Followers

Search Here...

Friday, 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 11 - ஸ்ரீகிருஷ்ணர் துவாரகைக்குள் நுழைகிறார் - ஸ்ரீமத் பாகவதம்

 ஸ்ரீகிருஷ்ணர்

துவாரகைக்குள் நுழைகிறார்

ஸ்கந்தம் 1: அத்யாயம் 11

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धान् जन-पदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन् इव ॥ 


स उच्चकाशे धवल उदरो दर:

अपि उरुक्रमस्य अधरशोण शोणिमा ।

दाध्मायमान: कर-कञ्ज-सम्पुटे

यथा अब्ज-खण्डे कल-हंस उत्स्वन: ॥


तम् उपश्रुत्य निनदं जगद्-भय भय आवहम् ।

प्रति उद्ययु: प्रजा: सर्वा भर्तृ दर्शन लालसा: ॥


तत्र उपनीत बलयो रवे: दीपम् इव आद‍ृता: ।

आत्मारामं पूर्णकामं निज-लाभेन नित्य-दा ॥


प्रीति उत्फुल्ल-मुखा: प्रोचु: हर्ष गद्-गदया गिरा ।

पितरं सर्व सुहृदम् अवितारम् इव अर्भका: ॥


नता: स्म ते नाथ सदा अङ्‌घ्रि पङ्कजं

विरिञ्च वैरिञ्च्य सुरेन्द्र वन्दितम् ।

परायणं क्षेमम् इह  इच्छतां परं

न यत्र काल: प्रभवेत् पर: प्रभु: ॥


भवाय न: तवं भव विश्व-भावन

त्वमेव माता अथ सुहृत् पति: पिता ।

त्वं सद्गुरु: न: परमं च दैवतं

यस्य अनुवृत्त्या कृतिनो बभूविम ॥ 


अहो स-नाथा भवता स्म यद्वयं

त्रैविष्ट पानाम् अपि दूर दर्शनम् ।

प्रेम-स्मित स्‍निग्ध निरीक्षण आननं

पश्येम रूपं तव सर्व सौभगम् ॥


यर्हि अम्बुज-अक्ष अपससार भो भवान्

कुरून् मधून् वाथ सुहृद् दिद‍ृक्षया ।

तत्र अब्द-कोटि प्रतिम: क्षणो भवेद्

रविं विना अक्ष्णो: इव न: तव अच्युत ॥


कथं वयं नाथ चिरोषिते त्वयि प्रसन्न द‍ृष्टय‍ अखिल ताप शोषणम ।

जीवेम ते सुन्दर हास शोभितम् अपश्यमाना वदनं मनोहरम ।

इति च: उदीरिता वाच: प्रजानां भक्त-वत्सल ।

श‍ृण्वान: अनुग्रहं द‍ृष्टय‍ा वितन्वन् प्राविशत् पुरम् ॥


मधु भोज दशार्ह अर्ह कुकुर अन्धक वृष्णिभि: ।

आत्म तुल्य बलै: गुप्तां नागै: भोगवतीम् इव ॥ 


सर्व ऋतु सर्व विभव पुण्य वृक्ष लता आश्रमै: ।

उद्यान उपवन आरामै: वृत पद्म-आकर श्रियम् ॥


गोपुर द्वार मार्गेषु कृत कौतुक तोरणाम् ।

चित्र ध्वज पताका अग्रै: अन्त: प्रतिहत आतपाम् ॥


सम्मार्जित महा मार्ग रथ्य आपणक चत्वराम् ।

सिक्तां गन्ध-जलै: उप्तां फल पुष्प अक्षत अङ्कुरै:  ॥


द्वारि द्वारि गृहाणां च दधि अक्षत फल इक्षुभि: ।

अलङ्‍कृतां पूर्ण-कुम्भै: बलिभि: धूप दीपकै: ॥


निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामना: ।

अक्रूर: च उग्रसेन: च राम: च अद्भुत विक्रम: ॥


प्रद्युम्न: चारुदेष्ण: च साम्बो जाम्बवती-सुत: ।

प्रहर्ष वेग: उच्छशित शयन आसन भोजना: ॥


वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: स-सुमङ्गलै: ।

शङ्ख तूर्य निनादेन ब्रह्म-घोषेण च आद‍ृता: ।

