ராஸ லீலை
ஸ்கந்தம் 10: அத்யாயம் 33
श्रीशुकः उवाच –
इत्थम् भगवतः गोप्यः श्रुत्वा वाचः सुपेशलाः।
जहुः विरहजं तापं तद्-अङ्ग-उपचित-आशिषः॥१॥
तत्र आरभत गोविन्दः रास-क्रीडाम् अनु-व्रतैः।
स्त्री-रत्नैः अन्वितः प्रीतैः अन्योन्य-अबद्ध-बाहुभिः॥२॥
रास-उत्सवः सम्प्रवृत्तः गोपी-मण्डल-मण्डितः।
योगेश्वरेण कृष्णेन तासाम् मध्ये द्वयः-द्वयः॥३॥
प्रविष्टेन गृहीतानाम् कण्ठे स्व-निकटम् स्त्रियः।
यम् मन्येरन् नभः-तावत् विमान-शत-सङ्कुलम्॥४॥
दिवौकसाम् सदा-आराणाम् औत्सुक्य-अपहृत-आत्मनाम्।
ततः दुन्दुभयो नेदुः निपेतुः पुष्प-वृष्टयः।
जगुः गन्धर्व-पतयः स-स्त्रीकाः तत् यशः अमलम्॥५॥
वलयानाम् नूपुराणाम् किङ्किणीनाम् च योषिताम्।
सप्रियाणाम् अभूत् शब्दः तुमुलः रास-मण्डले॥६॥
तत्र अति-शुशुभे ताभिः भगवान् देवकी-सुतः।
मध्ये मणीनाम् हैमानाम् महा-अमरकतः यथा॥७॥
पाद-न्यासैः भुज-विधुतिभिः सस्मितैः भ्रू-विलासैः।
भज्यम्-मध्यैः चल-कुच-पटैः कुण्डलैः गण्ड-लोलैः।
स्विद्यन्-मुख्यः कबर-रसना-ग्रन्थयः कृष्ण-वध्वः।
गायन्त्यः तम् तडित् इव ताः मेघ-चक्रे विरेजुः॥८॥
उच्चैः जगुः नृत्यमानाः रक्त-कण्ठ्यः रति-प्रियाः।
कृष्ण-अभिमर्श-मुदिताः यत्-गीत-इदम् आवृतम्॥९॥
काचित् समम् मुकुन्देन स्वर-जातीः अमिश्रिताः।
उन्निन्ये पूजिता तेन प्रीयता साधु साधु इति।
तत् एव ध्रुवम् उन्निन्ये तस्यै मानम् च बहु अदात्॥१०॥
काचित् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः।
जग्राह बाहुना स्कन्धं श्लथ-वलय-मल्लिका॥११॥
तत्र एक-अंस-गतं बाहुं कृष्णस्य उत्पल-सौरभम्।
चन्दन-आलिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह॥१२॥
कस्याश्चित् नाट्य-विक्षिप्त-कुण्डल-त्विषा-मण्डितम्।
गण्डं गण्डे सन्दधत्याः अदात् ताम्बूल-चर्वितम्॥१३॥
नृत्यती गायती काचित् कूजन्-नूपुर-मेखला।
पार्श्वस्थ-अच्युत-हस्त-आब्जं श्रान्ता आधात् स्तनयोः शिवम्॥१४॥
गोप्यः लब्ध्वा अच्युतं कान्तं श्रियः एकान्त-वल्लभम्।
गृहीत-कण्ठ्यः तत् दोर्भ्यां गायन्त्यः तम् विजह्रिरे॥१५॥
कर्ण-उत्पल-अलक-विटङ्क-कपोल-घर्म-
वक्त्र-श्रियः वलय-नूपुर-घोष-वाद्यैः।
गोप्यः समं भगवता ननृतुः स्व-केश-
स्रस्त-स्रजः भ्रमर-गायक-रास-गोष्ठ्याम्॥१६॥
एवं परिष्वङ्ग-कर-अभिमर्श-
स्निग्ध-ईक्षण-उद्दाम-विलास-हासैः।
रेमे रमेशः व्रज-सुन्दरीभिः
यथा अर्भकः स्व-प्रतिबिम्ब-विभ्रमः॥१७॥
तत्-अङ्ग-सङ्ग-प्रमुद-आकुल-इन्द्रियाः
केशान् दूकूलं कुच-पट्टिकां वा।
न अञ्जः प्रति-व्योढुम् अलम् व्रज-स्त्रियः
विस्रस्त-माला-आभरणाः कुरूद्वह॥१८॥
कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खेचर-स्त्रियः।
काम-आर्दिताः शशाङ्कः च स-गणः विस्मितः अभवत्॥१९॥
कृत्वा तावन्तम् आत्मानं यावत्-ईः गोप-योषितः।
रेमे सः भगवन् ताभिः आत्मा-रामः अपि लीलया॥२०॥
तासाम् अति-विहारेण श्रान्तानां वदनानि सः।
