காளிங்கன் சரித்திரம்
ஸ்கந்தம் 10: அத்யாயம் 17
श्रीराजा उवाच।
नागालयं रमणकं कस्मात् तत्याज कालियः।
कृतं किं वा सुपर्णस्य तेन एकेन असमञ्जसम्॥ 1॥
श्रीशुक उवाच।
उपहार्यैः सर्प-जनैः मासि मासि इह यः बलिः।
वानस्पत्यः महाबाहो नागानां प्राक् निरूपितः॥ 2॥
स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि।
गोपीथाय आत्मनः सर्वे सुपर्णाय महात्मने॥ 3॥
विष-वीर्य-मदाविष्टः काद्रवेयः तु कालियः।
कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्॥ 4॥
तत् श्रुत्वा कुपितः राजन् भगवान् भगवत्-प्रियः।
विजिघांसुः महावेगः कालियं समुपाद्रवत्॥ 5॥
तम् आपतन्तं तरसा विषायुधः
प्रत्यभ्ययात् उच्छ्रित-नेक-मस्तकः।
तद्भिः सुपर्णं व्यदशत् ददायुधः
कराल-जिह्र-उच्छ्वसित-उग्र-लोचनः॥ 6॥
तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान्
प्रचण्ड-वेगः मधुसूदन-आसनः।
पक्षेण सव्येन हिरण्य-रोचिषा
जघान कद्रु-सुतम् उग्र-विक्रमः॥ 7॥
सुपर्ण-पक्ष-अभिहतः कालियः अतीव विह्वलः।
ह्रदं विवेश कालिन्द्याः तद् अगम्यं दुरासदम्॥ 8॥
तत्र एकदा जलचरं गरुडः भक्ष्यम् ईप्सितम्।
निवारितः सौभरिणा प्रसह्य क्षुधितः अहरत्॥ 9॥
मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते।
कृपया सौभरिः प्राह तत्रत: अक्षमम् आचरन्॥ 10॥
अत्र प्रविश्य गरुडः यदि मत्स्यान् स खादति।
सद्यः प्राणैः वियुज्येत सत्यं एतद् ब्रवीम्यहम्॥ 11॥
तं कालियः परं वेद न अन्यः कश्चन लेलिहः।
अवात्सीत् गरुडात् भीतः कृष्णेन च विवासितः॥ 12॥
कृष्णं ह्रदात् विनिष्क्रान्तं दिव्य-स्रक्-गन्ध-वासनम्।
महामणि-गण-आकीर्णं जाम्बूनद-परिष्कृतम्॥ 13॥
उपलब्ध्य उत्थिताः सर्वे लब्ध-प्राणाः इव असवः।
प्रमोद-निभृत-आत्मानः गोपाः प्रीत्या अभिरेभिरे॥ 14॥
यशोदा रोहिणी नन्दः गोप्यः गोपाः च कौरव।
कृष्णं समेत्य लब्धेहाः आसन् लब्ध-मनोरथाः॥ 15॥
रामः च अच्युतम् आलिङ्ग्य जहास अस्य अनुभाववित्।
नगाः गावः वृषाः वत्साः लेभिरे परमां मुदम्॥ 16॥
नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः।
ऊचुः ते कालिय-ग्रस्तः दिष्ट्या मुक्तः तव आत्मजः॥ 17॥
देहि दानं द्विजातीनां कृष्ण-निर्मुक्ति-हेतवे।
नन्दः प्रीत-मना राजन् गाः सुवर्णं तद् आदिशत्॥ 18॥
यशोदा अपि महाभागा नष्ट-लब्ध-प्रजा सती।
परिष्वज्य अङ्कम् आरोप्य मुमोच अश्रु-कलां मुहुः॥ 19॥
तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्-भ्यां श्रम-कर्षिताः।
ऊषुः व्रज-औकसः गावः कालिन्द्या उपकूलतः॥ 20॥
तदा शुचि-वनोद्भूतः दावाग्निः सर्वतः व्रजम्।
सुप्तं निशीथे आवृत्य प्रदग्धुम् उपचक्रमे॥ 21॥
ततः उत्थाय सम्भ्रान्ताः दह्यमानाः व्रज-औकसः।
कृष्णं ययुः ते शरणं मायाम् अनुजम् ईश्वरम्॥ 22॥
कृष्ण कृष्ण महा-भाग हे राम अमित-विक्रम।
एषः घोर-तमः वह्निः तावकान् ग्रसते हि नः॥ 23॥
सुदुस्तरात् नः स्वान् पाहि काल-अग्नेः सुहृदः प्रभो।
न शक्नुमः तव अचरणं संत्यक्तुम् अकुतो-भयम्॥ 24॥
इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगत्-ईश्वरः।
तम् अग्निम् अपिबत् तीव्रम् अनन्तः अनन्त-शक्ति-धृक्॥ 25॥
No comments:
Post a Comment