அக்ரூரர் பிருந்தாவனம் வருகை
ஸ்கந்தம் 10: அத்யாயம் 38
श्री शुक उवाच –
अक्रूरः अपि च ताम् रात्रिम् मधुपुर्याम् महामतिः ।
उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ १ ॥
गच्छन् पथि महाभागः भगवति अम्बुज-ईक्षणे ।
भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत् ॥ २ ॥
किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः ।
किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम् ॥ ३ ॥
मम एतत् दुर्लभम् मन्ये उत्तम-श्लोक-दर्शनम् ।
विषय-आत्मनः यथा ब्रह्म-कीर्तनम् शूद्र-जन्मनः ॥ ४ ॥
मा एवम् मम अधमस्य अपि स्यात् एव अच्युत-दर्शनम् ।
ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ ५ ॥
मम आद्य-अङ्गलम् नष्टम् फलवान् च एव मे भवः ।
यत् नमस्ये भगवतः योगि-ध्येय-अङ्घ्रि-पङ्कजम् ॥ ६ ॥
कंसः बत आद्या अक्रत् मे अति-अनुग्रहम् ।
द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः ॥
कृत-अवतारस्य दुरत्ययम् तमः ।
पूर्वे अतरण् यत् नख-मण्डल-त्विषा ॥ ७ ॥
यत् अर्चितम् ब्रह्म-भव-आदिभिः सुरैः ।
श्रिया च देव्या मुनिभिः स-सात्वतैः ॥
गो-चारणाय अनुचरैः चरत् वने ।
यत् गोपिकानाम् कुच-कुङ्कुम-अङ्कितम् ॥ ८ ॥
द्रक्ष्यामि नूनम् सु-कपोल-नासिकम् ।
स्मित-अवलोक-अरुण-कञ्ज-लोचनम् ॥
मुखम् मुकुन्दस्य गुड-आलक-आवृतम् ।
प्रदक्षिणम् मे प्रचरन्ति वै मृगाः ॥ ९ ॥
अपि अद्य विष्णोः मनुजत्वम् ईयुषः ।
भार-अवताराय भुवः निज-इच्छया ॥
लावण्य-धाम्नः भविता उपलम्भनम् ।
मह्यम् न न स्यात् फलम् अञ्जसा दृशः ॥ १० ॥
यः ईक्षित-अहम्-रहितः अपि असत्-सतः ।
स्व-तेजसा अपास्त-तमः अभिदा-अभ्रमः ॥
स्व-मायया आत्मन् रचितैः तत्-ईक्षया ।
प्राण-अक्ष-धीभिः सदनेषु अभीयते ॥ ११ ॥
यस्मिन् अखिल-आमीव-भिः सु-मङ्गलैः ।
वाचः विमिश्राः गुण-कर्म-जन्मभिः ॥
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् ।
याः तत्-विरक्ताः शव-शोभनाः मताः ॥ १२ ॥
सः च अवतीर्णः किल सात्वत-आन्वये ।
स्व-सेतु-पाल-अमर-वर्य-शर्म-कृत् ॥
यशः वितन्वन् व्रज-आस्त ईश्वरः ।
गायन्ति देवा यत् अशेष-मङ्गलम् ॥ १३ ॥
तम् तु अद्य नूनम् महताम् गतिम् गुरुम् ।
त्रै-लोक्य-कान्तम् दृशि-मत्-महोत्सवम् ॥
रूपम् दधानम् श्रियः ईप्सित-आस्पदम् ।
द्रक्ष्ये मम आसन्न-उषसः सु-दर्शनाः ॥ १४ ॥
अथ अवरूढः सपदि ईशयः रथात् ।
प्रधान-पुंसः चरणम् स्व-लभ्दये ॥
धिया धृतम् योगिभिः अपि अहम् ध्रुवम् ।
नमस्य आभ्याम् च सखीन् वन-औकसः ॥ १५ ॥
अपि अङ्घ्रि-मूले पतितस्य मे विभुः ।
शिरसि अधास्यन् निज-हस्त-पङ्कजम् ॥
दत्त-अभयम् काल-भुज-अङ्ग-रंहसा ।
प्रोद्वेजितानाम् शरण-ईषिणाम् नृणाम् ॥ १६ ॥
समर्हणम् यत्र निधाय कौशिकः ।
तथा बलिः च अपि जगत्-त्रय-इन्द्रताम् ॥
यत् वा विहारे व्रज-योषिताम् श्रमम् ।
स्पर्शेन सौगन्धिक-गन्धि अपानुदत् ॥ १७ ॥
न मयि उपैष्यति अरि-बुद्धिम् अच्युतः ।
कंसस्य दूतः प्रहितः अपि विश्व-दृक् ॥
यः अन्तः बहिः चेतसः एतत् ईहितम् ।
क्षेत्रज्ञः ईक्षति अमलेन चक्षुषा ॥ १८ ॥
अपि अङ्घ्रि-मूले अवहितम् कृत-अञ्जलिम् ।
माम् ईक्षिता सस्मितम् आर्द्रया दृशा ॥
सपदि अप-ध्वस्त-समस्त-किल्बिषः ।
वोढा मुदम् वीत-विशङ्कः ऊर्जिताम् ॥ १९ ॥
सुहृत्-तमम् ज्ञातिम् अनन्य-दैवतम् ।
दोर्-भ्याम् बृहद्-भ्याम् परिरप्स्यते अथ माम् ॥
आत्मा हि तीर्थी-क्रियते तदा एव मे ।
