பேரரசர் பரீக்ஷித்தின் பிறப்பு
शौनक उवाच
अश्वत्थाम्न उपसृष्टेन ब्रह्म-शीष्णा उरु तेजसा ।
उत्तराया हतो गर्भ ईशेन आजीवित: पुन: ॥
तस्य जन्म महा-बुद्धे: कर्माणि च महात्मन: ।
निधनं च यथा एव आसीत्स प्रेत्य गतवान् यथा ॥
तदिदं श्रोतुम् इच्छाम: गदितुं यदि मन्यसे ।
ब्रूहि न: श्रद्दधानानां यस्य ज्ञानम् अदाद् सुक: ॥
सूत उवाच
अपीपलद् धर्म-राज: पितृवद् रञ्जयन् प्रजा: ।
नि:स्पृह: सर्व कामेभ्य: कृष्ण-पाद अनुसेवया ॥
सम्पद: क्रतवो लोका महिषी भ्रातरो मही ।
जम्बू-द्वीप आधिपत्यं च यशश्च त्रिदिवं गतम् ॥
किं ते कामा: सुर स्पार्हा मुकुन्द मनसो द्विजा: ।
अधिजह्रु: मुदं राज्ञ: क्षुधितस्य यथेतरे ॥
मातु: गर्भ गतो वीर: स तदा भृगु-नन्दन ।
ददर्श पुरुषं कञ्चिद् दह्यमानो अस्त्र तेजसा ॥
अङ्गुष्ठ मात्रम् अमलं स्फुरत् पुरट मौलिनम् ।
अपीव्य दर्शनं श्यामं तडिद् वाससम् अच्युतम् ॥
श्रीमद् दीर्घ चतुर्बाहुं तप्त-काञ्चन कुण्डलम् ।
क्षतज-अक्षं गदा पाणिम् आत्मन: सर्वत: दिशम् ।
परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहु: ॥
अस्त्र-तेज: स्व-गदया नीहारम् इव गोपति: ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इति असौ ॥
विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभु: ।
मिषतो दशमासस्य तत्रैव: अन्त: दधे हरि: ॥
तत: सर्व गुण उदर्के स-अनुकूल ग्रहोदये ।
जज्ञे वंश-धर: पाण्डो: भूय: पाण्डु: इव ओजसा ॥
तस्य प्रीत-मना राजा विप्रै: धौम्य कृप आदिभि: ।
जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥
हिरण्यं गां महीं ग्रामान् हस्ति अश्वान् नृपति: वरान् ।
प्रादात् सु अन्नं च विप्रेभ्य: प्रजा-तीर्थे स तीर्थवित् ॥
तम् ऊचु: ब्राह्मणा: तुष्टा राजानं प्रश्रय-अन्वितम् ।
एष हि अस्मिन् प्रजा तन्तौ पुरूणां पौरव ऋषभ ॥
दैवेन अप्रतिघातेन शुक्ले संस्थाम् उपेयुषि ।
रात: व: अनुग्रह-अर्थाय विष्णुना प्रभविष्णुना ॥
तस्माद् नाम्ना विष्णु-रात इति लोके भविष्यति ।
न सन्देहो महाभाग महा भागवतो महान् ॥
श्रीराजोवाच
अप्येष वंश्यान् राज-ऋषीन् पुण्य-श्लोकान् महात्मन: ।
अनुवर्तिता स्विद्-यशसा साधु-वादेन सत्तमा: ॥
ब्राह्मणा ऊचु:
पार्थ प्रजाविता साक्षाद् इक्ष्वाकु: इव मानव: ।
ब्रह्मण्य: सत्य-सन्धश्च रामो दाश-रथि: यथा ॥
एष दाता शरण्य: च यथा हि औशीनर: शिबि: ।
यशो वितनिता स्वानां दौष्यन्ति: इव यज्वनाम् ॥
धन्विनाम् अग्रणी: ईष तुल्य: च अर्जुनयो: द्वयो: ।
हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
तितिक्षु: वसुधेव असौ सहिष्णु: पितरौ इव ॥
पितामह सम: साम्ये प्रसादे गिरिश उपम: ।
आश्रय: सर्व-भूतानां यथा देवो रमा-आश्रय: ॥
सर्व सद् गुण माहात्म्ये एष कृष्णम् अनुव्रत: ।
रन्तिदेव इव उदारो ययाति: इव धार्मिक: ॥
धृत्या बलि-सम: कृष्णे प्रह्-राद इव सद्ग्रह: ।
आहर्तैष: अश्वमेधानां वृद्धानां पर्युपासक: ॥
राजर्षीणां जनयिता शास्ता च: उत्पथ गामिनाम् ।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥
तक्षकाद् आत्मनो मृत्युं द्विज-पुत्र: उपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्त-सङ्ग: पदं हरे: ॥
जिज्ञासित आत्म-याथार्थ्यो मुने र्व्यास सुताद् असौ ।
हित्वेदं नृप गङ्गायां यास्यति अद्धा अकुतो भयम् ॥
इति राज्ञ उपादिश्य विप्रा जातक-कोविदा: ।
लब्ध-अपचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥
स एष लोके विख्यात: परीक्षिद् इति यत्प्रभु: ।
पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेषु इह ॥
स राज-पुत्रो ववृधे आशु शुक्ल इव उडुप: ।
आपूर्यमाण: पितृभि: काष्ठाभि: इव स: अन्वहम् ॥
यक्ष्यमाण: अश्वमेधेन ज्ञाति-द्रोह जिहासया ।
राजा लब्ध-धनो दध्यौ नान्यत्र कर-दण्डयो: ॥
तद् अभिप्रेतम् आलक्ष्य भ्रातर: अच्युत चोदिता: ।
धनं प्रहीणम् आजह्रु: उदीच्यां दिशि भूरिश: ॥
तेन सम्भृत सम्भारो धर्म-पुत्रो युधिष्ठिर: ।
वाजिमेधै त्रिभि: भीतो यज्ञै: समयजद् हरिम् ॥
आहूतो भगवान् राज्ञा याजयित्वा द्विजै नृपम् ।
उवास कतिचित् मासान् सुहृदां प्रिय काम्यया ॥
ततो राज्ञा अभ्यनुज्ञात: कृष्णया सह बन्धुभि: ।
ययौ द्वारवतीं ब्रह्मन् स-अर्जुनो यदुभि: वृत: ॥
No comments:
Post a Comment