Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 29 (கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 29


श्री शुक उवाच –
भगवान् अपि ताः रात्रीः शरत्-उत्फुल्ल-मल्लिकाः।
वीक्ष्य रन्तुम् मनः चक्रे योगमायाम् उपाश्रितः॥ 1

तत् ऊडु-राजः ककुभः करैः मुखम्
प्राच्या विलिम्पन् अरुणेन शान्तमैः।
सः अर्षणीनाम् उदगात् शुचः मृजन्
प्रियः प्रियायाः इव दीर्घ-दर्शनः॥ 2

दृष्ट्वा कुमुद-व्रतम् अखण्ड-मण्डलम्
रमा-ननाभम् नव-कुङ्कुम-अरुणम्।
वनम् च तत् कोमल-गोभी रञ्जितम्
जगौ कलम् वाम-दृशाम् मनोहरम्॥ 3

निशम्य गीतम् तत् अनङ्ग-वर्धनम्
व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः।
आजग्मुः अन्योन्यम् अलक्षित-उद्यमाः
सः यत्र कान्तः जवलोल-कुण्डलः॥ 4

दुहन्त्यः अभिययुः काश्चित् दोहम् हित्वा समुत्सुकाः।
पयः अधिश्रित्य संयावम् अनुद्वास्य अपराः ययुः॥ 5

परिवेषयन्त्यः तत् हित्वा पाययन्त्यः शिशून् पयः।
शुश्रूषन्त्यः पतीन् काश्चित् अश्नन्त्यः अपास्य भोजनम्॥ 6

लिम्पन्त्यः प्रमृजन्त्यः अन्याः अञ्जन्त्यः काश्चित् लोचने।
व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्ण-अन्तिकम् ययुः॥ 7

ताः वार्यमाणाः पतिभिः पितृभिः भ्रातृ-बन्धुभिः।
गोविन्द-अपहृत-आत्मानः न न्यवर्तन्त मोहिताः॥ 8

अन्तर्गृह-गताः काश्चित् गोप्यः अलब्ध-विनिर्गमाः।
कृष्णम् तत्-भावना-युक्ताः दध्युः मीलित-लोचनाः॥ 9

दुःसह-प्रेष्ठ-विरह-तीव्र-ताप-धुत-अशुभाः।
ध्यान-प्राप्त-अच्युत-आश्लेष-निर्वृत्या क्षीण-मङ्गलाः॥ 10

तम् एव परम-आत्मानम् जार-बुद्ध्या अपि सङ्गताः।
जहुः गुण-मयम् देहम् सद्यः प्रक्षीण-बन्धनाः॥ 11

राजा उवाच -
कृष्णम् विदुः परम् कान्तम् न तु ब्रह्म-तया मुने।
गुण-प्रवाह-उपरमः तासाम् गुण-धियाम् कथम्॥ 12

श्री-शुकः उवाच -
उक्तम् पुरस्तात् एतत् ते चैद्यः सिद्धिम् यथा गतः।
द्विषन् अपि हृषीकेशम् किम् उत आधोक्षज-प्रियाः॥ 13

नृणाम् निःश्रेयस-अर्थाय व्यक्तिः भगवतः नृप।
अव्ययस्य अप्रमेयस्य निर्गुणस्य गुण-आत्मनः॥ 14

कामम् क्रोधम् भयम् स्नेहम् ऐक्यम् सौहृदम् एव च।
नित्यम् हरौ विदधतः यान्ति तत्-मयताम् हि ते॥ 15

न च एवम् विस्मयः कार्यः भवता भगवति अज।
योग-ईश्वर-ईश्वरे कृष्णे यत् एतत् विमुच्यते॥ 16

ताः दृष्ट्वा अन्तिकम् आयाताः भगवान् व्रज-योषितः।
अवदत् वदताम् श्रेष्ठः वाचः पेशैः विमोहयन्॥ 17

श्री-भगवान् उवाच -
स्वागतम् वः महा-भागाः प्रियम् किम् करवाणि वः।
व्रजस्य अनामयम् कच्चित् ब्रूत आगमन-कारणम्॥ 18

