கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும்
ஸ்கந்தம் 1: அத்யாயம் 17
सूत उवाच
तत्र गो-मिथुनं राजा हन्यमानम् अनाथ-वत् ।
दण्ड-हस्तं च वृषलं ददृशे नृप-लाञ्छनम् ॥
वृषं मृणाल धवलं मेहन्तम् इव बिभ्यतम् ।
वेपमानं पदा एकेन सीदन्तं शूद्र ताडितम् ॥
गां च धर्म-दुघां दीनां भृशं शूद्र पद-आहताम् ।
विवत्साम् आश्रु-वदनां क्षामां यवसम् इच्छतीम् ॥
पप्रच्छ रथम् आरूढ: कार्तस्वर परिच्छदम् ।
मेघ गम्भीरया वाचा समारोपित कार्मुक: ॥
क: त्वं मत् छरणे लोके बलाद् हंसि अबलान् बली ।
नर-देव: असि वेशेण नट-वत् कर्मणा अद्विज: ॥
य: त्वं कृष्णे गते दूरं सह गाण्डीव धन्वना ।
शोच्य: असि अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥
त्वं वा मृणाल-धवल: पादै: न्यून: पदा चरन् ।
वृष रूपेण किं कश्चिद् देवो न: परिखेदयन् ॥
न जातु कौरव इन्द्राणां दोर्दण्ड परिरम्भिते ।
भूतले अनुपतन्ति अस्मिन् विना ते प्राणिनां शुच: ॥
मा सौरभेय अत्र शुचो व्येतु ते वृषलाद् भयम् ।
मा रोदी: अम्ब भद्रं ते खलानां मयि शास्तरि ॥
यस्य राष्ट्रे प्रजा: सर्वा: त्रस्यन्ते साध्वि असाधुभि: ।
तस्य मत्तस्य नश्यन्ति कीर्ति: आयु: भगो गति: ॥
एष राज्ञां परो धर्म: हि आर्तानाम् आर्ति निग्रह: ।
अत एनं वधिष्यामि भूत-द्रुहम् असत्तमम् ॥
क: अवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।
मा भूवन् त्वादृशा राष्ट्रे राज्ञां कृष्ण अनुवर्तिनाम् ॥
आख्याहि वृष भद्रं व: साधूनाम् अकृत आगसाम् ।
आत्म वैरूप्य कर्तारं पार्थानां कीर्ति दूषणम् ॥
जने अनागसि अघं युञ्जन् सर्वत: अस्य च मद्-भयम् ।
साधूनां भद्रम् एव स्याद् असाधु दमने कृते ॥
अनाग:सु इह भूतेषु य आग: कृत् निरङ्कुश: ।
आहर्ता अस्मि भुजं साक्षाद् अमर्त्यस्य अपि स-अङ्गदम् ॥
राज्ञो हि परमो धर्म: स्वधर्म-स्थ अनुपालनम् ।
शासत: अन्यान् यथा शास्त्रम् अनापदि उत्पथान् इह ॥
धर्म उवाच
एतद् व: पाण्डवेयानां युक्तम् आर्त अभयं वच: ।
येषां गुण-गणै: कृष्णो दौत्य अदौ भगवान् कृत: ॥
न वयं क्लेश बीजानि यत: स्यु: पुरुषर्षभ ।
पुरुषं तं विजानीमो वाक्य-भेद विमोहिता: ॥
केचिद् विकल्प-वसना आहु: आत्मानम् आत्मन: ।
दैवम् अन्ये अपरे कर्म स्वभावम् अपरे प्रभुम् ॥
अप्रतर्क्याद् अनिर्देश्याद् इति केषु अपि निश्चय: ।
अत्र अनुरूपं राजर्षे विमृश स्व-मनीषया ॥
सूत उवाच
एवं धर्मे प्रवदति स सम्राड् द्विज सत्तमा: ।
समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥
राजोवाच
धर्मं ब्रवीषि धर्मज्ञ धर्म: असि वृष रूप धृक् ।
यद् अधर्म-कृत: स्थानं सूचकस्य अपि तद् भवेत् ॥
अथवा देव मायाया नूनं गति: अगोचरा ।
चेतसो वचस: च अपि भूतानाम् इति निश्चय: ॥
तप: शौचं दया सत्यम् इति पादा: कृते कृता: ।
अधर्म अंशै: त्रयो भग्ना: स्मय सङ्ग मदै: तव ॥
इदानीं धर्म पाद: ते सत्यं निर्वर्तयेद् यत: ।
तं जिघृक्षति अधर्म अयम् अनृतेन एधित: कलि: ॥
इयं च भूमि: भगवता न्यासित उरु भरा सती ।
श्रीमद्भि: तत् पद-न्यासै: सर्वत: कृत कौतुका ॥
शोचति अश्रु-कला साध्वी दुर्भगा इव उज्झिता सती ।
अब्रह्मण्या नृप-व्याजा: शूद्रा भोक्ष्यन्ति माम् इति ॥
इति धर्मं महीं च एव सान्त्वयित्वा महारथ: ।
निशातम् आददे खड्गं कलये अधर्म हेतवे ॥
तं जिघांसुम् अभिप्रेत्य विहाय नृप लाञ्छनम् ।
तत् पादमूलं शिरसा समगाद् भय विह्वल: ॥
पतितं पादयो: वीर: कृपया दीन-वत्सल: ।
शरण्यो न अवधीत् श्लोक्य आह चेदं हसन् इव ॥
राजोवाच
न ते गुडाकेश यश:-धराणां बद्ध-अञ्जले: वै भयम् अस्ति किञ्चित् ।
न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्म-बन्धु: ॥
त्वां वर्तमानं नर-देव देहेषु अनुप्रवृत्त: अयम् अधर्म पूग: ।
लोभ: अनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलह: च दम्भ: ॥
न वर्तितव्यं तद् अधर्म बन्धो धर्मेण सत्येन च वर्तितव्ये ।
ब्रह्म आवर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञ वितान विज्ञा: ॥
यस्मिन् हरि: भगवान् इज्यमान इज्य आत्म मूर्ति: यजतां शं तनोति ।
कामान् अमोघान् स्थिर जङ्गमानाम् अन्त: बहि: वायु: इव एष आत्मा ॥
सूत उवाच
परीक्षिता एवम् आदिष्ट: स कलि: जात वेपथु: ।
तम् उद्यत असिम् आह इदं दण्ड-पाणिम् इव उद्यतम् ॥
कलिरुवाच
यत्र क्व वा अथ वत्स्यामि सार्व-भौम तव अज्ञया ।
लक्षये तत्र तत्र अपि त्वाम् आत्तेषु शरासनम् ॥
तन्मे धर्म-भृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि ।
यत्र एव नियतो वत्स्य आतिष्ठं ते अनुशासनम् ॥
सूत उवाच
अभ्यर्थित: तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रिय: सूना यत्र अधर्म: चतु: विध: ॥
पुन: च याचमानाय जात रूपम् अदात् प्रभु: ।
तत: अनृतं मदं कामं रजो वैरं च पञ्चमम् ॥
अमूनि पञ्च स्थानानि हि अधर्म प्रभव: कलि: ।
औत्तरेयेण दत्तानि न्यवसत् तत् निदेश-कृत् ॥
अथ एतानि न सेवेत बुभूषु: पुरुष: क्वचित् ।
विशेषतो धर्म-शीलो राजा लोकपति: गुरु: ॥
वृषस्य नष्टां त्रीन् पादान् तप: शौचं दयाम् इति ।
प्रति-सन्दध आश्वास्य महीं च समवर्धयत् ॥
स एष एतर्हि अध्यास्त आसनं पार्थिव उचितम् ।
पितामहेन उपन्यस्तं राज्ञा अरण्यं विविक्षता ॥
आस्ते अधुना स राजर्षि: कौरव इन्द्र श्रिया उल्लसन् ।
गजाह्वये महाभाग: चक्रवर्ती बृहत् श्रवा:: ॥
इत्थम् भूत अनुभाव: अयम् अभिमन्यु-सुत: नृप: ।
यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥
No comments:
Post a Comment