Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 15 (தேனுகன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 தேனுகன் மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 15

श्रीशुक उवाच

ततः च पौगण्ड वयः श्रितौ व्रजे

बभूवतुः तौ पशुपाल सम्मतौ।

गाः चारयन्तौ सखिभिः समं पदैः

बृन्दावनं पुण्यम् अतीव चक्रतुः॥ 1


तन् माधवः वेणुम् उदीरयन् वृतः

गोपैः गृणद्भिः स्वयशः बलान्वितः।

पशून् पुरस्कृत्य पशव्यम् आविशत्

विहर्तुकामः कुसुमाकरं वनम्॥ 2


तन् मञ्जुघोष आलिमृग द्विजाकुलं

महान् मनः प्रख्य पयः सरस्वता।

वातेन जुष्टं शतपत्र गन्धिना

निरीक्ष्य रन्तुं भगवान् मनः दधे॥ 3


स तत्र तत्र अरुण पल्लव श्रिया

फल प्रसून उरु भरेण पादयोः।

स्पृशत् शिखान् वीक्ष्य वनस्पतीन् मुदा

स्मयन् इव आह अग्रजम् आदिपूरुषः॥ 4


श्रीभगवान् उवाच

अहो अमी देव वर अमर अर्चितं

पादाम्बुजं ते सुमनः फल अर्हणम्।

नमन्ति उपादाय शिखाभिः आत्मनः

तमः अपहत्यै तरुजन्म यत् कृतम्॥ 5


एते अलिनः तव यशः अखिल लोक तीर्थं

गायन्ति आदिपुरुष अनुपथं भजन्ते।

प्रायः अमी मुनिगणाः भवदीय मुख्याः

गूढं वने अपि न जहति अनघ आत्मदैवम्॥ 6


नृत्यन्ति अमी शिखिनः ईड्य मुदा

हरिण्यः कुर्वन्ति गोप्य इव ते प्रिय मीक्षणेन।

सूक्तैः च कोकिलगणाः गृहमागताय

धन्याः वनौकसः इयान् हि सतां निसर्गः॥ 7


धन्या इयम् अद्य धरणी तृण वीरुधः

त्वत् पाद स्पृशः द्रुमलताः करज अभिमृष्टाः।

नद्यः अद्रयः खगमृगाः सदयावलोकैः

गोप्यः अन्तरेण भुजयोः अपि यत् स्पृहा श्रीः॥ 8


श्रीशुक उवाच

एवं बृन्दावनं श्रीमत् कृष्णः प्रीतमनाः

पशून् रेमे सञ्चारयन् अद्रेः सरित् रोधःसु सानुगः॥ 9


क्वचित् गायति गायत्सु मदान्ध आलिषु अनुव्रतैः।

उपगीयमान चरितः स्र्ग्वी सङ्कर्षण अन्वितः॥ 10


क्वचित् च कालहंसानाम् अनु कूजति कूजितम्।

अभि नृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित्॥ 11


मेघगम्भीरया वाचा नामभिः दूरगान् पशून्।

क्वचित् आह्वयति प्रीत्या गो गोपाल मनोज्ञया॥ 12


चकोर क्रौञ्च चक्राह्व भारद्वाजान् च बर्हिणः।

अनुरौति स्म सत्त्वानां भीतवत् व्याघ्रसिंहयोः॥ 13


क्वचित् क्रीडा परिश्रान्तं गोपोत्सङ्ग उपबर्हणम्।

स्वयं विश्रमयति आर्यं पादसंवाहन आदिभिः॥ 14


नृत्यतः गायतः क्वापि वल्गतः युध्यतः मिथः।

गृहीत हस्तौ गोपालान् हसन्तौ प्रशशंसतुः॥ 15


क्वचित् पल्लवतल्पेषु नियुद्ध श्रमकर्शितः।

वृक्षमूल आश्रयः शेते गोपोत्सङ्ग उपबर्हणः॥ 16


पादसंवाहनं चक्रुः केचित् तस्य महात्मनः।

अपरे हतपाप्मानः व्यजनैः समवीजयन्॥ 17


अन्ये तद् अनुरूपाणि मनोज्ञानि महात्मनः।

गायन्ति स्म महाराज स्नेहक्लिन्न धियः शनैः॥ 18


एवं निगूढ आत्म गतिः स्वमायया

गोपात्मजत्वं चरितैः विडम्बयन्।

रेमे रमा लालित पाद पल्लवः

ग्राम्यैः समं ग्राम्यवत् ईश चेष्टितः॥ 19


श्रीदामा नाम गोपालः राम केशवयोः सखा।

सुबलः तोककृष्ण आद्याः गोपाः प्रेम्णा इदम् अब्रुवन्॥ 20


राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण।
इत: अविदूरे सुमहत् वनं ताल-आलि-सङ्कुलम्॥ 21