रजनिः एषा घोर-रूपा घोर-सत्त्व-निषेविता।
प्रतियात व्रजम् न इह स्थेयम् स्त्रीभिः सु-मध्यमाः॥ 19

मातरः पितरः पुत्राः भ्रातरः पतयः च वः।
विचिन्वन्ति हि अपश्यन्तः मा कृध्वम् बन्धु-साध्वसम्॥ 20

दृष्टम् वनम् कुसुमितम् राके-इश-करे-रञ्जितम्।
यमुना-अनिल-लील-इजत् तरु-पल्लव-शोभितम्॥ 21

तत् यात माचिरम् गोष्ठम् शुश्रूषध्वम् पतीन् सतीः।
क्रन्दन्ति वत्साः बालाः च तान् पाययत दुह्यत॥ 22

अथवा मत्त्-अभिस्नेहात् भवत्यः यन्त्रित-आशयाः।
आगताः हि उपपन्नम् वः प्रीयन्ते मयि जन्तवः॥ 23

भर्तुः शुश्रूषणम् स्त्रीणाम् परः धर्मः हि अमायया।
तत्-बन्धूनाम् च कल्याण्यः प्रजानाम् च अनु-पोषणम्॥ 24

दुःशीलः दुर्भगः वृद्धः जडः रोगी-अधनः अपि वा।
पतिः स्त्रीभिः न हातव्यः लोक-इप्सुभिः अपातकी॥ 25

अस्वर्ग्यम् अयशस्यम् च फल्गु कृच्छ्रम् भयावहम्।
जुगुप्सितम् च सर्वत्र औपपत्यं कुल-स्त्रियः॥ 26

श्रवणात् दर्शनात् ध्यानात् मयि भावः अनु-कीर्तनात्।
न तथा सन्निकर्षेण प्रतियात ततः गृहान्॥ 27

श्री-शुकः उवाच -
इति विप्रियम् आकर्त्य गोप्यः गोविन्द-भाषितम्।
विषण्णाः भग्न-सङ्कल्पाः चिन्ताम् आपुः दुरत्ययाम्॥ 28

कृत्वा मुखानि अवशुचः श्वसनेन शुष्यत्
बिम्ब-अधराणि चरणेन भुवम् लिखन्त्यः।
अस्रैः उपात्त-मषिभिः कुच-कुङ्कुमानि
तस्थुः मृजन्त्यः उरु-दुःख-भराः स्म तूष्णीम्॥ 29

प्रेष्ठम् प्रिय-इतरम् इव प्रतिभाषमाणम्
कृष्णम् तत्-अर्थ-विनिवर्तित-सर्व-कामाः।
नेत्रे विमृज्य रुदित-उपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरः अब्रुवत अनुरक्ताः॥ 30

श्री-गोप्यः ऊचुः –
मा एवम् विभो अर्हति भवान् गदितुम् नृशंसम्
सन्त्यज्य सर्व-विषयान् तव पाद-मूलम्।
भक्ताः भजस्व दुरवग्रह मा त्यज अस्मान्
देवः यथा आदि-पुरुषः भजते मुमुक्षून्॥ 31

यत्-पति-अपत्सुहृदाम् अनुवृत्तिः अङ्ग
स्त्रीणाम् स्व-धर्मः इति धर्म-विदा त्वया उक्तम्।
अस्तु एवम् एतत् उपदेश-पदे त्वयि ईशे
प्रेष्ठः भवाम् तनु-भृताम् किल बन्धुः आत्मा॥ 32

कुर्वन्ति हि त्वयि रतिम् कुशलाः स्व-आत्मन्
नित्य-प्रिये पति-सुत-आदिभिः आर्तिदैः किम्।
तत् नः प्रसीद परम-ईश्वर मा स्म छिन्ध्याः
आशाम् भृताम् त्वयि चिरात् अरविन्द-नेत्र॥ 33

चित्तम् सुखेन भवत-आपहृतम् गृहेषु
यत् निर्विशति उत करौ अपि गृह्य-कृत्ये।
पादौ पदम् न चलतः तव पाद-मूलात्
यामः कथम् व्रजम् अथो करवाम किम् वा॥ 34

