Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 28 (நந்தகோபரை கண்ணன் காக்கிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நந்தகோபரை கண்ணன் காக்கிறான்

ஸ்கந்தம் 10: அத்யாயம் 28


श्री शुक उवाच
एकादश्याम् निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दः तु कालिन्द्याम् द्वादश्याम् जलम् आविशत् ॥ 1

तम् गृहीत्वा अनयत् भृत्यः वरुणस्य असुरः अन्तिकम् ।
अविज्ञाय असुरीम् वेलाम् प्रविष्टम् उदकम् निशि ॥ 2

चुक्रुशुः तम् अपश्यन्तः कृष्ण राम इति गोपकाः ।
भगवान् तत् उपश्रुत्य पितरम् वरुण आहृतम्
तत् अन्तिकम् गतः राजन् स्वानाम् अभयदः विभुः ॥ 3

प्राप्तम् वीक्ष्य हृषीकेशम् लोकपालः सपर्यया ।
महत्या पूजयित्वा आह तत् दर्शन महोत्सवः ॥ 4

श्री वरुण उवाच
अद्य मे निभृतः देहः अद्य एव अर्थः अधिगतः प्रभो ।
त्वत् पाद-भाजः भगवन् अवापुः पारम् अध्वनः ॥ 5

नमः तुभ्यम् भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥ 6

अजानता मामकेन मूढेन अकार्य वेदिना ।
आनीतः अयम् तव पिता तत् भवान् क्षन्तुम् अर्हति ॥ 7

मम अपि अनुग्रहम् कृष्ण कर्तुम् अर्हसि अशेष-दृक् ।
गोविन्द नीयताम् एषः पिता ते पितृवत्सल ॥ 8

श्री शुक उवाच
एवम् प्रसादितः कृष्णः भगवान् ईश्वर-ईश्वरः ।
आदाय अगात् स्व-पितरम् बन्धूनाम् च आवहन् मुदम् ॥ 9

नन्दः तु अतीन्द्रियम् दृष्ट्वा लोकपालम् महा-उदयम् ।
कृष्णे च सन्नतिम् तेषाम् ज्ञातिभ्यः विस्मितः अब्रवीत् ॥ 10

ते तु औत्सुक्य-धियः राजन् मत्वा गोपाः तम् ईश्वरम्।
अपि नः स्व-गतिम् सूक्ष्माम् उपाधास्यति अधीश्वरः॥ 11

इति स्वानाम् सः भगवान् विज्ञाय अखिल-दृक् स्वयम्।
सङ्कल्प-सिद्धये तेषाम् कृपया एतत् अचिन्तयत्॥ 12

जनः वै लोके एतस्मिन् अविद्या-काम-कर्मभिः।
उच्चावचासु गतिषु न वेद स्वाम् गतिम् भ्रमन्॥ 13

इति सञ्चिन्त्य भगवान् महा-कारुणिकः हरिः।
दर्शयामास लोकम् स्वम् गोपानाम् तमसः परम्॥ 14

सत्यम् ज्ञानम् अनन्तम् यत् ब्रह्म ज्योतिः सनातनम्।
यत् हि पश्यन्ति मुनयः गुण-अपाये समाहिताः॥ 15

ते तु ब्रह्म-ह्रदम् नीताः मग्नाः कृष्णेन च उद्धृताः।
ददृशुः ब्रह्मणः लोकम् यत्र आक्रूरः अध्यगात् पुरा॥ 16

नन्द-आदयः तु तम् दृष्ट्वा परम-आनन्द-निर्वृताः।
कृष्णम् च तत्र छन्दोभिः स्तूयमानम् सुविस्मिताः॥ 17

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः॥28॥

No comments: