शौनक उवाच
हत्वा स्वरिक्थ स्पृध आततायिनो
युधिष्ठिरो धर्म-भृतां वरिष्ठ: ।
सह-अनुजै: प्रत्य-वरुद्ध भोजन:
कथं प्रवृत्त: किम् अकारषीत् तत: ॥
सूत उवाच
वंशं कुरो: वंश-दव-अग्निनि: हृतं
संरोहयित्वा भव-भावनो हरि: ।
निवेशयित्वा निज-राज्य ईश्वरो
युधिष्ठिरं प्रीत-मना बभूव ह ॥
निशम्य भीष्म-उक्तम् अथ अच्युत-उक्तं
प्रवृत्त विज्ञान विधूत विभ्रम: ।
शशास गाम् इन्द्र इव-अजित-आश्रय:
परिधि उपान्ताम् अनुज अनुवर्तित: ॥
कामं ववर्ष पर्जन्य: सर्व काम-दुघा मही ।
सिषिचु: स्म व्रजान् गाव: पयसा उधस्वती: मुदा ॥
नद्य: समुद्रा गिरय: सवनस्पति वीरुध: ।
फलन्ति ओषधय: सर्वा: कामम् अन्वृतु तस्य वै ॥
न आधयो व्याधय: क्लेशा दैव-भूत-आत्म हेतव: ।
अजात-शत्रौ अभवन् जन्तूनां राज्ञि कर्हिचित् ॥
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: ।
सुहृदां च विशोकाय स्वसु: च प्रिय काम्यया ॥
आमन्त्र्य च अभ्यनुज्ञात: परिष्वज्य अभिवाद्य तम् ।
आरुरोह रथं कैश्चित् परिष्वक्त: अभिवादित: ॥
सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा ।
गान्धारी धृतराष्ट्र: च युयुत्सु: गौतमो यमौ ॥
वृकोदर: च धौम्य: च स्त्रियो मत्स्य-सुता-आदय: ।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्ग धन्वन: ॥
सत् सङ्गात् मुक्त-दु:सङ्गो हातुं न: उत्सहते बुध: ।
कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥
तस्मिन् न्यस्त-धिय: पार्था: सहेरन् विरहं कथम् ।
दर्शन स्पर्श संलाप शयन आसन भोजनै: ॥
सर्वे ते अनिमिषै: अक्षै: तम् अनु द्रुत चेतस: ।
वीक्षन्त: स्नेह सम्बद्धा विचेलु: तत्र तत्र ह ॥
न्यरुन्धन् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।
निर्याति अगारात् न: अभद्रम् इति स्याद् बान्धव स्त्रिय: ॥
मृदङ्ग शङ्ख भेर्य: च वीणा पणव गोमुखा: ।
धुन्धुरी आनक घण्टा आद्या नेदु: दुन्दुभय: तथा ॥
प्रासाद शिखर आरूढा: कुरु-नार्यो दिदृक्षया ।
ववृषु: कुसुमै: कृष्णं-प्रेम व्रीडा स्मित ईक्षणा: ॥
सित-आतपत्रं जग्राह मुक्ता-दाम विभूषितम् ।
रत्न दण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥
उद्धव: सात्यकि: च एव व्यजने परम अद्भुते ।
विकीर्यमाण: कुसुमै रेजे मधु-पति: पथि ॥
अश्रूयन्त आशिष: सत्या: तत्र तत्र द्विज-ईरिता: ।
न अनुरूप अनुरूपा: च निर्गुणस्य गुण आत्मन: ॥
अन्योन्यम् आसीत् सञ्जल्प उत्तम-श्लोक चेतसाम् ।
कौरव-इन्द्र पुर स्त्रीणां सर्व श्रुति मनोहर: ॥
स वै किल अयं पुरुष: पुरातनो
य एक आसीद् अविशेष आत्मनि ।
अग्रे गुणेभ्यो जगद् आत्मनी ईश्वरे
निमीलित आत्मन् निशि सुप्तश क्तिषु ॥
स एव भूयो निज वीर्य चोदितां
स्व जीव मायां प्रकृतिं सिसृक्षतीम् ।
अनाम रूप आत्मनि रूप नामनी
विधित्समानो अनुससार शास्त्र-कृत् ॥
स वा अयं यत् पदम् अत्र सूरयो
जितेन्द्रिया निर्जित मातरिश्वन: ।
पश्यन्ति भक्ति उत्कलित अमल-आत्मना
ननु येष सत्त्वं परिमार्ष्टुम् अर्हति ॥
स वा अयं सखि अनुगीत सत्कथो
वेदेषु गुह्येषु च गुह्य वादिभि: ।
य एक ईशो जगद् आत्म लीलया
सृजति अवति अत्ति न तत्र सज्जते ॥
यदा हि अधर्मेण तम: धिय: नृपा
जीवन्ति तत्रैष हि सत्त्वत: किल ।
धत्ते भगं सत्यम् ऋतं दयां यशो
भवाय रूपाणि दधद् युगे युगे ॥
अहो अलं श्लाघ्य तमं यदो: कुलम्
अहो अलं पुण्यतमं मधो: वनम् ।
यदेष पुंसाम् ऋषभ: श्रिय: पति:
स्वजन्मना चङ्क्रमणेन च अञ्चति ॥
अहो बत स्व: यशस: तिरस्करी
कुशस्थली पुण्य यशस्करी भुव: ।
पश्यन्ति नित्यं यद् अनुग्रह इषितं
स्मित अवलोकं स्वपतिं स्म यत्प्रजा: ॥
नूनं व्रत स्नान हुत आदिना ईश्वर:
समर्चितो हि अस्य गृहीत पाणिभि: ।
पिबन्ति या: सखि अधरामृतं मुहु:
व्रज स्त्रिय: सम्मुमुहु: यद् आशया: ॥
या वीर्य शुल्केन हृता: स्वयंवरे
प्रमथ्य चैद्य प्रमुखान् हि शुष्मिण: ।
प्रद्युम्न साम्ब अम्ब सुत-आदय: अपरा
य: च आहृता भौम-वधे सहस्रश: ॥
एता: परं स्त्रीत्वम् अपास्तपेशलं
निरस्त शौचं बत साधु कुर्वते ।
यासां गृहात् पुष्कर-लोचन: पति:
न जातु अपैति आहृतिभि: हृदि स्पृशन् ॥
एवंविधा गदन्तीनां स गिर: पुर-योषिताम् ।
निरीक्षणेन अभिनन्दन् स-स्मितेन ययौ हरि: ॥
अजात-शत्रु: पृतनां गोपीथाय मधु-द्विष: ।
परेभ्य: शङ्कित: स्नेहात् प्रायुङ्क्त चतु: अङ्गिणीम् ॥
अथ दूरागतान् शौरि: कौरवान् विरहातुरान् ।
सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियै: ॥
कुरु जाङ्गल पाञ्चालान् शूरसेनान् स यामुनान् ।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान अथ ॥
मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् ।
आनर्तान् भार्गव उपागात् छ्रान्त वाहो मनाग् विभु: ॥
तत्र तत्र ह तत्रत्यै: हरि: प्रत्युद्यत अर्हण: ।
सायं भेजे दिशं पश्चाद् गविष्ठो गां गत: तदा ॥
No comments:
Post a Comment