கண்ணை கோபியர்கள் தரிசிக்கிறார்கள்
ஸ்கந்தம் 10: அத்யாயம் 32
श्रीशुक उवाच –
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यः च चित्रधा।
रुरुदुः सुस्वरम् राजन् कृष्ण-दर्शन-लालसाः ॥१॥
तासाम् आविरभूत् शौरिः स्मयमान-मुख-अम्बुजः।
पीत-अम्बर-धरः स्रग्वी साक्षात् मन्मथ-मन्मथः ॥२॥
तम् विलोक्य आगतम् प्रेष्ठम् प्रीति-उत्फुल्ल-दृशः अबलाः।
उत्तस्थुः युगपत् सर्वाः तन्वः प्राणम् इव आगतम् ॥३॥
काचित् कर-अम्बुजम् शौरेः जगृहे अञ्जलिना मुदा।
काचित् दधार तत् बाहुम् अंसे चन्दन-रूषितम् ॥४॥
काचित् अञ्जलिना अगृह्णात् तन्वी ताम्बूल-चर्वितम्।
एका तत् अङ्घ्रि-कमलम् सन्तप्ताः स्तनयोः अधात् ॥५॥
एका भ्रुकुटिम् आबध्य प्रेमा-सम्रम्भ-विह्वला।
घ्नन्ती इव ईक्षत् कटाक्षैः सन्दष्ट-दशन-च्छदा ॥६॥
अपरा निमिषत् दृग्भ्याम् जुषाणा तत् मुख-अम्बुजम्।
आपीतम् अपि न अत्रिप्यत् सन्तः तत् चरणम् यथा ॥७॥
तम् काचित् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च।
पुलकाङ्गी उपगुह्य आस्ते योगीवत् आनन्द-सम्प्लुता ॥८॥
सर्वाः ताः केशव-आलोक-परम्-उत्सव-निर्वृताः।
जहुः विरह-जम् तापम् प्राज्ञम् प्राप्य यथा जनाः ॥९॥
ताभिः विधूत-शोकाभिः भगवान् अच्युतः वृतः।
व्यरोचत अधिकम् तात पुरुषः शक्तिभिः यथा ॥१०॥
ताः समादाय कालिन्द्याः निर्विश्य पुलिनम् विभुः।
विकसत्-कुन्द-मन्दार-सुरभि-अनिल-षट्-पदम् ॥११॥
शरद्-चन्द्र-अंशु-सन्दोह-ध्वस्त-दोष-तमः-शिवम्।
कृष्णायाः हस्त-तरला-चित-कौमल-वालुकम् ॥१२॥
तत्-दर्शन-आह्लाद-विधूत-हृद्-रुजः
मनोरथ-अन्तम् श्रुतयः यथा ययुः।
स्वैर-उत्तरीयैः कुच-कुङ्कुम-अङ्कितैः
अचीक्लृपन् आसनम् आत्म-बन्धवे ॥१३॥
तत्र उपविष्टः भगवान् सः ईश्वरः
योग-ईश्वर-अन्तर्हृदि कल्पित-आसनः।
चकास गोपी-परिषद्-गतः अर्चितः
त्रै-लोक्य-लक्ष्मी-एक-पदम् वपुः दधत् ॥१४॥
सभाजयित्वा तम् अनङ्ग-दीपनम्
सहास-लील-ईक्षण-विभ्रम-भ्रुवा।
संस्पर्शनेन अङ्क-कृत-अङ्घ्रि-हस्तयोः
संस्तुत्य ईषत् कुपिता बभाषिरे ॥१५॥
श्री-गोप्यः ऊचुः –
भजतः अनु-भजन्ति एकः, एकः एतत् विपर्ययम्।
न उभयान् च भजन्ति एकः – एतत् नः ब्रूहि साधु भोः ॥१६॥
श्री-भगवान् उवाच –
मिथः भजन्ति ये सख्यः स्वार्थ-एकान्त-उद्यमाः हि ते।
न तत्र सौहृदम् धर्मः – स्वार्थ-अर्थम् तत् हि न अन्यथा ॥१७॥
भजन्ति अभजतः ये वै करुणाः पितरः यथा।
धर्मः निरपवादः अत्र, सौहृदम् च सुमध्यमाः ॥१८॥
भजतः अपि न वै केचित्, भजन्ति अभजतः कुतः।
आत्म-आरामाः हि आप्त-कामाः अकृतज्ञाः गुरु-द्रुहः ॥१९॥
न अहम् तु सख्यः भजतः अपि जन्तून्
भजामि अमीषाम् अनु-वृत्ति-वृत्तये।
यथा अधनः लब्ध-धने विनष्टे
तत् चिन्तयन् अन्यन् निभृतः न वेद ॥२०॥
एवम् मदर्थ-उज्झित-लोक-वेद
स्वानाम् हि वः मयि अनुवृत्तये अबलाः।
मया परोक्षम् भजता तिरोहितम्
मा असूयितुम् अर्हथ तत् प्रियं प्रियाः ॥२१॥
न पारये अहम् निरवद्य-संयुजाम्
स्व-साधु-कृत्यम् विबुध-आयुषा अपि वः।
या माम् अभजन् दुर्जर-गृह-शृङ्खलाः
संवृश्च्य तत् वः प्रतियातु साधुना ॥२२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां
गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ 32 ॥
No comments:
Post a Comment