Followers

Search Here...

Tuesday, 2 June 2026

ஸ்கந்தம் 11: அத்யாயம் 11 (பந்தபட்ட, பந்தபடாத ஜனங்களின் லக்ஷணங்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பந்தபட்ட, பந்தபடாத ஜனங்களின் லக்ஷணங்கள்

ஸ்கந்தம் 11: அத்யாயம் 11

  

श्रीभगवान् उवाच

बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य माया-मूलत्वात् न मे मोक्षः न बन्धनम् ॥ १ ॥

शोक-मोहौ सुखं दुःखं देह-आपत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ २ ॥

विद्या-अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ॥ ३ ॥

एकस्य एव मम अंशस्य जीवस्य एव महा-मते ।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ ४ ॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्ध-धर्मिणोः तात स्थित्योः एक-धर्मिणि ॥ ५ ॥

सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृत-नीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ ६ ॥

आत्मानम् अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् सः तु नित्य-बद्धः
विद्या-मयः यः सः तु नित्य-मुक्तः ॥ ७ ॥

देह-स्थः अपि न देह-स्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेह-स्थः अपि देह-स्थः कुमतिः स्वप्न-दृक् यथा ॥ ८ ॥

इन्द्रियैः इन्द्रिय-अर्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहं कुर्यात् न विद्वान् यः तु अविक्रियः ॥ ९ ॥

दैव-अधीने शरीरे अस्मिन् गुण-भाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ १० ॥

एवम् विरक्तः शयने आसन-अटन-मज्जने ।
दर्शन-स्पर्शन-घ्राण-भोजन-श्रवण-आदिषु ॥ ११ ॥

न तथा बद्ध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृति-स्थः अपि असंसक्तः यथा खम् सविता अनिलः ॥ १२ ॥

वैशारद्य-ईक्षा-असङ्ग-शितया छिन्न-संशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ १३ ॥

यस्य स्युः वीत-सङ्कल्पाः प्राण-इन्द्रिय-मनः-धियाम् ।
वृत्तयः सः विनिर्मुक्तः देह-स्थः अपि हि तत्-गुणैः ॥ १४ ॥

यस्य आत्मा हिंस्यते हिंस्रैः येन किञ्चित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ १५ ॥

न स्तुवीत न निन्देत कुर्वतः साधु-असाधु वा ।
वदतः गुण-दोषाभ्याम् वर्जितः सम-दृक् मुनिः ॥ १६ ॥

न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु-असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जड-वद् मुनिः ॥ १७ ॥

शब्द-ब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रम-फलः हि अधेनुम् इव रक्षतः ॥ १८ ॥

गाम् दुग्ध-दोहाम् असतीम् च भार्याम्
देहम् पर-अधीनम् असत्-प्रजाम् च ।
वित्तम् तु अतीर्थी-कृतम् अङ्ग वाचम्
हीनाम् मया रक्षति दुःख-दुःखी ॥ १९ ॥

यस्याम् न मे पावनम् अङ्ग कर्म
स्थिति-उद्भव-प्राण-निरोधम् अस्य ।
लीला-अवतार-ईप्सित-जन्म वा स्यात्
वन्ध्याम् गिरम् ताम् बिभृयात् न धीरः ॥ २० ॥


एवम् जिज्ञासया अपोह्य नानात्व-भ्रमम् आत्मनि ।
उपारमेत विरजम् मनः मयि अर्प्य सर्व-गे ॥ २१ ॥

यदि अनीशः धारयितुम् मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२ ॥

श्रद्धालुः मे कथाः शृण्वन् सुभद्राः लोक-पावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ २३ ॥

मत्-अर्थे धर्म-काम-अर्थान् आचरन् मत्-अपाश्रयः ।
लभते निश्चलाम् भक्तिम् मयि उद्धव सनातने ॥ २४ ॥

सत्-सङ्ग-लब्धया भक्त्या मयि माम् सः उपासिता ।
सः वै मे दर्शितम् सद्भिः अञ्जसा विन्दते पदम् ॥ २५ ॥

श्री-उद्धवः उवाच ।

साधुः तव उत्तम-श्लोक मतः कीदृक्-विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ २६ ॥

एतत् मे पुरुष-अध्यक्ष लोक-अध्यक्ष जगत्-प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७ ॥

त्वम् ब्रह्म परमम् व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छा-उपात्त-पृथक्-वपुः ॥ २८ ॥

श्री-भगवान् उवाच ।

कृपालुः अकृत-द्रोहः तितिक्षुः सर्व-देहिनाम् ।
सत्य-सारः अनवद्य-आत्मा समः सर्व-उपकारकः ॥ २९ ॥

कामैः अहत-धीः दान्तः मृदुः शुचिः अकिञ्चनः ।
अनीहः मित-भुक् शान्तः स्थिरः मत्-शरणः मुनिः ॥ ३० ॥

अप्रमत्तः गभीर-आत्मा धृतिमान् जित-षड्-गुणः ।
अमानी मान-दः कल्यः मैत्रः कारुणिकः कविः ॥ ३१ ॥

आज्ञाय एवम् गुणान् दोषान् मया आदिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् माम् भजेत सः सत्-तमः ॥ ३२ ॥

ज्ञात्वा अज्ञात्वा अथ ये वै माम् यावान् यः च अस्मि यादृशः ।
भजन्ति अनन्य-भावेन ते मे भक्त-तमाः मताः ॥ ३३ ॥

मत्-लिङ्ग-मत्-भक्त-जन-दर्शन-स्पर्शन-अर्चनम् ।
परिचर्या स्तुतिः प्रह्व-गुण-कर्म-अनुकीर्तनम् ॥ ३४ ॥

मत्-कथा-श्रवणे श्रद्धा मत्-अनुध्यानम् उद्धव ।
सर्व-लाभ-उपहरणम् दास्येन आत्म-निवेदनम् ॥ ३५ ॥