बन्धः च कर्म-आत्मकः उच्छ्वसिति यतः ॥ २० ॥
लब्ध्वा-अङ्ग-सङ्गम् प्रणतम् कृत-अञ्जलिम् ।
माम् वक्ष्यते अक्रूर तते इति उरु-श्रवाः ॥
तदा वयम् जन्म-भृतः महीयसा ।
न एव आदृतः यः धिक् अमुष्य जन्म तत् ॥ २१ ॥
न तस्य कश्चित् दयितः सुहृत्-तमः ।
न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा ॥
तथा अपि भक्तान् भजते यथा तथा ।
सुर-द्रुमः यत्-वत् उपाश्रितः अर्थ-दः ॥ २२ ॥
किञ्च अग्रजः माम् अवनतम् यदू-उत्तमः ।
स्मयन् परिष्वज्य गृहीत-अञ्जलौ ॥
गृहम् प्रवेश्य आप्त-समस्त-सत्कृतम् ।
सम्प्रक्ष्यते कंस-कृतम् स्व-बन्धुषु ॥ २३ ॥
श्री-शुकः उवाच —
इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि ।
रथेन गो-कुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप ॥ २४ ॥
पदानि तस्य अखिल-लोक-पाल-
किरीट-जुष्ट-अमल-पाद-रेणोः ।
ददर्श गोष्ठे क्षिति-कौतुकानि ।
विलक्षितानि अब्ज-यव-अङ्कुश-आद्यैः ॥ २५ ॥
तत्-दर्शन-आह्लाद-विवृद्ध-सम्भ्रमः ।
प्रेम्णा ऊर्ध्व-रोम अश्रु-कलाकुल-ईक्षणः ॥
रथात् अवस्कन्द्य सः तेषु अचेष्टत ।
प्रभोः अमूनि अङ्घ्रि-रजांसि अहो इति ॥ २६ ॥
देह-अम्भृताम् इयान्-अर्थः हित्वा दम्भम् भियम् शुचम् ।
सन्देशात् यः हरेः लिङ्गम् दर्शन-श्रवण-आदिभिः ॥ २७ ॥
ददर्श कृष्णम् रामम् च व्रजे गो-दोहनम् गतौ ।
पीत-नील-अम्बर-धरौ शरद्-अम्बु-रुह-ईक्षणौ ॥ २८ ॥
किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।
सुमुखौ सुन्दर-वरौ बल- द्वि-रद-विक्रमौ ॥ २९ ॥
ध्वज-वज्र-अङ्कुश-अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् ।
शोभयन्तौ महात्मानौ अनुक्रोश-स्मित-ईक्षणौ ॥ ३० ॥
उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।
पुण्य-गन्ध-अनुलिप्त-अङ्गौ स्नातौ विरज-वाससौ ॥ ३१ ॥
प्रधान-पुरुषौ आद्यौ जगत्-हेतू जगत्-पती ।
अवतीर्णौ जगति अर्थे स्व-अंशेन बल-केशवौ ॥ ३२ ॥
दिशः वि-तिमिराः राजन् कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलः रौप्यः च कनक-आचितौ ॥ ३३ ॥
रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह-विह्वलः ।
पपात चरण-उपान्ते दण्डवत् राम-कृष्णयोः ॥ ३४ ॥
भगवत्-दर्शन-आह्लाद-बाष्प-पर्याकुल-ईक्षणः ।
पुलक-चित-अङ्गः औत्कण्ठ्यात् स्व-अख्याने न अशकन् नृप ॥ ३५ ॥
भगवान् तम् अभिप्रेत्य रथ-अङ्ग-अङ्कित-पाणिना ।
परिरेभे अभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ ३६ ॥
सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः ।
गृहीत्वा पाणिना पाणी अनयत् स-अनुजः गृहम् ॥ ३७ ॥
पृष्ट्वा अथ स्वागतं तस्मै निवेद्य च वर-आसनम् ।
प्रक्षाल्य विधिवत् पादौ मधु-पर्क-अर्हणम् आहरत् ॥ ३८ ॥
निवेद्य गां च अतिथये संवाह्य श्रान्तम् आदृतः ।
अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः ॥ ३९ ॥
तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।
मख-वासैः गन्ध-माल्यैः पराम् प्रीतिम् व्यधात् पुनः ॥ ४० ॥
पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इव अवयः ॥ ४१ ॥
य: अवधी: स्व-स्वसुः तोकान् क्रोशन्त्याः असुतृप् खलः ।
किं नु स्वित् तत् प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥
इत्थं सूनृतया वाचा नन्देन सुसभाजित: ।
अक्रूर: परिपृष्टेन जहौ अध्व-परिश्रमम् ॥ ४३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम
अष्टत्रिंशोऽध्यायः ॥ ३८ ॥