फलानि तत्र भूरीणि पतन्ति पतितानि च।
सन्ति किन्तु अवरुद्धानि धेनुकेन दुरात्मना॥ 22

स: अति-वीर्य: असुर: राम हे कृष्ण खर-रूप-धृक्।
आत्म-तुल्य-बलै: अन्यै: ज्ञातिभि: बहुभि: वृत:॥ 23

तस्मात् कृत-नर-आहारात् भीतै: नृभि: अमित्रहन्।
न सेव्यते पशु-गणै: पक्षि-सङ्घै: विवर्जितम्॥ 24

विद्यन्ते अभुक्त-पूर्वाणि फलानि सुरभीणि च।
एष वै सुरभि: गन्ध: विषूचीन: अवगृह्यते॥ 25

प्रयच्छ तानि न: कृष्ण गन्ध-लोभित-चेतसाम्।
वाञ्छा अस्ति महती राम गम्यतां यदि रोचते॥ 26

एवं सुहृद्-वच: श्रुत्वा सुहृत्-प्रिय-चिकीर्षया।
प्रहस्य जग्मतुर् गोपै: वृतौ ताल-वनं प्रभू॥ 27

बल: प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन्।
फलानि पातयामास मतङ्गज: इव ओजसा॥ 28

फलानां पततां शब्दं निशम्य असुर-रासभ:।
अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन्॥ 29

समेत्य तरसा प्रत्यक्-द्वाभ्यां पद्भ्यां बलं बली।
निहत्य उरसि काशब्दं मुञ्चन् पर्यसरत् खल:॥ 30

पुन: आसाद्य संरब्ध उपक्रोष्टा पराक् स्थित:।
चरणौ अपरौ राजन् बलाय प्राक्षिपद् रुषा॥ 31

स तं गृहीत्वा प्रपदो: भ्रामयित्वा एक-पाणिना।
चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम्॥ 32

तेन आहत: महा-ताल: वेपमान: बृहत्-शिरा:।
पार्श्व-स्थं कम्पयन् भग्न: स च अन्यं स: अपि च अपरम्॥ 33

बलस्य लीला-या उत्सृष्ट खर-देह-हत-आहताः।
तालाः च कम्पिरे सर्वे महा-वा-त-इरिता इव॥ 34

न एतत् चित्रं भगवति हि अनन्ते जगद्-ईश्वरे।
ओत-प्रोतम् इदं यस्मिन् तन्तुषु अङ्ग यथा पट:॥ 35

तत: कृष्णं च रामं च ज्ञातय: धेनुकस्य ये।
क्रोष्टार: अभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः॥ 36

तान् तान् आपतत: कृष्ण: राम: च नृप लीलया।
गृहीत-पश्चात्-चरणान् प्राहिणोत् तृण-राजसु॥ 37

फल-प्रकर-सङ्कीर्णं दैत्य-देहै: गत-आसुभि:।
रराज भू: स-ताल-आग्रै: घनै: इव नभस्तलम्॥ 38

तयो: तत् सुमहत् कर्म निशम्य विबुध-आदय:।
मुमुचु: पुष्प-वर्षाणि चक्रु: वाद्यानि तुष्टुवु:॥ 39

अथ ताल-फलानि आदन् मनुष्या गत-साध्वसाः।
तृणं च पशव: चेरु: हत-धेनुक-कानने॥ 40


कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः। स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत्॥ 41 तं गोरजश्छुरितकुन्तलबद्धबर्ह वन्यप्रसूनरुचिरेक्षणचारुहासम्। वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः॥ 42 पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस् तापं जहुर्विरहजं व्रजयोषितोऽह्नि। तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम्॥ 43 तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले। यथाकामं यथाकालं व्यधत्तां परमाशिषः॥ 44 गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः। नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ॥ 45 जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ। संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे॥ 46 एवं स भगवान् कृष्णो बृन्दावनचरः क्वचित्। ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः॥ 47 अथ गावश्च गोपाश्च निदाघातपपीडिताः। दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम्॥ 48 विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः। निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह॥ 49 वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः। ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत्॥ 50 ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात्। आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम्॥ 51 अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम्। पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः॥ 52

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः ॥ 15

No comments: