கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள்
ஸ்கந்தம் 10: அத்யாயம் 35
श्री शुक उवाच
गोप्यः कृष्णे वनम् याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान् ॥ 1 ॥
श्री गोप्यः ऊचुः
वाम-बाहु-कृत-वाम-कपोलः
वल्गित-भ्रुः अधर-अर्पित-वेणुम् ।
कोमल-अङ्गुलिभिः आश्रित-मार्गम्
गोप्यः ईरयति यत्र मुकुन्दः ॥ 2 ॥
व्योम-यान-वनिताः सह सिद्धैः
विस्मिताः तत् उपधार्य सलज्जाः ।
काम-मार्गण-समर्पित-चित्ताः
कश्मलम् ययुः अपस्मृत-नीव्यः ॥ 3 ॥
हन्त चित्रम् अबलाः शृणुते इदम्
हार-हासः उरसि स्थिर-विद्युत् ।
नन्द-सूनुः अयम् आर्त-जनानाम्
नर्मदः यर्हि कूजित-वेणुः ॥ 4 ॥
वृन्दशः व्रज-वृषाः मृग-गावः
वेणु-वाद्य-हृत-चेतसः आरात् ।
दन्त-दष्ट-कवलाः धृत-कर्णाः
निद्रिताः लिखित-चित्रम् इव आसन् ॥ 5 ॥
बर्हिण-स्तबक-धातु-पलाशैः
बद्ध-मल्ल-परि-बर्ह-विडम्बः ।
कर्हिचित् सबलः आलिः सः गोपैः
गाः समाह्वयति यत्र मुकुन्दः ॥ 6 ॥
तर्हि भग्न-गतयः सरितः वै
तत्-पद-अम्बुज-रजः-अनिल-नीतम् ।
स्पृहयतीः वयम् इव अबहु-पुण्याः
प्रेम-वेपित-भुजाः स्तिमित-आपः ॥ 7 ॥
अनुचरैः समनुवर्णित-वीर्यः
आदि-पुरुषः इव अचल-भूतिः ।
वन-चरः गिरि-तटेषु चरन्तीः
वेणुना आह्वयति गाः सः यदा हि ॥ 8 ॥
वन-लताः तरवः आत्मनि विष्णुम्
व्यञ्जयन्त्यः इव पुष्प-फल-आढ्याः ।
प्रणत-भार-विटपाः मधु-धाराः
प्रेम-हृष्ट-तनवः ससृजुः स्म ॥ 9 ॥
दर्शनीय-तिलकः वन-मालः
दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैः अलघु-गीत-अभीष्टम्
आद्रियन् यर्हि सन्धित-वेणुः ॥ 10 ॥
सरसि सारस-हंस-विहङ्गाः
चारु-गीत-हृत-चेतसः एत्य ।
हरिम् उपासते ते यत-चित्ताः
हन्त मीलित-दृशः धृत-मौनाः ॥ 11 ॥
सह-बलः स्रक्-अवतंस-विलासः
सानुषु क्षिति-भृतः व्रज-देव्यः ।
हर्षयन् यर्हि वेणु-रवेण
जात-हर्षः उपरम्भति विश्वम् ॥ 12 ॥
महत्-अतिक्रमण-शङ्कित-चेताः
मन्द-मन्दम् अनु-गर्जति मेघः ।
सुहृदम् अभ्यवर्षत् सुमनोभिः
छायया च विदधत् प्रतपत्रम् ॥ 13 ॥
विविध-गोप-चरणेषु विदग्धः
वेणु-वाद्यः उरुधा निज-शिक्षाः ।
तव सुतः सति यदा अधर-बिम्बे
दत्त-वेणुः अनयत् स्वर-जातीः ॥ 14 ॥
सवन-शः तत् उपधार्य सुर-ईशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवयः आनत-कन्धर-चित्ताः
कश्मलम् ययुः अनिश्चित-तत्त्वाः ॥ 15 ॥
निज-पद-अब्ज-दलैः ध्वज-वज्र-
नीरज-अङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदम्
वर्ष्म-धुर्य-गति-रीडित-वेणुः ॥ 16 ॥
व्रजति तेन वयम् स-विलास
वीक्षण-अर्पित-मनः-भव-वेगाः ।
कुज-गतिम् गमिता न विदामः
कश्मलेन कबरम् वसनम् वा ॥ 17 ॥
मणि-धरः क्वचित् आगणयन् गाः
मालया दयित-गन्ध-तुलस्याः ।
प्रणयिनः अनुचरस्य कदा-अंसे
प्रक्षिपन् भुजम् अगायत यत्र ॥ 18 ॥
क्वणित-वेणु-रव-वञ्चित-चित्ताः
कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।
गुण-गण-अर्णम् अनुगत्य हरिण्यः
गोपिकाः इव विमुक्त-गृह-आशाः ॥ 19 ॥
कुन्द-दाम-कृत-कौतुक-वेषः
गोप-गोधन-वृतः यमुनायाम् ।
नन्द-सूनुः अनघे तव वत्सः
नर्मदः प्रणयिनाम् विजहार ॥ 20 ॥
मन्द-वायुः उपवाति अनुकूलम्
मानयन् मलयज-स्पर्शेन ।
वन्दिनः तम् उप-देव-गणाः ये
वाद्य-गीत-बलिभिः परिवव्रुः ॥ 21 ॥
वत्सलः व्रज-गवाम् यद्-अगध्रः
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गोधनम् उपोह्य दिन-अन्ते
गीत-वेणुः अनु-गेडित-कीर्तिः ॥ 22 ॥
उत्सवम् श्रमरुचा अपि दृशीनाम्
उन्नयन् खुर-रजः-छुरित-स्रक् ।
दित्सया इति सुहृदाम् आशिषः एषः
देवकी-जठर-भूः उडु-राजः ॥ 23 ॥
मद-विघूर्णित-लोचनः ईषत्-
मानदः स्व-सुहृदाम् वन-माली ।
बदर-पाण्डु-वदनः मृदु-गण्डम्
मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ 24 ॥
यदु-पतिः द्विरद-राज-विहारः
यामिनी-पतिः इव एषः दिन-अन्ते ।
मुदित-वक्त्रः उपयाति दुरन्तम्
मोचयन् व्रज-गवाम् दिन-तापम् ॥ 25 ॥
श्री-शुकः उवाच –
एवम् व्रज-स्त्रियः राजन् कृष्ण-लीलाः अनु गायतीः ।
रेमिरे अहःसु तत्-चित्ताः तत्-मनस्काः महोदयाः ॥ 26 ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां
गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
No comments:
Post a Comment