मत्-जन्म-कर्म-कथनम् मम पर्व-अनुमोदनम् ।
गीत-ताण्डव-वादित्र-गोष्ठीभिः मत्-गृह-उत्सवः ॥ ३६ ॥

यात्रा बलि-विधानम् च सर्व-वार्षिक-पर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥ ३७ ॥

मम अर्चा-स्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान-उपवन-आक्रीड-पुर-मन्दिर-कर्मणि ॥ ३८ ॥

सम्मार्जन-उपलेपाभ्याम् सेक-मण्डल-वर्तनैः ।
गृह-शुश्रूषणम् मह्यम् दास-वत् यत् अमायया ॥ ३९ ॥

अमानित्वम् अदम्भित्वम् कृतस्य अपरिकीर्तनम् ।
अपि दीप-अवलोकम् मे न उपयुञ्ज्यात् अनिवेदितम् ॥ ४० ॥


यत् यत् इष्ट-तमम् लोके यत् च अति-प्रियम् आत्मनः ।
तत् तत् निवेदयेत् मह्यम् तत् आनन्त्याय कल्पते ॥ ४१ ॥

सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खम् मरुत्-जलम् ।
भूः आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥ ४२ ॥

सूर्ये तु विद्यया त्रय्या हविषा अग्नौ यजेत माम् ।
आतिथ्येन तु विप्र-अग्र्ये गोषु अङ्ग यवस-आदिना ॥ ४३ ॥

वैष्णवे बन्धु-सत्कृत्या हृदि खे ध्यान-निष्ठया ।
वायौ मुख्य-धिया तोये द्रव्यैः तोय-पुरस्कृतैः ॥ ४४ ॥

स्थण्डिले मन्त्र-हृदयैः भोगैः आत्मानम् आत्मनि ।
क्षेत्र-ज्ञम् सर्व-भूतेषु समत्वेन यजेत माम् ॥ ४५ ॥

धिष्ण्येषु एषु इति मत्-रूपम् शङ्ख-चक्र-गदा-अम्बुजैः ।
युक्तम् चतुर्भुजम् शान्तम् ध्यायन् अर्चेत् समाहितः ॥ ४६ ॥

इष्ट-पूर्तेन माम् एवम् यः यजेत समाहितः ।
लभते मयि सत्-भक्तिम् मत्-स्मृतिः साधु-सेवया ॥ ४७ ॥

प्रायेण भक्ति-योगेन सत्-सङ्गेन विना उद्धव ।
न उपायः विद्यते सम्यक् प्रायणम् हि सताम् अहम् ॥ ४८ ॥

अथ एतत् परमम् गुह्यम् शृण्वतः यदु-नन्दन ।
सु-गोप्यम् अपि वक्ष्यामि त्वम् मे भृत्यः सुहृत् सखा ॥ ४९ ॥

इति श्रीमत्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् ।
एकादश-स्कन्धे एकादशः अध्यायः ॥ ११ ॥


Sunday, 3 May 2026

ஸ்கந்தம் 11: அத்யாயம் 10 (உலக சுகங்களில் சாரமில்லை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

உலக சுகங்களில் சாரமில்லை

ஸ்கந்தம் 11: அத்யாயம் 10

  

श्री-भगवान् उवाच

मया उदितेषु अवहितः स्व-धर्मेषु मद्-आश्रयः ।
वर्ण-आश्रम-कुल-आचारम् अ-काम-आत्मा समाचरेत् ॥ 1 ॥

अन्वीक्षेत विशुद्ध-आत्मा देहिनाम् विषय-आत्मनाम् ।
गुणेषु तत्त्व-ध्यानेन सर्व-आरम्भ-विपर्ययम् ॥ 2 ॥

सुप्तस्य विषय-आलोकः ध्यायतः वा मनोरथः ।
नाना-आत्मकत्वात् विफलः तथा भेद-आत्म-धीः गुणैः ॥ 3 ॥

निवृत्तम् कर्म सेवेत प्रवृत्तम् मत्-परः त्यजेत् ।
जिज्ञासायाम् सम्प्रवृत्तः न आद्रियेत कर्म-चोदनाम् ॥ 4 ॥

यमान् अभीक्ष्णम् सेवेत नियमान् मत्-परः क्वचित् ।
मद्-अभिज्ञम् गुरुम् शान्तम् उपासीत मद्-आत्मकम् ॥ 5 ॥

अमानि मत्सरः दक्षः निर्ममः दृढ-सौहृदः ।
असत्वरः अर्थ-जिज्ञासुः अनसूयुः अमोघ-वाक् ॥ 6 ॥

जाया-पत्य-गृह-क्षेत्र स्वजन-द्रविण-आदिषु ।
उदासीनः समम् पश्यन् सर्वेषु अर्थम् इव आत्मनः ॥ 7 ॥

विलक्षणः स्थूल-सूक्ष्मात् देहात् आत्मा ईक्षिता स्व-दृक् ।
यथा अग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ 8 ॥

निरोध-उत्पत्ति-अणु-बृहत् नानात्वम् तत्-कृतान् गुणान् ।
अन्तः प्रविष्टः आधत्ते एवम् देह-गुणान् परः ॥ 9 ॥

यः असौ गुणैः विरचितः देहः अयम् पुरुषस्य हि ।
संसारः तत्-निबन्धः अयम् पुंसः विद्यात् छिद्-आत्मनः ॥ 10 ॥

तस्मात् जिज्ञासया आत्मानम् आत्म-स्थम् केवलम् परम् ।
सङ्गम् निरसेत् एतत् वस्तु-बुद्धिम् यथा-क्रमम् ॥ 11 ॥

आचार्यः अरणिः आद्यः स्यात् अन्तेवासी उत्तर-अरणिः ।
तत्-सन्धानम् प्रवचनम् विद्या-सन्धिः सुख-आवहः ॥ 12 ॥

वैशारदी सा अति-विशुद्ध-बुद्धिः
धुनोति मायाम् गुण-सम्प्रसूताम् ।
गुणान् च सन्दह्य यत् आत्मम् एतत्
स्वयम् च शाम्यति असमित् यथा अग्निः ॥ 13 ॥

अथ एषाम् कर्म-कर्तॄणाम् भोक्तॄणाम् सुख-दुःखयोः ।
नानात्वम् अथ नित्यत्वम् लोक-काल-आगम-आत्मनाम् ॥ 14 ॥

मन्यसे सर्व-भावानाम् संस्था हि औत्पत्तिकी यथा ।
तत्-तत् आकृति-भेदेन जायते भिद्यते च धीः ॥ 15 ॥

एवम् अपि अङ्ग सर्वेषाम् देहिनाम् देह-योगतः ।
काल-अवयवतः सन्ति भावाः जन्म-आदयः असकृत् ॥ 16 ॥

अत्र अपि कर्मणाम् कर्तुः अ-स्वातन्त्र्यम् च लक्ष्यते ।
भोक्तुः च दुःख-सुखयोः कः नु अर्थः विवशम् भजेत् ॥ 17 ॥

न देहिनाम् सुखम् किञ्चित् विद्यते विदुषाम् अपि ।
तथा च दुःखम् मूढानाम् वृथा अहङ्करणम् परम् ॥ 18 ॥

यदि प्राप्तिम् विघातम् च जानन्ति सुख-दुःखयोः ।
ते अपि अद्धा न विदुः योगम् मृत्युः न प्रभवेत् यथा ॥ 19 ॥

कः नु अर्थः सुखयति एनम् कामः वा मृत्युः अन्तिके ।
आघातम् नीयमानस्य वध्यस्य इव न तुष्टि-दः ॥ 20 ॥

श्रुतम् च दृष्टवत् दुष्टम् स्पर्धा-असूया-अत्यय-व्ययैः ।
बहु-अन्तराय-कामत्वात् कृषिवत् च अपि निष्फलम् ॥ 21 ॥

अन्तरायैः अविहितः यदि धर्मः स्व-अनुष्ठितः ।
तेन अपि निर्जितम् स्थानम् यथा गच्छति तत् शृणु ॥ 22 ॥

इष्ट्वा इह देवताः यज्ञैः स्वः-लोकम् याति याज्ञिकः ।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज-आर्जितान् ॥ 23 ॥

स्व-पुण्य-उपचिते शुभ्रे विमाने उपगीयते ।
गन्धर्वैः विहरन् मध्ये देवीनाम् हृद्य-वेष-धृक् ॥ 24 ॥

स्त्रीभिः काम-गयानेन किङ्किणी-जाल-मालिना ।
क्रीडन् न वेद आत्म-पातम् सुर-क्रीडेषु निर्वृतः ॥ 25 ॥

तावत् प्रमोदते स्वर्गे यावत् पुण्यम् समाप्यते ।
क्षीण-पुण्यः पतति अर्वाक् अनिच्छन् काल-चालितः ॥ 26 ॥

यदि अधर्म-रतः सङ्गात् असताम् वा अजितेन्द्रियः ।
काम-आत्मा कृपणः लुब्धः स्त्रैणः भूत-विहिंसकः ॥ 27 ॥

पशून् अविधिना आलभ्य प्रेत-भूत-गणान् यजन् ।
नरकान् अवशः जन्तुः गत्वा याति उल्बणम् तमः ॥ 28 ॥

कर्माणि दुःख-उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहम् आभजते तत्र किम् सुखम् मर्त्य-धर्मिणः ॥ 29 ॥

लोकानाम् लोक-पालानाम् मद्-भयम् कल्प-जीविनाम् ।
ब्रह्मणः अपि भयम् मत्तः द्वि-परार्ध-पर-आयुषः ॥ 30 ॥

गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुण-संयुक्तः भुङ्क्ते कर्म-फलानि असौ ॥ 31 ॥

यावत् स्यात् गुण-वैषम्यम् तावत् नानात्वम् आत्मनः ।
नानात्वम् आत्मनः यावत् पारतन्त्र्यम् तदा एव हि ॥ 32 ॥

यावत् अस्य अ-स्वतन्त्रत्वम् तावत् ईश्वरतः भयम् ।
ये एतत् समुपासीरन् ते मुह्यन्ति शुचा-अर्पिताः ॥ 33 ॥

कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति माम् बहुधा प्राहुः गुण-व्यतिकरे सति ॥ 34 ॥

श्री-उद्धवः उवाच

गुणेषु वर्तमानः अपि देह-जेषु अनपावृतः ।
गुणैः न बध्यते देही बध्यते वा कथम् विभो ॥ 35 ॥

कथम् वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किम् भुञ्जीत उत विसृजेत् शयीत आसीत् याति वा ॥ 36 ॥

एतत् अच्युत मे ब्रूहि प्रश्नम् प्रश्न-विदाम् वर ।
नित्य-मुक्तः नित्य-बद्धः एकः एव इति मे भ्रमः ॥ 37 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे भगवत्-उद्धव-संवादे दशमः अध्यायः ॥ 10 ॥


ஸ்கந்தம் 11: அத்யாயம் 9 (உலக விஷயங்களில் ஒட்டாதே - யதுவுக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

உலக விஷயங்களில் ஒட்டாதே - யதுவுக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 9

  

श्री-ब्राह्मणः उवाच

परिग्रहः हि दुःखाय यत् यत् प्रिय-तमम् नृणाम् ।
अनन्तम् सुखम् आप्नोति तत् विद्वान् यः तु अ-किञ्चनः ॥ 1 ॥

सामिषम् कुररम् जघ्नुः बलिनः ये निरामिषाः ।
तत् आमिषम् परित्यज्य सः सुखम् समविन्दत ॥ 2 ॥

न मे मान-अपमानौ स्तः न चिन्ता गेह-पुत्रिणाम् ।
आत्म-क्रीडः आत्म-रतिः विचरामि इह बाल-वत् ॥ 3 ॥

द्वौ एव चिन्तया मुक्तौ परम-आनन्द-आप्लुतौ ।
यः विमुग्धः जडः बालः यः गुणेभ्यः परम् गतः ॥ 4 ॥

क्वचित् कुमारी तु आत्मानम् वृणानान् गृहम् आगतान् ।
स्वयम् तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ 5 ॥

तेषाम् अभ्यवहार-अर्थम् शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठ-स्थाः चक्रुः शङ्खाः स्वनम् महत् ॥ 6 ॥

सा तत् जुगुप्सितम् मत्वा महती व्रीडिता ततः ।
बभञ्ज एक-एकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥ 7 ॥

उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः ।
तत्र अपि एकम् निरभिदत् एकस्मात् न अभवत् ध्वनिः ॥ 8 ॥

अन्वशिक्षम् इमम् तस्याः उपदेशम् अरि-दम ।
लोकान् अनुचरन् एतान् लोक-तत्त्व-विवित्सया ॥ 9 ॥

वासे बहूनाम् कलहः भवेत् वार्ता द्वयोः अपि ।
एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ 10 ॥

मनः एकत्र संयुज्यत् जित-श्वासः जित-आसनः ।
वैराग्य-अभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ 11 ॥

यस्मिन् मनः लब्ध-पदम् यत् एतत्
शनैः शनैः मुञ्चति कर्म-रेणून् ।
सत्त्वेन वृद्धेन रजः तमः च
विधूय निर्वाणम् उपैति अनिन्धनम् ॥ 12 ॥

तदा एवम् आत्मनि अवरुद्ध-चित्तः
न वेद किञ्चित् बहिः अन्तरम् वा ।
यथा इषु-कारः नृपतिम् व्रजन्तम्
इषौ गत-आत्मा न ददर्श पार्श्वे ॥ 13 ॥

एक-चारि-निकेतः स्यात् अप्रमतः गुहा-आशयः ।
अलक्ष्यमाणः आचारैः मुनिः एकः अल्प-भाषणः ॥ 14 ॥

गृह-आरम्भः अति-दुःखाय विफलः च अध्रुव-आत्मनः ।
सर्पः पर-कृतम् वेश्म प्रविश्य सुखम् एधते ॥ 15 ॥

एकः नारायणः देवः पूर्व-सृष्टम् स्व-मायया ।
संहृत्य काल-कलया कल्प-अन्ते इदम् ईश्वरः ॥ 16 ॥

एकः एव अद्वितीयः अभूत् आत्म-आधारः अखिल-आश्रयः ।
कालेन आत्म-अनुभावेन साम्यम् नीतासु शक्तिषु ।
सत्त्व-आदिषु आदि-पुरुषः प्रधान-पुरुष-ईश्वरः ॥ 17 ॥

पर-अवराणाम् परमः आस्ते कैवल्य-संज्ञितः ।
केवल-अनुभव-आनन्द-सन्दोहः निरुपाधिकः ॥ 18 ॥

केवल-आत्म-अनुभावेन स्व-मायाम् त्रि-गुण-आत्मिकाम् ।
संक्षोभयन् सृजति आदौ तया सूत्रम् अरि-दम ॥ 19 ॥

ताम् आहुः त्रि-गुण-व्यक्तिम् सृजन्तीम् विश्वतः-मुखम् ।
यस्मिन् प्रोतम् इदम् विश्वम् येन संस्रते पुमान् ॥ 20 ॥

यथा ऊर्ण-नाभिः हृदयात् ऊर्णाम् सन्तत्य वक्त्रतः ।
तया विहृत्य भूयः ताम् ग्रसति एवम् महा-ईश्वरः ॥ 21 ॥

यत्र यत्र मनः देही धारयेत् सकलम् धिया ।
स्नेहात् द्वेषात् भयात् वा अपि याति तत्-तत् स्वरूपताम् ॥ 22 ॥

कीटः पेशस्-कृतम् ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत्-सात्मताम् राजन् पूर्व-रूपम् असन्त्यजन् ॥ 23 ॥

एवम् गुरुभ्यः एतेभ्यः एषा मे शिक्षिता मतिः ।
स्व-आत्म-उपशिक्षिताम् बुद्धिम् शृणु मे वदतः प्रभो ॥ 24 ॥

देहः गुरुः मम विरक्ति-विवेक-हेतुः
बिभ्रत् स्म सत्त्व-निधनम् सतत-आर्ति-उदर्कम् ।
तत्त्वानि अनेन विमृशामि यथा तथापि
पारक्यम् इति अवसितः विचरामि असङ्गः ॥ 25 ॥

जाय-आत्मज-अर्थ-पशु-भृत्य-गृह-आप्त-वर्गान्
पुष्णाति यत् प्रिय-चिकीर्षुतया वितन्वन् ।
स्व-अन्ते सकृत् श्रमम् अवरुद्ध-धनः सः देहः
सृष्ट्वा अस्य बीजम् अवसीदति वृक्ष-धर्मा ॥ 26 ॥

जिह्वा एकतः अमुम् अपकर्षति कर्हि तर्षा
शिश्नः अन्यतः त्वक् उदरम् श्रवणम् कुतः चित् ।
घ्राणः अन्यतः चपल-दृक् क्व च कर्म-शक्तिः
बह्व्यः सपत्न्यः इव गेह-पतिम् लुनन्ति ॥ 27 ॥

सृष्ट्वा पुराणि विविधानि अजयाः आत्म-शक्त्या
वृक्षान् सरीसृप-पशून् खग-दंश-मत्स्यान् ।
तैः तैः अतुष्ट-हृदयः पुरुषम् विधाय
ब्रह्म-अवलोक-धिषणम् मुदम् आप देवः ॥ 28 ॥

लब्ध्वा सु-दुर्लभम् इदम् बहु-सम्भव-अन्ते
मानुष्यम् अर्थ-दम् अनित्यम् अपि इह धीरः ।
तूर्णम् यतेत् न पतॆत् अनु-मृत्यु यावत्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ 29 ॥

एवम् सञ्जात-वैराग्यः विज्ञान-आलोकः आत्मनि ।
विचरामि महीम् एताम् मुक्त-सङ्गः अनहङ्कृतिः ॥ 30 ॥

न हि एकस्मात् गुरोः ज्ञानम् सु-स्थिरम् स्यात् सु-पुष्कलम् ।
ब्रह्म एतत् अद्वितीयम् वै गीयते बहुधा ऋषिभिः ॥ 31 ॥

श्री-भगवान् उवाच

इति उक्त्वा सः यदुम् विप्रः तम् आमन्त्र्य गभीर-धीः ।
वन्दितः अभ्यर्थितः राज्ञा ययौ प्रीतः यथा-आगतम् ॥ 32 ॥

अवधूत-वचः श्रुत्वा पूर्वेषाम् नः सः पूर्वजः ।
सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तः बभूव ह ॥ 33 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे नवमः अध्यायः ॥ 9 ॥

ஸ்கந்தம் 11: அத்யாயம் 8 (ஒன்பது குரு - யதுவுக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஒன்பது குரு - யதுவுக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 8

 

श्री-ब्राह्मणः उवाच

सुखम् ऐन्द्रियकम् राजन् स्वर्गे नरके एव च ।
देहिनाम् यत् यथा दुःखम् तस्मात् न इच्छेत् तत् बुधः ॥ 1 ॥

ग्रासम् सु-मृष्टम् विरसम् महान्तम् स्तोकम् एव वा ।
यदृच्छया एव आपतितम् ग्रसेत् अजगरः अक्रियः ॥ 2 ॥

शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महा-अहिः इव दिष्ट-भुक् ॥ 3 ॥

ओजः-सहः-बल-युतम् बिभ्रत् देहम् अकर्मकम् ।
शयानः वीत-निद्रः च न ईहते इन्द्रिय-वान् अपि ॥ 4 ॥

मुनिः प्रसन्न-गम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्त-पारः हि अक्षोभ्यः स्तिमित-उदः इव अर्णवः ॥ 5 ॥

समृद्ध-कामः हीनः वा नारायण-परः मुनिः ।
न उत्सर्पेत् न शुष्येत् सरिद्भिः इव सागरः ॥ 6 ॥

दृष्ट्वा स्त्रियम् देव-मायाम् तत्-भावैः अजित-इन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्ग-वत् ॥ 7 ॥

योषित्-हिरण्य-आभरण-अम्बर-आदि-
द्रव्येषु माया-रचितेषु मूढः ।
प्रलोभित-आत्मा हि उपभोग-बुद्ध्या
पतङ्ग-वत् नश्यति नष्ट-दृष्टिः ॥ 8 ॥

स्तोकम् स्तोकम् ग्रसेत् ग्रासम् देहः वर्तेत यावता ।
गृहान् अहिंसन् आतिष्ठेत् वृत्तिम् माधुकरीम् मुनिः ॥ 9 ॥

अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्-पदः ॥ 10 ॥

सायन्तनम् श्वस्तनम् वा न संगृह्णीत भिक्षितम् ।
पाणि-पात्र-उदर-अमत्रः मक्षिका इव न संग्रही ॥ 11 ॥

सायन्तनम् श्वस्तनम् वा न संगृह्णीत भिक्षुकः ।
मक्षिका इव संगृह्णन् सह तेन विनश्यति ॥ 12 ॥

पदा अपि युवतीम् भिक्षुः न स्पृशेत् दारवीम् अपि ।
स्पृशन् करी इव बध्येत् करिण्या अङ्ग-सङ्गतः ॥ 13 ॥

न अधिगच्छेत् स्त्रियम् प्राज्ञः कर्हिचित् मृत्युम् आत्मनः ।
बल-ाधिकैः सः हन्येत् गजैः अन्यैः गजः यथा ॥ 14 ॥

न देयम् न उपभोग्यम् च लुब्धैः यत् दुःख-सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधु-हा इव अर्थ-वित् मधु ॥ 15 ॥

सु-दुःख-उपार्जितैः वित्तैः आशासानाम् गृह-आशिषः ।
मधु-हा इव अग्रतः भुङ्क्ते यतिः वै गृह-मेधिनाम् ॥ 16 ॥

ग्राम्य-गीतम् न शृणुयात् यतिः वन-चरः क्वचित् ।
शिक्षेत हरिणात् बद्धात् मृगयोः गीत-मोहितात् ॥ 17 ॥

नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् ।
आसाम् क्रीडनकः वश्यः ऋष्य-शृङ्गः मृगी-सुतः ॥ 18 ॥

जिह्वया अति-प्रमाथिन्या जनः रस-विमोहितः ।
मृत्युम् ऋच्छति असत्-बुद्धिः मीनः तु बडिशैः यथा ॥ 19 ॥

इन्द्रियाणि जयन्ति आशु निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनाम् तत् निरन्नस्य वर्धते ॥ 20 ॥

तावत् जित-इन्द्रियः न स्यात् विजित-अन्य-इन्द्रियः पुमान् ।
न जयेत् रसनाम् यावत् जितम् सर्वम् जिते रसे ॥ 21 ॥

पिङ्गला नाम वेश्या आसीत् विदेह-नगरे पुरा ।
तस्याः मे शिक्षितम् किञ्चित् निबोध नृप-नन्दन ॥ 22 ॥

सा स्वैरिणी एकदा कान्तम् सङ्केते उपनेष्यती ।
अभूत् काले बहिः द्वारि बिभ्रती रूपम् उत्तमम् ॥ 23 ॥

मार्गे आगच्छतः वीक्ष्य पुरुषान् पुरुष-ऋषभ ।
तान् शुल्क-दान् वित्त-वत् कान्तान् मेने अर्थ-कामुका ॥ 24 ॥

आगतेषु अपयातेषु सा सङ्केत-उपजीविनी ।
अपि अन्यः वित्त-वान् कः अपि माम् उपैष्यति भूरि-दः ॥ 25 ॥

एवम् दुराशया ध्वस्त-निद्रा द्वारि अवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथम् समपद्यत ॥ 26 ॥

तस्याः वित्त-आशया शुष्यत्-वक्त्रायाः दीन-चेतसः ।
निर्वेदः परमः जज्ञे चिन्ता-हेतुः सुख-आवहः ॥ 27 ॥

तस्याः निर्विण्ण-चित्तायाः गीतम् शृणु यथा मम ।
निर्वेदः आशा-पाशानाम् पुरुषस्य यथा हि असिः ॥ 28 ॥

न हि अङ्ग अजात-निर्वेदः देह-बन्धम् जिहासति ।
यथा विज्ञान-रहितः मनुजः ममताम् नृप ॥ 29 ॥

पिङ्गला उवाच

अहो मे मोह-विततिम् पश्यत अविजित-आत्मनः ।
या कान्तात् असतः कामम् कामये येन बालिशा ॥ 30 ॥

सन्तम् समीपे रमणम् रति-प्रदम्
वित्त-प्रदम् नित्यम् इमम् विहाय ।
अकाम-दम् दुःख-भय-आधि-शोक-
मोह-प्रदम् तुच्छम् अहम् भजे अज्ञा ॥ 31 ॥

अहो मया आत्मा परितापितः वृथा
साङ्केत्य-वृत्त्या अति-विगर्ह्य-वार्तया ।
स्त्रैणात् नरात् यार्थ-तृषः अनुशोच्यात्
क्रीतेन वित्तम् रतिम् आत्मने इच्छती ॥ 32 ॥

यत् अस्थिभिः निर्मित-वंश-वंश्य-
स्थूणम् त्वचा रोम-नखैः पिनद्धम् ।
क्षरन् नव-द्वारम् अगारम् एतत्
विण्-मूत्र-पूर्णम् मद् उपैति का अन्याः ॥ 33 ॥

विदेहानाम् पुरे हि अस्मिन् अहम् एकैव मूढ-धीः ।
यानि अमि इच्छन्ति असत् अस्मात् आत्म-दात् कामम् अच्युतात् ॥ 34 ॥

सुहृत् प्रेष्ठ-तमः नाथः आत्मा च अयम् शरीरिणाम् ।
तम् विक्रीय आत्मना एव अहम् रमे अनेन यथा रमा ॥ 35 ॥

कियत् प्रियम् ते व्यभजन् कामाः ये काम-दाः नराः ।
आदि-अन्त-वन्तः भार्यायाः देवाः वा काल-विद्रुताः ॥ 36 ॥

नूनम् मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयम् दुराशायाः यत् मे जातः सुख-आवहः ॥ 37 ॥

मा एवम् स्युः मन्द-भाग्यायाः क्लेशाः निर्वेद-हेतवः ।
येन अनुबन्धम् निर्हृत्य पुरुषः शमम् ऋच्छति ॥ 38 ॥

तेन उपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः ।
त्यक्त्वा दुराशाः शरणम् व्रजामि तम् अधीश्वरम् ॥ 39 ॥

सन्तुष्टा श्रद्धधती एतत् यथा-लाभेन जीवती ।
विहरामि अमुना एव अहम् आत्मना रमणेन वै ॥ 40 ॥

संसार-कूपे पतितम् विषयैः मुषित-ईक्षणम् ।
ग्रस्तम् काल-अहिना आत्मानम् कः अन्यः त्रातुम् अधीश्वरः ॥ 41 ॥

आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदा अखिलात् ।
अप्रमत्तः इदम् पश्येत् ग्रस्तम् काल-अहिना जगत् ॥ 42 ॥

श्री-ब्राह्मणः उवाच

एवम् व्यवसित-मतिः दुराशाम् कान्त-तर्ष-जाम् ।
छित्त्वा उपशमम् आस्थाय शय्याम् उपविवेश सा ॥ 43 ॥

आशा हि परमम् दुःखम् नैराश्यम् परमम् सुखम् ।
यथा सञ्च्छिद्य कान्त-आशाम् सुखम् सुष्वाप पिङ्गला ॥ 44 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे अष्टमः अध्यायः ॥ 8 ॥ 


ஸ்கந்தம் 11: அத்யாயம் 7 (உத்தவருக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 உத்தவருக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 7

 

श्री-भगवान् उवाच

यत् आत्थ माम् महा-भाग तत् चिकीर्षितम् एव मे ।
ब्रह्मा भवः लोक-पालाः स्वः-वासम् मे अभिकाङ्क्षिणः ॥ 1 ॥

मया निष्पादितम् हि अत्र देव-कार्यं अशेषतः ।
यत्-अर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणा अर्थितः ॥ 2 ॥

कुलम् वै शाप-निर्दग्धम् नङ्क्ष्यति अन्योन्य-विग्रहात् ।
समुद्रः सप्तमे अह्नि एताम् पुरीम् च प्लावयिष्यति ॥ 3 ॥

यर्हि एव अयम् मया त्यक्तः लोकः अयम् नष्ट-मङ्गलः ।
भविष्यति अचिरात् साधो कलिना अपि निराकृतः ॥ 4 ॥

न वस्तव्यम् त्वया एव इह मया त्यक्ते मही-तले ।
जनः अधर्म-रुचिः भद्र भविष्यति कलौ युगे ॥ 5 ॥

त्वम् तु सर्वम् परित्यज्य स्नेहम् स्वजन-बन्धुषु ।
मयि आवेश्य मनः सम्यक् सम-दृक् विचरस्व गाम् ॥ 6 ॥

यत् इदम् मनसा वाचा चक्षुर्भ्याम् श्रवण-आदिभिः ।
नश्वरम् गृह्यमाणम् च विद्धि माया-मनो-मयम् ॥ 7 ॥

पुंसः अयुक्तस्य नाना-अर्थः भ्रमः सः गुण-दोष-भाक् ।
कर्म-अकर्म-विकर्म इति गुण-दोष-धियः भिदा ॥ 8 ॥

तस्मात् युक्त-इन्द्रिय-ग्रामः युक्त-चित्तः इदम् जगत् ।
आत्मनि ईक्षस्व विततम् आत्मानम् मयि अधीश्वरे ॥ 9 ॥

ज्ञान-विज्ञान-संयुक्तः आत्म-भूतः शरीरिणाम् ।
आत्म-अनुभव-तुष्ट-आत्मा न अन्तरायैः विहन्यसे ॥ 10 ॥

दोष-बुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुण-बुद्ध्या च विहितम् न करोति यथा अर्भकः ॥ 11 ॥

सर्व-भूत-सुहृत् शान्तः ज्ञान-विज्ञान-निश्चयः ।
पश्यन् मद्-आत्मकम् विश्वम् न विपद्येत वै पुनः ॥ 12 ॥

श्री-शुकः उवाच

इति आदिष्टः भगवता महा-भागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्व-जिज्ञासुः अच्युतम् ॥ 13 ॥

श्री-उद्धवः उवाच

योग-ईश योग-विन्यास योग-आत्मन् योग-सम्भव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यास-लक्षणः ॥ 14 ॥

त्यागः अयम् दुष्करः भूमन् कामानाम् विषय-आत्मभिः ।
सुतराम् त्वयि सर्व-आत्मन् अभक्तैः इति मे मतिः ॥ 15 ॥

सः अहम् मम अहम् इति मूढ-मतिः विगाढः
त्वत्-मायया विरचित-आत्मनि स-अनुबन्धे ।
तत् त्वम् अञ्जसा निगदितम् भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ 16 ॥

सत्यस्य ते स्व-दृशः आत्मनः आत्मनः अन्यं
वक्तारम् ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहित-धियः तव मायया इमे
ब्रह्म-आदयः तनु-भृतः बहिः-अर्थ-भावाः ॥ 17 ॥

तस्मात् भवन्तम् अनवद्यम् अनन्त-पारम्
सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् ।
निर्विण्ण-धीः अहम् उ ह वृजिन-अभितप्तः
नारायणम् नर-सखम् शरणम् प्रपद्ये ॥ 18 ॥

श्री-भगवान् उवाच

प्रायेण मनुजाः लोके लोक-तत्त्व-विचक्षणाः ।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभ-आशयात् ॥ 19 ॥

आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष-अनुमानाभ्याम् श्रेयः असौ अनुविन्दते ॥ 20 ॥

पुरुषत्वे च माम् धीराः साङ्ख्य-योग-विशारदाः ।
आविस्तराम् प्रपश्यन्ति सर्व-शक्ति-उपबृंहितम् ॥ 21 ॥

एक-द्वि-त्रि-चतुः-पादः बहु-पादः तथा अपदः ।
बह्व्यः सन्ति पुरः सृष्टाः तासाम् मे पौरुषी प्रिया ॥ 22 ॥

अत्र माम् मार्गयन्ति अद्धा युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ 23 ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ।
अवधूतस्य संवादम् यदोः अमित-तेजसः ॥ 24 ॥

अवधूतम् द्विजम् कञ्चित् चरन्तम् अकुतो-भयम् ।
कविम् निरीक्ष्य तरुणम् यदुः पप्रच्छ धर्म-वित् ॥ 25 ॥

श्री-यदुः उवाच

कुतः बुद्धिः इयम् ब्रह्मन् अकर्तुः सु-विशारदा ।
याम् आसाद्य भवान् लोकम् विद्वान् चरति बालवत् ॥ 26 ॥

प्रायः धर्म-अर्थ-कामेषु विवित्सायाम् च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ 27 ॥

त्वम् तु कल्पः कविः दक्षः सु-भगः अमृत-भाषणः ।
न कर्ता न ईहसे किञ्चित् जड-उन्मत्त-पिशाच-वत् ॥ 28 ॥

जनेषु दह्यमानेषु काम-लोभ-दव-अग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गा-अम्भः-स्थः इव द्विपः ॥ 29 ॥

त्वम् हि नः पृच्छताम् ब्रह्मन् आत्मनि आनन्द-कारणम् ।
ब्रूहि स्पर्श-विहीनस्य भवतः केवल-आत्मनः ॥ 30 ॥

श्री-भगवान् उवाच

यदुना एवम् महा-भागः ब्रह्मण्येन सु-मेधसा ।
पृष्टः स-भाजितः प्राह प्रश्रय-अवनतम् द्विजः ॥ 31 ॥

श्री-ब्राह्मणः उवाच

सन्ति मे गुरवः राजन् बहवः बुद्धि-उपश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तत् शृणु ॥ 32 ॥

पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमाः रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधु-कृत् गजः ॥ 33 ॥

मधु-हा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शर-कृत् सर्पः ऊर्ण-नाभिः सुपेश-कृत् ॥ 34 ॥

एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षाः वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ 35 ॥

यतः यत् अनुशिक्षामि यथा वा नाहुष-आत्मज ।
तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥ 36 ॥

भूतैः आक्रम्यमाणः अपि धीरः दैव-वश-अनुगैः ।
तत् विद्वान् न चलॆत् मार्गात् अन्वशिक्षम् क्षितेः व्रतम् ॥ 37 ॥

शश्वत् परार्थ-सर्व-ईहः परार्थ-एकान्त-सम्भवः ।
साधुः शिक्षेत भू-भृतः नग-शिष्यः पर-आत्मताम् ॥ 38 ॥

प्राण-वृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रिय-प्रियैः ।
ज्ञानम् यथा न नश्येत् न अवकीर्येत वाक्-मनः ॥ 39 ॥

विषयेषु आविशन् योगी नाना-धर्मेषु सर्वतः ।
गुण-दोष-व्यपेत-आत्मा न विषज्जेत वायु-वत् ॥ 40 ॥

पार्थिवेषु इह देहेषु प्रविष्टः तत्-गुण-आश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्म-दृक् ॥ 41 ॥

अन्तर्हितः च स्थिर-जङ्गमेषु
ब्रह्म-आत्म-भावेन समन्वयेन ।
व्याप्त्या अव्यवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वम् विततस्य भावयेत् ॥ 42 ॥

तेजः-अब्-अन्न-मयैः भावैः मेघ-आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् काल-सृष्टैः गुणैः पुमान् ॥ 43 ॥

स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थ-भूः नृणाम् ।
मुनिः पुनाति अपाम् मित्रम् ईक्षा-उपस्पर्श-कीर्तनैः ॥ 44 ॥

तेजस्वी तपसा दीप्तः दुर्धर्षः उदर-भाजनः ।
सर्व-भक्ष्यः अपि युक्त-आत्मा न आदत्ते मलम् अग्नि-वत् ॥ 45 ॥

क्वचित् छन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणाम् दहन् प्राक्-उत्तर-अशुभम् ॥ 46 ॥

स्व-मायया सृष्टम् इदम् सत्-असत्-लक्षणम् विभुः ।
प्रविष्टः ईयते तत्-तत् स्वरूपः अग्निः इव एधसि ॥ 47 ॥

विसर्ग-आद्याः श्मशान-अन्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्त-वर्त्मना ॥ 48 ॥

कालेन हि ओघ-वेगेन भूतानाम् प्रभव-अप्ययौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ 49 ॥

गुणैः गुणान् उपादत्ते यथा-कालम् विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गो-पतिः ॥ 50 ॥

बुध्यते स्वे न भेदेन व्यक्तिस्थः इव तत्-गतः ।
लक्ष्यते स्थूल-मतिभिः आत्मा च अवस्थितः अर्क-वत् ॥ 51 ॥

न अति-स्नेहः प्रसङ्गः वा कर्तव्यः क्वापि केनचित् ।
कुर्वन् विन्देत सन्तापम् कपोतः इव दीन-धीः ॥ 52 ॥

कपोतः कश्चन अरण्ये कृत-नीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ 53 ॥

कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ ।
दृष्टिम् दृष्ट्या अङ्गम् अङ्गेन बुद्धिम् बुद्ध्या बबन्धतुः ॥ 54 ॥

शय्या-आसन-आटन-स्थान-वार्ता-क्रीडा-आशन-आदिकम् ।
मिथुनी-भूय विस्त्रब्धौ चेरतुः वन-राजिषु ॥ 55 ॥

यम् यम् वाञ्छति सा राजन् तर्पयन्ती अनुकम्पिता ।
तम् तम् समनयत् कामम् कृच्छ्रेण अपि अजित-इन्द्रियः ॥ 56 ॥

कपोती प्रथमम् गर्भम् गृह्णती काले आगते ।
अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती ॥ 57 ॥

तेषु काले व्यजायन्त रचित-अवयवाः हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमल-अङ्ग-तनु-रुहाः ॥ 58 ॥

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वात्सलौ ।
शृण्वन्तौ कूजितम् तासाम् निर्वृतौ कल-भाषितैः ॥ 59 ॥

तासाम् पतत्रैः सु-स्पर्शैः कूजितैः मुग्ध-चेष्टितैः ।
प्रत्युद्गमैः अ-दीनानाम् पितरौ मुदम् आपतुः ॥ 60 ॥

स्नेह-अनुबद्ध-हृदयौ अन्योन्यम् विष्णु-मायया ।
विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥ 61 ॥

एकदा जग्मतुः तासाम् अन्न-अर्थम् तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ 62 ॥

दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छया ततः वन-चरः ।
जगृहे जालम् आतत्य चरतः स्व-आलय-अन्तिके ॥ 63 ॥

कपोतः च कपोती च प्रजा-पोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ॥ 64 ॥

कपोती स्व-आत्मजान् वीक्ष्य बालकान् जाल-संवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृश-दुःखिता ॥ 65 ॥

सा सकृत् स्नेह-गुणिता दीन-चित्ता अज-मायया ।
स्वयम् च अबध्यत शिचा बद्धान् पश्यन्ती अपस्मृतिः ॥ 66 ॥

कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्याम् च आत्म-समाम् दीनः विललाप अति-दुःखितः ॥ 67 ॥

अहो मे पश्यत आपायम् अल्प-पुण्यस्य दुर्मतेः ।
अतृप्तस्य अ-कृत-अर्थस्य गृह-त्रैवर्गिकः हतः ॥ 68 ॥

अनुरूप-अनुकूला च यस्य मे पति-देवता ।
शून्ये गृहे माम् सन्त्यज्य पुत्रैः स्वर्गम् याति साधुभिः ॥ 69 ॥

सः अहम् शून्ये गृहे दीनः मृत-दारः मृत-प्रजः ।
जिजीविषे किम् अर्थम् वा विधुरः दुःख-जीवितः ॥ 70 ॥

तान् तथा एव आवृतान् शिग्भिः मृत्यु-ग्रस्तान् विचेष्टतः ।
स्वयम् च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ 71 ॥

तम् लब्ध्वा लुब्धकः क्रूरः कपोतम् गृह-मेधिनम् ।
कपोतकान् कपोतीम् च सिद्ध-अर्थः प्रययौ गृहम् ॥ 72 ॥

एवम् कुटुम्बी अशान्त-आत्मा द्वन्द्व-आरामः पतत्रि-वत् ।
पुष्णन् कुटुम्बम् कृपणः स-अनुबन्धः अवसीदति ॥ 73 ॥

यः प्राप्य मानुषम् लोकम् मुक्ति-द्वारम् अपावृतम् ।
गृहेषु खग-वत् सक्तः तम् आरूढ-च्युतम् विदुः ॥ 74 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तमः अध्यायः ॥ 7 ॥