கண்ணன் நந்தகோபரை காப்பாற்றினான்
ஸ்கந்தம் 10: அத்யாயம் 34
श्री-शुकः उवाच —
एकदा देव-यात्रायाम् गोपालाः जात-कौतुकाः।
अनुभिः अनडुद्-युक्तैः प्रययुः ते अम्बिका-वनम्॥१॥
तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम्।
आनर्चुः अर्हणैः भक्त्या देवīm च नृपते अम्बिकाम्॥२॥
गावः हिरण्यम् वासांसि मधु मदु-अन्नम् आदृताः।
ब्राह्मणेभ्यः ददुः सर्वे — 'देवः नः प्रीयताम्' इति॥३॥
ऊषुः सरस्वती-तीरे जलम् प्राश्य धृत-व्रताः।
रजनीम् ताम् महा-भागाः नन्द-सुनन्दक-आदयः॥४॥
कश्चित् महान् अहिः तस्मिन् विपिने अतिबुभुक्षितः।
यदृच्छया आगतः नन्दम् शयानम् उरगः अग्रसीत्॥५॥
सः चुक्रोश आहिना ग्रस्तः — 'कृष्ण कृष्ण महा-नयम्।
सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय'॥६॥
तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः।
ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः॥७॥
अलातैः दह्यमानः अपि न अमुञ्चत् तम् उरङ्गमः।
तम् अस्पृशत् पदाभ्यः एत्य भगवान् सात्वताम् पतिः॥८॥
सः वै भगवतः श्रीमत् पाद-स्पर्श-हत- अशुभः।
भेजे सर्प-वपुः हित्वा रूपम् विद्याधर-अर्चितम्॥९॥
तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम्।
दीप्यमानेन वपुषा पुरुषम् हेम-मालिनम्॥१०॥
को भवान् परया लक्ष्म्या रोचते अद्भुत-दर्शनः।
कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः॥११॥
सर्पः उवाच —
अहम् विद्याधरः कश्चित् सुदर्शनः इति श्रुतः।
श्रिया स्वरूप-सम्पत्त्या विमानेन अचरम् दिशः॥१२॥
ऋषीन् विरूप-आङ्गिरसः प्राहसम् रूप-दर्पितः।
तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना॥१३॥
शापः मे अनुग्रहाय एव कृतः तैः करुणा-आत्मभिः।
यत् अहम् लोक-गुरुणा पदा स्पृष्टः हत-अशुभः॥१४॥
तम् त्वा अहम् भव-भीतानाम् प्रपन्नानाम् भय-अपहम्।
आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शात् अमीव-हन्॥१५॥
प्रपन्नः अस्मि महा-योगिन् महा-पुरुष सत्-पते।
अनुजानीहि माम् देव सर्व-लोक-ईश्वरेश्वर॥१६॥
ब्रह्म-दण्डात् विमुक्तः अहम् सद्यः ते अच्युत-दर्शनात्।
यत् नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च।
सद्यः पुनाति किम् भूयः तस्य स्पृष्टः पदा हि ते॥१७॥
इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च।
सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः॥१८॥
निशाम्य कृष्णस्य तत् आत्म-वैभवम्।
व्रज-औकसः विस्मित-चेतसः ततः॥
समाप्य तस्मिन् नियमम् पुनः व्रजम्।
नृप आययुः तत् कथयन्तः आदृताः॥१९॥
कदाचित् अथ गोविन्दः रामः च अद्भुत-विक्रमः।
विजह्रतुः वने रात्र्याम् मध्यगौ व्रज-योषिताम्॥२०॥
उपगीयमानौ ललितम् स्त्री-जनैः बद्ध-सौहृदैः।
स्व-अलङ्कृत-अनुलिप्त-अङ्गौ स्रग्विणौ विरजः अम्बरौ॥२१॥
निशा-मुखम् मानयन्तौ उदित-उडुप-तारकम्।
मल्लिका-गन्ध-मत्त-आलि जुष्टम् कुमुद-वायुना॥२२॥
जगतुः सर्व-भूतानाम् मनः-श्रवण-मङ्गलम्।
तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम्॥२३॥
गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदन् नृप।
स्रंसत् दुकूलम् आत्मानम् स्रस्त-केश-स्रजम् ततः॥२४॥
एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्तवत्।
शङ्खचूडः इति ख्यातः धनद-अनुचरः अभ्यगात्॥२५॥
तयोः निरीक्षतोः राजन् तत्-नाथम् प्रमदाजनम्।
क्रोशन्तम् कालयामास दिशि उदीच्याम् अशङ्कितः॥२६॥
क्रोशन्तम् कृष्ण-रामेति विलोक्य स्व-परिग्रहम्।
यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्॥२७॥
मा भैष्ट इति अभय-आरावौ शाल-हस्तौ तरस्विनौ।
आसेदतुः तम् तरसा त्वरितम् गुह्यक-अधमम्॥२८॥
स वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन्।
विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित-इच्छया॥२९॥
तम् अन्वधावत् गोविन्दः यत्र यत्र सः धावति।
जिहीर्षुः तत् शिरः-रत्नम् तस्थौ रक्षन् स्त्रियः बलः॥३०॥
अ-विदूर इव अभ्येत्य शिरः तस्य दुरात्मनः।
जहार मुष्टिना एव अङ्ग सह-चूड-मणिम् विभुः॥३१॥
शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम्।
अग्रजाय आददात् प्रीत्या पश्यन्तीनाम् च योषिताम्॥३२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम
चतुस्त्रिंशोऽध्यायः ॥ ३४
No comments:
Post a Comment