सिञ्च अङ्ग नः त्वत्-अधर-अमृत-पूर-केण
हास-अवलोक-कल-गीत-ज-हृच्-छया-अग्निम्।
नः चेत् वयम् विरह-ज-अग्नि-उपयुक्त-देहाः
ध्यानेन याम पदयोः पदवीम् सखे ते॥ 35

यः हि अंबुज-आक्ष तव पाद-तलम् रमायाः
दत्त-क्षणम् क्वचित् अरण्य-जन-प्रियस्य।
अस्प्राक्ष्म तत्-प्रभृति न अन्य-समक्षम् अङ्ग
स्थातुम् त्वया अभिरमिता बत पारयामः॥ 36

श्रीः यत्-पद-अम्बुज-रजः चकमे तुलस्याः
लब्ध्वा अपि वक्षसि पदम् किल भृत्य-जुष्टम्।
यस्याः स्व-वीक्षण-कृते अन्य-असुर-प्रयासः
तत्-वत् वयम् च तव पाद-रजः प्रपन्नाः॥ 37

तत् नः प्रसीद वृजिन-अर्दन ते अङ्घ्रि-मूलम्
प्राप्ताः विसृज्य वसतीः त्वत्-उपासना-आशाः।
त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम
तप्त-आत्मनाम् पुरुष-भूषण देहि दास्यम्॥ 38

वीक्ष्य आलक-आवृत-मुखम् तव कुण्डल-श्री
गण्ड-स्थल-अधर-सुधाम् हसित-अवलोकम्।
दत्त-अभयम् च भुज-दण्ड-युगम् विलोक्य
वक्षः श्रियः एक-रमणम् च भवाम दास्यः॥ 39

का स्त्री अङ्ग ते कल-पद-आयत-मूर्छितेन
सम्मोहिता आर्य-चरितात् न चलेत् त्रि-लोक्याम्।
त्रैलोक्य-सौभगम् इदम् च निरीक्ष्य रूपम्
यत् गो-द्विज-द्रुम-मृगाः पुलकानि अबिभ्रन्॥ 40

व्यक्तं भवान् व्रज-भय-आर्ति-हरः अभिजातः
देवः यथा आदि-पुरुषः सुर-लोक-गोप्ता।
तत् नः निधेहि कर-पङ्कजम् आर्त-बन्धो
तप्त-स्तनेषु च शिरःसु च किङ्करीणाम्॥ 41

श्री-शुकः उवाच –
इति विक्लवितम् तासाम् श्रुत्वा योग-ईश्वर-ईश्वरः।
प्रहस्य स-अदयं गोपीः आत्मा-रामः अपि अरीरमत्॥ 42

ताभिः समेताभिः उदार-चेष्टितः
प्रिये-क्षण-उत्फुल्ल-मुखीभिः अच्युतः।
उदार-हास-द्विज-कुन्द-दीधतिः
व्यरोचत ऐण-अङ्कः इव उडुभिः वृतः॥ 43

उपगीयमानः उद्गायन् वनिता-शत-यूथपः।
मालाम् बिभ्रत् वैजयन्तीम् व्यचरत् मण्डयन् वनम्॥ 44

नद्याः पुलिनम् आविश्य गोपीभिः हिम-वालुकम्।
रेमे तत्-तरल-आनन्द-कुमुद-आमोद-वायुना॥ 45

बाहु-प्रसार-परिरम्भ-कर-आलका-उरु
नीवी-स्तन-आलभन-नर्म-नख-अग्र-पातैः।
क्ष्वेलि-आवलोक-हसितैः व्रज-सुन्दरीणाम्
उत्तम्भयन् रति-पतिम् रमयाञ्चकार॥ 46

एवम् भगवतः कृष्णात् लब्ध-मानाः महा-आत्मनः।
आत्मानम् मेनिरे स्त्रीणाम् मानिन्यः अभ्यधिकम् भुवि॥ 47

तासाम् तत् सौभग-मदम् वीक्ष्य मानम् च केशवः।
प्रशमाय प्रसादाय तत्र एव अन्तरधीयत॥ 48॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोन्त्रिंशोऽध्यायः ॥ 29 ॥

No comments: