Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 21 (கண்ணன் குழலின் அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் குழலின் அழகு

ஸ்கந்தம் 10: அத்யாயம் 21

श्री शुक उवाच


इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।

न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥


कुसुमित-वन-राजि-शुष्मि-भृङ्ग

द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।

मधु-पतिः अवगाह्य चारयन् गाः

सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥


तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥


तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।

नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥


बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्

बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।

रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः

वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥


इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।

श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥



---


श्री-गोप्यः ऊचुः


अक्षण्वतां फलम् इदम् न परं विदामः

सख्यः पशून् अनु विवेशयतोः वयस्यैः।

वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं

यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥


चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज

माला-अनुपृक्त-परिधान-विचित्र-वेषौ।

मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्

रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥


गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः

दामोदर अधर-सुधाम् अपि गोपिकानाम्।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः

हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥


वृन्दावनं सखि भुवः वितनोति कीर्तिम्

यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।

गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं

प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥


धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः

याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।

आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः

पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥


कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं

श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।

देव्यः विमान-गतयः स्मर-उन्न-साराः

भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥


गावः च कृष्ण-मुख-निर्गत-वेणु-गीत

पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।

शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः

गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥


प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्

कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्

श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥


नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्

आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।

आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः

गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥


दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः

सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।

प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः

सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥


पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।

तत्-दर्शन-स्मर-रुजः तृण-रूषितेन

लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥


हन्त अयम् अद्रिः अबला हरि-दास-वर्यः

यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।

मानं तनोति सह-गोगणयोः तयोः यत्

पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥


गा-गोपकैः अनु वनं नयतोः उदार

वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।

अस्पन्दनं गतिमतां पुलकः तरुणां

**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥


एवं-विदाः भगवतः या वृन्दावन-चारिणः।

वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ 21 ॥

No comments: