Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 37 (கேசீ மற்றும் வ்யோமனின் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கேசீ மற்றும் வ்யோமனின் வதம்

ஸ்கந்தம் 10: அத்யாயம் 37

श्री शुक उवाच
केशी तु कंस-प्रहितः खुरैः महीम्
महाहयः निर्जरयन् मनः-जवः ।
सटा-अवधूत-अभ्र-विमान-सङ्कुलम्
कुर्वन् नभः हेषित-भीषित-अखिलः ॥ 1 ॥


विशाल-नेत्रः विकट-आस्य-कोटरः
बृहद्-गलः नील-महाम्बुद-उपमः ।
दुराशयः कंस-हितम् चिकीर्षुः
व्रजम् स नन्दस्य जगाम कम्पयन् ॥ 2 ॥

तम् त्रासयन्तम् भगवान् स्व-गोकुलम्
तत्-हेषितैः वाल-विघूर्णित-अम्बुदम् ।
आत्मानम् आजौ मृगयन्तम् अग्रणीः
उपाह्वयत् सः व्यनदत् मृगेन्द्रवत् ॥ 3 ॥

सः तम् निशाम्य अभिमुखः मखेन खम्
पिबन् इव अभ्यद्रवत् अत्य-अमर्षणः ।
जघान पद्‍भ्याम् अरविन्द-लोचनम्
दुरासदः चण्ड-जवः दुरत्ययः ॥ 4 ॥

तत् वञ्चयित्वा तम् अधोक्षजः रुषा
प्रगृह्य दोर्भ्याम् परिविध्य पादयोः ।
सावज्ञम् उत्सृज्य धनुः-शत-अन्तरे
यथा उरगम् तार्क्ष्य-सुतः व्यवस्थितः ॥ 5 ॥

सः लब्ध-संज्ञः पुनः उत्थितः रुषा
व्यादाय केशी तरसा आपतत् हरिम् ।
सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन्
प्रवेशयामास यथा उरगम् बिले ॥ 6 ॥

दन्ताः निपेतुः भगवत्-भुज-स्पृशः
ते केशिनः तप्त-मयः-स्पृशः यथा ।
बाहुः च तत्-देहगतः महा-आत्मनः
यथा आमयः संववृधे उपेक्षितः ॥ 7 ॥

समेधमानेन सः कृष्ण-बाहुना
निरुद्ध-वायुः चरणान् च विक्षिपन् ।
प्रस्विन्न-गात्रः परिवृत्त-लोचनः
पपात लेण्डम् विसृजन् क्षितौ व्यसुः ॥ 8 ॥

तत्-देहतः कर्कटिका-फल-उपमात्
व्यसुः अपाकृष्य भुजम् महा-भुजः ।
अविस्मितः अयत्न-हत-अरिः उत्स्मयैः
प्रसून-वर्षैः दिविषद्‍भिः ईडितः ॥ 9 ॥

देव-ऋषिः उपसङ्गम्य भागवत-प्रवरः नृप
कृष्णम् अक्लिष्ट-कर्माणम् रहस्य एतत् अभाषत ॥ 10 ॥

कृष्ण कृष्ण-अप्रमेय-आत्मन् योगेश जगत्-ईश्वर ।
वासुदेव-अखिल-आवास सात्वताम् प्रवर प्रभो ॥ 11 ॥

त्वम् आत्मा सर्व-भूतानाम् एकः ज्योतिः इव ऐधसाम् ।
गूढः गुहा-आशयः साक्षी महा-पुरुषः ईश्वरः ॥ 12 ॥

आत्मना आत्म-आश्रयः पूर्वम् मायया ससृजे गुणान् ।
तैः इदम् सत्य-सङ्कल्पः सृजसि अच्युत अवसी ईश्वरः ॥ 13 ॥

सः त्वम् भूधर-भूतानाम् दैत्य-प्रमथ-रक्षसाम् ।
अवतीर्णः विनाशाय सेतूनाम् रक्षणाय च ॥ 14 ॥

दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः ।
यस्य हेषित-सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम् ॥ 15 ॥

चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् ।
कंसम् च निहतम् द्रक्ष्ये परश्वः अहनि ते विभो ॥ 16 ॥

तस्य अनु शङ्ख-यवन-मुराणाम् नरकस्य च ।
पारिजात-अपहरणम् इन्द्रस्य च पराजयम् ॥ 17 ॥

उद्वाहम् वीर-कन्यानाम् वीर्य-शुल्क-आदि-लक्षणम् ।
नृगस्य मोक्षणम् पापात् द्वारकायाम् जगत्-पते ॥ 18 ॥

स्यमन्तकस्य च मणेः आदानम् सह भार्यया ।
मृत-पुत्र-प्रदानम् च ब्राह्मणस्य स्व-धामतः ॥ 19 ॥

पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् ।
दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ ॥ 20 ॥

यानि च अन्यानि वीर्याणि द्वारका-आवासन् भवान् ।
कर्ता द्रक्ष्यामि अहं तानि गेयानि कविभिः भुवि ॥ 21 ॥

अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै ।
अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन-सारथेः ॥ 22 ॥

विशुद्ध-विज्ञान-घनम् स्व-संस्थया
समाप्त-सर्व-अर्थम् अमोघ-वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहम् भगवन्तम् ईमहि ॥ 23 ॥

त्वाम् ईश्वरम् स्व-आश्रयम् आत्म-मायया
विनिर्मित-अशेष-विशेष-कल्पनम् ।
क्रीडा-अर्थम् अद्य-आत्त-मनुष्य-विग्रहम्
नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम् ॥ 24 ॥

श्री-शुकः उवाच —
एवम् यदु-पतिम् कृष्णम् भागवत-प्रवरः मुनिः ।
प्रणिपत्य अभ्यनुज्ञातः ययौ तत्-दर्शन-उत्सवः ॥ 25 ॥

भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे ।
पशून् पालयत् पालैः प्रीतैः व्रज-सुख-आवहः ॥ 26 ॥

एकदा ते पशून् पालाः चारयन्तः अद्रि-सानुषु ।
चक्रुः निलायन-क्रीडाम् चोर-पाल-आपदेशतः ॥ 27 ॥

तत्र आसन् कतिचित् चोराः पालाः च कतिकिन् नृप ।
मेषायिताः च तत्र ऐके विजह्रुः अकुतः-भयाः ॥ 28 ॥

मय-पुत्रः महा-मायः व्योमः गोपाल-वेष-धृक् ।
मेषायितान् अपोवाह प्रायः चोरायितः बहून् ॥ 29 ॥
 
गिरि-दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः ।
शिलया पिदधे द्वारम् चतुः-पञ्च अवशेषिताः ॥ 30 ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।
गोपान् नयन्तम् जग्राह वृकं हरिः इव औजसा ॥ 31 ॥

स निजम् रूपम् आस्थाय गिरि-इन्द्र-सदृशं बली ।
इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण-अतुरः ॥ 32 ॥

तम् निगृह्य अच्युतः दोर्भ्यां पातयित्वा मही-तले ।
पश्यताम् दिवि देवानाम् पशु-मारम् अमारयत् ॥ 33 ॥

गुहा-अपिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैः गोपैः प्रविवेश स्व-गोकुलम् ॥ 34 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम 
सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ 

No comments: