्ञम् वाम-मुष्टिना ॥ २६ ॥
तर्हि एव हि शलः कृष्ण-पद–आपहत–शीर्षकः ।
द्विधा विदीर्णः तोशलकः उभौ अपि निपेततुः ॥ २७ ॥
चाणूरे मुष्टिके कूटे शले तोशलके हते ।
शेषाः प्रदुद्रुवुः मल्लाः सर्वे प्राण-परीप्सवः ॥ २८ ॥
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः ।
वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ २९ ॥
जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः ।
ऋते कंसम् विप्र-मुख्याः साधवः साधु साधु इति ॥ ३० ॥
हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् ।
न्यवारयत् स्व-तूर्याणि वाक्यम् च इदम् उवाच ह ॥ ३१ ॥
निःसारयत दुर्वृत्तौ वसुदेव-आत्मजौ पुरात् ।
धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम् ॥ ३२ ॥
वसुदेवः तु दुर्मेधा हन्यताम् आशु असत्तमः ।
उग्रसेनः पिता च अपि स-ानुगः पर-पक्षगः ॥ ३३ ॥
एवम् विकत्थमाने वै कंसे प्रकुपितः अव्ययः ।
लघिम्ना उत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ ३४ ॥
तम् आविशन्तम् आलोक्य मृत्युम् आत्मनः आसनात् ।
मनस्वी सहसा उत्थाय जगृहे सः असि-चर्मणी ॥ ३५ ॥
तम् खड्ग-पाणिम् विचरन्तम् आशु
श्येनम् यथा दक्षिण-सव्यम् अम्बरे ।
समग्रहीत् दुर्विषह-उग्र-तेजाः
यथा उरगम् तार्क्ष्य-सुतः प्रसह्य ॥ ३६ ॥
प्रगृह्य केशेषु चलत्–किरीटम्
निपात्य रङ्ग-उपरी तुङ्ग-मञ्चात् ।
तस्य उपरिष्टात् स्वयम् अब्ज-नाभः
पपात विश्व-आश्रयः आत्म-तन्त्रः ॥ ३७ ॥
तम् सम्परेतम् विचकर्ष भूमौ
हरिः यथा इभम् जगतः विपश्यतः ।
हा हे इति शब्दः सुमहान् तदा आभूत्
उदीरितः सर्व-जनैः नरेन्द्र ॥ ३८ ॥
सः नित्यदः उद्विग्न-धिया तम् ईश्वरम्
पिबन् वदन् वा विचरन् स्वपन् श्वसन् ।
ददर्श चक्र-आयुधम् अग्रतः यः
तत् एव रूपम् दुरवापम् आप ॥ ३९ ॥
तस्य अनुजाः भ्रातरः अष्टौ कङ्कः न्यग्रोधकः आदयः ।
अभ्यधावन् अभि-क्रुद्धाः भ्रातुः निर्वेश-कारिणः ॥ ४० ॥
तथा अतिरभसान् ताम्स् तु संयत्तान् रोहिणीसुतः ।
अहन् परिघम् उद्यम्य पशून् इव मृग-आधिपः ॥ ४१ ॥
नेदुः दुन्दुभयः व्योम्नि ब्रह्म-ईश-आद्याः विभूतयः ।
पुष्पैः किरन्तः तम् प्रीताः शशंसुः ननृतुः स्त्रियः ॥ ४२ ॥
तेषाम् स्त्रियः महा-राज सुहृत्-मरण-दुःखिताः ।
तत्र अभीयुः विनिघ्नन्त्यः शीर्षाणि अश्रु-विलोचनाः ॥ ४३ ॥
शयानान् वीर-शय्यायाम् पतीन् आलिङ्ग्य शोचतीः ।
विलेपुः सु-स्वरम् नार्यः विसृजन्त्यः मुहुः शुचः ॥ ४४ ॥
हा नाथ प्रिय धर्मज्ञ करुणा-नाथ-वात्सल ।
त्वया हतेन निहताः वयम् ते स-गृह-प्रजाः ॥ ४५ ॥
त्वया विरहिता पत्या पुरी इयम् पुरुष-ऋषभ ।
न शोभते वयम् इव निवृत्त-उत्सव-मङ्गला ॥ ४६ ॥
अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहम् उल्बणम् ।
तेन इमाम् भोः दशाम् नीतः भूत-धृक् कः लभेत शम् ॥ ४७ ॥
सर्वेषाम् इह भूतानाम् एषः हि प्रभव-अप्ययः ।
गोप्ता च तत्-अवध्यायी न क्वचित् सुखम् एधते ॥ ४८ ॥
श्री-शुकः उवाच -
राज-योषितः आश्वास्य भगवान् लोक-भावनः ।
या-आहुः लौकिकीम् संस्थाम् हतानाम् समकारयत् ॥ ४९ ॥
मातरम् पितरम् च एव मोचयित्वा अथ बन्धनात् ।
कृष्ण-रामौ ववन्दाते शिरसा आस्पृश्य पादयोः ॥ ५० ॥
देवकी वसुदेवः च विज्ञाय जगत्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ स-स्वजाते न शङ्कितौ ॥ ५१ ॥
No comments:
Post a Comment