प्रामृजत् करुणः प्रेम्णा शान्तम् एनाङ्ग-पाणिना॥२१॥
गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विट्-
गण्ड-श्रिया सुधित-हास-निरीक्षणेन।
मानं दधत्य ऋषभस्य जगुः कृतानि
पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः॥२२॥
ताभिः युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग-
घृष्ट-स्रजः सः कुच-कुङ्कुम-रञ्जितायाः।
गन्धर्व-पालिभिः अनुद्रुतः आविशत् वाः
श्रान्तः गजीभिः इभ-राट् इव भिन्न-सेतुः॥२३॥
सः अम्भसि अलम् युवतिभिः परिषिच्यमानः
प्रेम्णा ईक्षितः प्रहसतीभिः इतः ततः अङ्ग।
वैमानिकैः कुसुम-वर्षिभिः ईड्यमानः
रेमे स्वयं स्व-रतिः अत्र गज-इन्द्र-लीलः॥२४॥
ततः च कृष्णः उपवने जल-स्थल-
प्रसून-गन्ध-अनिल-जुष्ट-दिक्-तटे।
चचार भृङ्ग-प्रमदा-गण-आवृतः
यथा मद-उद्युत् द्विरदः करेणुभिः॥२५॥
एवम् शशाङ्क-अंशु-विराजिता निशाः
सः सत्य-कामः अनुरत-अबला-गणः।
सिषेवे आत्मनि अवरुद्ध-सौरतः
सर्वाः शरद्-काव्य-कथा-रस-आश्रयाः॥२६॥
श्री-परिक्षित् उवाच –
संस्थापनाय धर्मस्य प्रशमाय इतरस्यम्।
अवतीर्णः हि भगवान् अंशेन जगत्-ईश्वरः॥२७॥
सः कथं धर्म-सेतूनाम् वक्ता कर्ता अभिरक्षिता।
प्रतीपम् आचरत् ब्रह्मन् पर-दार-अभिमर्शनम्॥२८॥
आप्त-कामः यदु-पतिः कृतवान् वै जुगुप्सितम्।
किम् अभिप्रायः एतत् नः संशयं छिन्धि सुव्रत॥२९॥
श्री-शुक उवाच –
धर्म-व्यतिक्रमः दृष्टः ईश्वराणाम् च साहसम्।
तेजियसाम् न दोषाय वह्नेः सर्व-भुजः यथा॥३०॥
न एतत् समाचरेत् जातु मनसा अपि हि अनीश्वरः।
विनश्यति आचरन् मौढ्यात् यथा रुद्रः अब्धिजं विषम्॥३१॥
ईश्वराणाम् वचः सत्यम् तथा एव आचरितं क्वचित्।
तेषाम् यत् स्व-वचः-युक्तं बुद्धिमान् तत् समाचरेत्॥३२॥
कुशल-आचरितेन एषाम् इह स्व-अर्थः न विद्यते।
विपर्ययेन वा अनर्थः निरहङ्कारिणां प्रभो॥३३॥
किम् उत अखिल-सत्त्वानाम् तिर्यङ्-मर्त्य-दिवौकसाम्।
ईशितुः च ईशितव्याणां कुशल-अकुशल-अन्वयः॥३४॥
यत्-पाद-पङ्कज-पराग-निषेव-तृप्ताः
योग-प्रभाव-विधुत-अखिल-कर्म-बन्धाः।
स्वैरम् चरन्ति मुनयः अपि न नह्यमानाः
तस्य इच्छया आत्त-वपुषः कुतः एव बन्धः॥३५॥
गोपीनां तत्-पतीनाम् च सर्वेषाम् एव देहिनाम्।
यः अन्तः चरति सः अध्यक्षः क्रीडनेन इह देह-भाक्॥३६॥
अनुग्रहाय भूतानाम् मानुषं देहम् आस्थितः।
भजते तादृशीः क्रीडाः याः श्रुत्वा तत्-परः भवेत्॥३७॥
न असूयन् खलु कृष्णाय मोहिताः तस्य मायया।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रज-औकसः॥३८॥
ब्रह्म-रात्रि उपावृत्ते वासुदेव-अनुमोदिताः।
अनिच्छन्त्यः ययुः गोप्यः स्व-गृहान् भगवत्-प्रियाः॥३९॥
विक्रीडितं व्रज-वधूभिः इदं च विष्णोः
श्रद्धा-अन्वितः अनु-शृणुयात् अथ वर्णयेत् यः।
भक्तिं परां भगवति प्रतिलभ्य कामम्
हृत्-रोगम् आशु अपहिनोति अचिरेण धीरः॥४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम
त्रयोत्रिंशोऽध्यायः ॥ 33 ॥
No comments:
Post a Comment