கண்ணனும் பலராமனும் மதுரா வருகிறார்கள்
ஸ்கந்தம் 10: அத்யாயம் 41
श्रीशुक उवाच –
स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः ।
भूयः समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः ॥ १ ॥
सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्य सत्वरः ।
कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत् ॥ २ ॥
तम् अपृच्छत् हृषीकेशः किम् ते दृष्टम् इव अद्भुतम् ।
भूमौ वियति तोये वा तथा त्वाम् लक्षयामहे ॥ ३ ॥
श्रीअक्रूर उवाच –
अद्भुतानि इह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्व-आत्मके तानि किम् मे अदृष्टम् विपश्यतः ॥ ४ ॥
यत्र अद्भुतानि सर्वाणि भूमौ वियति वा जले ।
तम् त्वाम् अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्भुतम् ॥ ५ ॥
इति उक्त्वा च उदयामास स्यन्दनम् गान्दिनी-सुतः ।
मथुराम् अनयत् रामम् कृष्णम् च एव दिन-अत्यये ॥ ६ ॥
मार्गे ग्राम-जनाः राजन् तत्र तत्र उपसङ्गताः ।
वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः ॥ ७ ॥
तावत् व्रज-औकसः तत्र नन्द-गोप-आदयः अग्रतः ।
पुर-उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे ॥ ८ ॥
तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः ।
गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव ॥ ९ ॥
भवान् प्रविशताम् अग्रे सह-यानः पुरीम् गृहम् ।
वयम् तु इह अवमुच्य अथ ततः द्रक्ष्यामहे पुरीम् ॥ १० ॥
श्रीअक्रूर उवाच –
न अहम् भवद्भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो ।
त्यक्तुम् न अर्हसि माम् नाथ भक्तम् ते भक्तवत्सल ॥ ११ ॥
आगच्छ याम् गेहान् नः सनाथान् कुरु अदोक्षज ।
सह अग्रजः स-गोपालैः सुहृत्भिः च सुहृत्-तम ॥ १२ ॥
पुनीहि पाद-रजसा गृहान् नः गृह-मेधिनाम् ।
यत्-शौचेन अनुतृप्यन्ति पितरः सा-अग्नयः सुराः ॥ १३ ॥
अवनिज्य अङ्घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् ।
ऐश्वर्यम् अतुलम् लेभे गतिम् च ऐकान्तिनाम् तु या ॥ १४ ॥
आपः ते अङ्घ्रि-अवनेजन्याः स्त्रीन् लोकान् शुचयः अपुनन् ।
शिरसा अधत्त याः शर्वः स्वर्याताः सगर-आत्मजाः ॥ १५ ॥
देव-देव जगत्-नाथ पुण्य-श्रवण-कीर्तन ।
यदु-उत्तम-उत्तम-श्लोक नारायण नमः अस्तु ते ॥ १६ ॥
श्रीभगवान् उवाच –
आयास्ये भवतः गेहम् अहम् आर्य-समन्वितः ।
यदु-चक्र-द्रुहम् हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ १७ ॥
श्रीशुक उवाच –
एवम् उक्तः भगवता सः अक्रूरः विमनाः इव ।
पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ ॥ १८ ॥
अथ अपराह्णे भगवान् कृष्णः सङ्कर्षण-अन्वितः ।
मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥
ददर्श ताम् स्फाटिक-तुङ्ग-गोपुर-
द्वाराम् बृहत्-हेम-कपाट-तोरणाम् ।
ताम्र-अर-कोष्ठाम् परिखा-दुरासदाम्
उद्यान-रम्य-उपवन-उपशोभिताम् ॥ २० ॥
सौवर्ण–शृङ्गाटक–हर्म्य–निष्कुटैः
श्रेणी-सभा-भिः भवनैः उपस्कृताम् ।
वैदूर्य-वज्र-अमल-नील-विद्रुमैः
मुक्ता-हरित्-भिः वलभीषु वेदिषु ॥ २१ ॥
जुष्टेषु जालामुख-रन्ध्र-कुट्टिमे-
षु आविष्ट-पारावत-बर्हि-नादिताम् ।
संसिक्त-रथ्या-अपण-मार्ग-चत्वराम्
प्रकीर्ण-माल्य-अङ्कुर-लाज-तण्डुलाम् ॥ २२ ॥
आपूर्ण-कुम्भैः दधि-चन्दन-उक्षितैः
प्रसून-दीप-आवलि-भिः स-पल्लवैः ।
स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः
स्वलङ्कृत-द्वार-गृहाम् स-पट्टिकैः ॥ २३ ॥
ताम् सम्प्रविष्टौ वसुदेव-नन्दनौ
वृतौ वयस्यैः नरदेव-वर्त्मना ।
द्रष्टुम् समीयुः त्वरिताः पुर-स्त्रियः
हर्म्याणि च एव अरुहुः नृप-उत्सुकाः ॥ २४ ॥
काश्चित् विपर्यक्त-धृत-वस्त्र-भूषणाः
विस्मृत्य च एकम् युगलेषु अथ अपराः ।
कृत-एक-पत्र-श्रवण-एक-नूपुराः
न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥
अश्नन्त्यः एकाः तत् अपास्य स-उत्सवाः
अभ्यज्यमानाः अकृत-उपमज्जनाः ।
स्वपन्त्यः उत्थाय निशम्य निःस्वनम्
प्रपाययन्त्यः अर्भम् अपोह्य मातरः ॥ २६ ॥
मनांसि तासाम् अरविन्द-लोचनः
प्रगल्भ-लीला-हसित-अवलोकनैः ।
जहार मत्त-द्विरद-इन्द्र-विक्रमः
दृशाम् ददत् श्री-रमण-आत्मनः उत्सवम् ॥ २७ ॥
दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसः तम् ।
तत्-प्रेक्षण-उत्स्मित-सुधा-उक्षण-लब्ध-मानाः ।
आनन्द-मूर्तिम् उपगुह्य दृशा आत्म-लब्धम् ।
हृष्यत्-त्वचः जहुः अनन्तम् अरि-दम-आधिम् ॥ २८ ॥
प्रासाद-शिखर-आरूढाः प्रीति-उत्फुल्ल-मुख-अम्बुजाः ।
अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ ॥ २९ ॥
दधि-अक्षतैः स-उदपात्रैः स्रक्-गन्धैः अभ्युपायनैः ।
तौ अनर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥
ऊचुः पौराः –
अहो गोप्यः तपः किम् अचरन् महत् ।
या हि एतौ अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ ३१ ॥
रजकम् कञ्चित् आयान्तम् रङ्गकारम् गदा-अग्रजः ।
दृष्ट्वा याचत वासांसि धौतानि अति-उत्तमानि च ॥ ३२ ॥
देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः ।
भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः ॥ ३३ ॥
स याचितः भगवता परिपूर्णेन सर्वतः ।
साक्षेपम् रुषितः प्राह भृत्यः राज्ञः सुदुर्मदः ॥ ३४ ॥
ईदृशानि एव वासांसी नित्यम् गिरि-वने-चराः ।
परिधत्त किम् उद्वृत्ताः राज-द्रव्याणि अभीप्सथ ॥ ३५ ॥
यात अशु बालिशाः मा एवम् प्रार्थ्यम् यदि जिजीवीषा ।
बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै ॥ ३६ ॥
एवम् विकत्थमानस्य कुपितः देवकी-सुतः ।
रजकस्य कर-अग्रेण शिरः कायात् अपातयत् ॥ ३७ ॥
तस्य अनुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।
दुद्रुवुः सर्वतः मार्गम् वासांसि जगृहे अच्युतः ॥ ३८ ॥
वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा ।
शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचित् ॥ ३९ ॥
ततः तु वायकः प्रीतः तयोः वेषम् अकल्पयत् ।
विचित्र-वर्णैः चैलेयैः आकल्पैः अनुरूपतः ॥ ४० ॥
नाना-लक्षण-वेषाभ्याम् कृष्ण-रामौ विरेजतुः ।
स्व-लङ्कृतौ बाल-गजौ पर्वणि इव सित-इतऱौ ॥ ४१ ॥
तस्य प्रसन्नः भगवान् प्रादात् सा-रूप्यम् आत्मनः ।
श्रियं च परमाम् लोके बल-ऐश्वर्य-स्मृति-इन्द्रियम् ॥ ४२ ॥
ततः सुदाम्नः भवनम् मालाकारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥
तयोः आसनम् आनीय पाद्यम् च अर्घ्य-अर्हण-आदिभिः ।
पूजाम् स-अनुगयोः चक्रे स्रक्-ताम्बूल-अनुलेपनैः ॥ ४४ ॥
प्राह नः सार्थकम् जन्म पावितम् च कुलम् प्रभो ।
पितृ-देव-ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम् ॥ ४५ ॥
भवन्तौ किल विश्वस्य जगतः कारणम् परम् ।
अवतीर्णौ इह अंशेन क्षेमाय च भवाय च ॥ ४६ ॥
न हि वाम् विषमा दृष्टिः सुहृदोः जगत्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तम् भजतोः अपि ॥ ४७ ॥
तौ आज्ञापयताम् भृत्यम् किम् अहम् करवाणि वाम् ।
पुंसः अति-अनुग्रहः हि एषः भवद्भिः यत् नियुक्त्यते ॥ ४८ ॥
इति अभिप्रेत्य राजेन्द्र सुदामाः प्रीत-मानसः ।
शस्तैः सुगन्धैः कुसुमैः माला विरचिता ददौ ॥ ४९ ॥
ताभिः स्व-लङ्कृतौ प्रीतौ कृष्ण-रामौ स-अनुगौ ।
प्रणताय प्रपन्नाय ददतुः वरदौ वरान् ॥ ५० ॥
सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिल-आत्मनि ।
तत्-भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम् ॥ ५१ ॥
इति तस्मै वरम् दत्त्वा श्रियम् च अनुय-वर्धिनीम् ।
बलम् आयुः यशः कान्तिम् निर्जगाम सह-अग्रजः ॥ ५२ ॥
No comments:
Post a Comment