प्रति उज्जग्मू रथै: हृष्टा: प्रणयागत साध्वसा: ॥


वारमुख्या: च शतशो यानै: तद् दर्शन: उत्सुका: ।

लसत् कुण्डल निर्भात कपोल वदन श्रिय: ॥


नट नर्तक गन्धर्वा: सूत मागध वन्दिन: ।

गायन्ति च उत्तम-श्लोक चरितानि अद्भुतानि च ॥


भगवां तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् ।

यथा विधि उपसङ्गम्य सर्वेषां मानम् आदधे ॥


प्रह्वा अभिवादन आश्लेष कर-स्पर्श स्मित-ईक्षणै: ।

आश्वास्य च आश्वपाकेभ्यो वरै: च अभिमतै: विभु: ॥


स्वयं च गुरुभि: विप्रै: सदारै: स्थविरै: अपि ।

आशीर्भि: युज्यमानो अन्यै: वन्दिभि: च अविशत् पुरम् ॥


राज-मार्गं गते कृष्णे द्वारकाया: कुल-स्त्रिय: ।

हर्म्याणि आरुरुहु: विप्र तद्-ईक्षण महा उत्सवा: ॥


नित्यं निरीक्षमाणानां यदपि द्वारका औकसाम् ।

न वितृप्यन्ति हि द‍ृश: श्रियो धाम-अङ्गम् अच्युतम् ॥


श्रियो निवासो यस्य: उर: पान-पात्रं मुखं द‍ृशाम् ।

बाहवो लोक-पालानां सारङ्गाणां पद-अम्बुजम् ॥


सित-आतपत्र व्यजनै: उपस्कृत:

प्रसून वर्षै: अभिवर्षित: पथि ।

पिशङ्ग-वासा वन-मालया बभौ

घनो यथा अर्क उडुप चाप वैद्युतै: ॥


प्रविष्ट: तु गृहं पित्रो: परिष्वक्त: स्व-मातृभि: ।

ववन्दे शिरसा सप्त देवकी प्रमुखा मुदा ॥


ता: पुत्रम् अङ्कम् आरोप्य स्‍नेह स्‍नुत पयोधरा: ।

हर्ष विह्वलित-आत्मान: सिषिचु: नेत्रजै: जलै: ॥


अथ अविशत् स्व-भवनं सर्व कामम् अनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥


पत्न्य: पतिं प्रोष्य गृह-अनुपागतं

विलोक्य सञ्जात मन: महोत्सवा: ।

उत्तस्थु: आरात् सहसा आसना आशयात्

साकं व्रतै: व्रीडित लोचन आनना: ॥


तम् आत्मजै: दॄष्टिभि: अन्तरात्मना

दुरन्त भावा: परिरेभिरे पतिम् ।

निरुद्धम् अपि आस्रवद् अम्बु नेत्रयो

विलज्जतीनां भृगु-वर्य वैक्लवात् ॥


यद्यपि असौ पार्श्व-गतो रहोगत:

तथापि तस्य अङ्‌घ्रि-युगं नवं नवम् ।

पदे पदे का विरमेत तत् पदाद्

चलापि यच्छ्री: न जहाति कर्हिचित् ॥


एवं नृपाणां क्षिति-भार जन्मनाम्

अक्षौहिणीभि: परिवृत्त तेजसाम् ।

विधाय वैरं श्वसनो यथा अनलं

मिथो वधेन: उपरतो निरायुध: ॥


स एष नर-लोके अस्मिन् अवतीर्ण: स्व-मायया ।

रेमे स्त्री-रत्न कूटस्थो भगवान् प्राकृतो यथा ॥


उद्दाम भाव पिशुन अमल वल्गु-हास

व्रीड अवलोक निहतो मदनो अपि यासाम् ।

सम्मुह्य चापम् अजहात् प्रमद उत्तमा: ता 

यस्य इन्द्रियं विमथितुं कुहकै: न शेकु: ॥


तम् अयं मन्यते लोको हि असङ्गम् अपि सङ्गिनम् ।

आत्म औपम्येन मनुजं व्यापृण्वानं यत: अबुध: ॥


एतद् ईशनद् ईशस्य प्रकृति-स्थ:  अपि तद्गुणै: ।

न युज्यते सदा आत्म-स्थै: यथा बुद्धि: तद् आश्रया ॥


तं मेनिरे अबला मूढा: स्त्रैणं च अनुव्रतं रह: ।

अप्रमाण विदो भर्तु: ईश्वरं मतयो यथा ॥

No comments:

Post a Comment