நள-கூபர சாப
விமோசனம்
ஸ்கந்தம் 10: அத்யாயம் 10
श्रीराज उवाच।
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम्।
यत् तत् विगर्हितं कर्म येन वा देवर्षेः तमः ॥ १ ॥
श्रीशुक उवाच।
रुद्रस्य अनुचरौ भूत्वा सुदृप्तौ धनद-आत्मजौ।
कैलास-उपवने रम्ये मन्दाकिन्यां मद-उत्कटौ ॥ २ ॥
वारुणीं मदिरां पीत्वा मद-अघूर्णित-लोचनौ।
स्त्री-जनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥
अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि।
चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥
यदृच्छया च देवर्षिः भगवान् तत्र कौरव।
अपश्यन् नारदः देवौ क्षीब-आणौ समबुध्यत ॥ ५ ॥
तं दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥
तौ दृष्ट्वा मदिरा-मत्तौ श्रीमद-अन्धौ सुर-आत्मजौ।
तयोः अनुग्रह-अर्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥
श्री-नारद उवाच।
न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः।
श्रीमद-आद अभिजात्य-आदि यत्र स्त्री द्यूतम् आसवः ॥ ८ ॥
हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः।
मन्यमानैः इमं देहम् अजर-अमृत्यु नश्वरम् ॥ ९ ॥
देव-संज्ञितम् अपि अन्ते कृमि-विट्-भस्म-संज्ञितम्।
भूत-धृक् तत्-कृते स्वार्थं किं वेद निरयः यतः ॥ १० ॥
देहः किम् अन्न-दातुः स्वं निषेक्तुः मातुः एव च।
मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा ॥ ११ ॥
एवं साधारणं देहम् अव्यक्त-प्रभव-अप्ययम्।
कः विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते असतः ॥ १२ ॥
असतः श्रीमद-अन्धस्य दारिद्र्यं परम-अञ्जनम्।
आत्म-औपम्येन भूतानि दरिद्रः परम-ईक्षते ॥ १३ ॥
यथा कण्टक-विद्ध-अङ्गः जन्तुः न इच्छति तां व्यथाम्।
जीव-साम्यं गतः लिङ्गैः न तथा अविद्ध-कण्टकः ॥ १४ ॥
दरिद्रः निर-अहं-स्तम्भः मुक्तः सर्व-मदैः इह।
कृच्छ्रं यदृच्छया आप्नोति तत् हि तस्य परं तपः ॥ १५ ॥
नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्य अन्न-काङ्क्षिणः।
इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते ॥ १६ ॥
दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः।
सद्भिः क्षिणोति तं तर्षं ततः आरात् विशुद्ध्यति ॥ १७ ॥
साधूनां सम-चित्तानां मुकुन्द-चरण-ऐषिणाम्।
उपेक्ष्यैः किं धन-स्तम्भैः असद्भिः असद-आश्रयैः ॥ १८ ॥
तत् अहं मत्तयोः माध्व्या वारुण्या श्रीमद-अन्धयोः।
तमः-मदं हरिष्यामि स्त्रैणयोः अजित-आत्मनोः ॥ १९ ॥
यदि इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ २० ॥
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः।
स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्छते।
वृत्ते स्वर्लोकतां भूयः लब्ध-भक्ती भविष्यतः ॥ २२ ॥
श्रीशुक उवाच।
एवम् उक्त्वा स देवर्षिः गतो नारायणाश्रमम्।
नलकूबर-मणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥
ऋषेः भागवत-मुख्यस्य सत्यं कर्तुं वचः हरिः।
जगाम शनकैः तत्र यत्र आस्तां यमलार्जुनौ ॥ २४ ॥
देवर्षिः मे प्रियतमः यदि इमौ धनद-आत्मजौ।
तत् तथा साधयिष्यामि यत् गीतं तत् महात्मना ॥ २५ ॥
इत्यन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ २६ ॥
बालेन निष्कर्षयता अन्वग्-उलूखलं तत्
दामोदरेण तरसा उत्कलित-अङ्घ्रि-बन्धौ।
निष्पेततुः परम-विक्रमित-आति-वेप
स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ २७ ॥
तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धौ उपेत्य कुजयौ इव जातवेदाः।
कृष्णं प्रणम्य शिरसा अखिल-लोक-नाथं
बद्धाञ्जली विरजसौ इदम् ऊचतुः स्म ॥ २८ ॥
कृष्ण कृष्ण महायोगिन् त्वम् आद्यः पुरुषः परः।
व्यक्त-अव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणाः विदुः ॥ २९ ॥
त्वम् एकः सर्व-भूतानां देह-स्वात्म-इन्द्रिय-ईश्वरः।
त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः ॥ ३० ॥
त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमो-मयी।
त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ ३१ ॥
गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः।
कः नु अर्हति विज्ञातुं प्राक्-सिद्धं गुण-संवृतः ॥ ३२ ॥
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे।
आत्म-द्योत-गुणैः छन्न-महिम्ने ब्रह्मणे नमः ॥ ३३ ॥
यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः।
तैः तैः अतुल्य-अतिशयैः वीर्यैः देहिषु असङ्गतैः ॥ ३४ ॥
सः भवान् सर्व-लोकस्य भवाय विभवाय च।
अवतीर्णः अंश-भागेन साम्प्रतं पतिः आशिषाम् ॥ ३५ ॥
नमः परम-कल्याण नमः परम-मङ्गल।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥
अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ।
दर्शनं नौ भगवत ऋषेः आसीत् अनुग्रहात् ॥ ३७ ॥
वाणी गुण-अनुकथने श्रवणौ कथायाम्
हस्तौ च कर्मसु मनः तव पादयोः नः।
स्मृत्यां शिरः तव निवास-जगत्-प्रणामे
दृष्टिः सतां दर्शने अस्तु भवत्-तनूनाम् ॥ ३८ ॥
श्रीशुक उवाच।
इत्थं सङ्कीर्तितः ताभ्यां भगवान् गोकुलेश्वरः।
दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ ॥ ३९ ॥
श्रीभगवानुवाच।
ज्ञातं मम पुरा एव एतत् ऋषिणा करुणात्मना।
यत् श्रीमद-अन्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः ॥ ४० ॥
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्।
दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा॥ ४१ ॥
तद् गच्छतं मत्परमौ नलकूबर सादनम्।
सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः॥ ४२ ॥
श्रीशुक उवाच।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः।
बद्ध-उलूखलम् आमन्त्र्य जग्मतुर्दिशम् उत्तराम्॥ ४३ ॥