ஸ்கந்தம் 1: அத்யாயம் 7
ஸ்ரீமத் பாகவதம்
Srimad Bhagavatham
அஸ்வத்தாமா தண்டிக்கப்பட்டான்
शौनक उवाच
निर्गते नारदे सूत भगवा बादरायण: ।
श्रुतवां तद् अभिप्रेतं तत: किम् अकरोद् विभु: ॥ 1
सूत उवाच
ब्रह्म-नद्यां सरस्वत्याम् आश्रम: पश्चिमे तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्र-वर्धन: ॥ 2
तस्मिन् स्व आश्रमे व्यासो बदरी षण्ड मण्डिते ।
आसीन: अप उपस्पृश्य प्रणिदध्यौ मन: स्वयम् ॥ 3
भक्ति योगेन मनसि सम्यक् प्रणिहिते अमले ।
अपश्यत् पुरुषं पूर्णं मायां च तद् अपाश्रयम् ॥ 4
यया सम्मोहितो जीव आत्मानं त्रिगुण आत्मकम् ।
पर: अपि मनुते अनर्थं तत्कृतं च अभि-पद्यते ॥ 5
अनर्थ: उपशमं साक्षाद् भक्ति योगम् अधोक्षजे ।
लोकस्य अजानत: विद्वां चक्रे सात्वत संहिताम् ॥ 6
यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।
भक्ति: उत्पद्यते पुंस: शोक मोह भय अपहा ॥ 7
स संहितां भागवतीं कृत्वा अनुक्रम्य च आत्मजम् ।
शुकम् अध्यापयाम् आस निवृत्ति निरतं मुनि: ॥ 8
शौनक उवाच
स वै निवृत्ति निरत: सर्वत्र उपेक्षको मुनि: ।
कस्य वा बृहतीम् एताम् आत्माराम: समभ्यसत् ॥ 9
सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अपि उरुक्रमे ।
कुर्वन्ति अहैतुकीं भक्तिम् इत्थम् भूतगुणो हरि: ॥ 10
हरे: गुण आक्षिप्त मति: भगवान् बादरायणि: ।
अध्यगाद् महद् आख्यानं नित्यं विष्णु-जन प्रिय: ॥ 11
परीक्षित: अथ राजर्षे: जन्म-कर्म विलापनम् ।
संस्थां च पाण्डु पुत्राणां वक्ष्ये कृष्ण-कदा-उदयम् ॥ 12
यदा मृधे कौरव सृञ्जयानां
वीरेषु अथो वीरगतिं गतेषु ।
वृकोदर आविद्ध गदा अभिमर्श
भग्न उरु-दण्डे धृतराष्ट्र पुत्रे ॥ 13
भर्तु: प्रियं द्रौणि: इति स्म पश्यन्
कृष्णा-सुतानां स्वपतां शिरांसि ।
उपाहरद् विप्रियम् एव तस्य
जुगुप्सितं कर्म विगर्हयन्ति ॥ 14
माता शिशूनां निधनं सुतानां
निशम्य घोरं परितप्यमाना ।
तदा अरुदद् वाष्प-कल-आकुल-अक्षी
तां सान्त्वयन् आह किरीटमाली ॥ 15
तदा शुच: ते प्रमृजामि भद्रे
यद् ब्रह्म बन्धो: शिर आततायिन: ।
गाण्डीव मुक्तै: विशिख: उपाहरे
त्वा आक्रम्य यत् स्नास्यसि दग्ध-पुत्रा ॥ 16
इति प्रियां वल्गु विचित्र जल्पै:
स सान्त्वयित्वा अच्युत मित्र-सूत: ।
अन्वा-द्रवद् दंशित उग्र-धन्वा
कपिध्वजो गुरुपुत्रं रथेन ॥ 17
तम् आपतन्तं स विलक्ष्य दूरात्
कुमारह: उद्विग्न मना रथेन ।
पराद्रवत् प्राण परीप्सु उरुर्व्यां
यावद् गमं रुद्र-भयाद् यथा क: ॥ 18
यदा अशरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् ।
अस्त्रं ब्रह्म-शिरो मेने आत्म-त्राणं द्विज- आत्मज: ॥ 19
अथ: उपस्पृश्य सलिलं सन्दधे तत् समाहित: ।
अजानन् अपि संहारं प्राण-कृच्छ्र उपस्थिते ॥ 20
तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वत: दिशम् ।
प्राण आपदम् अभिप्रेक्ष्य विष्णुं जिष्णु: उवाच ह ॥ 21
अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर ।
त्वम् एको दह्यमानानाम् अपवर्ग: असि संसृते: ॥ 22
त्वम् आद्य: पुरुष: साक्षाद् ईश्वर: प्रकृते: पर: ।
मायां व्युदस्य चित् छक्त्या कैवल्ये स्थित आत्मनि ॥ 23
स एव जीव लोकस्य माया मोहित चेतस: ।
विधत्से स्वेन वीर्येण श्रेयो धर्मादि लक्षणम् ॥ 24
तथा अयं च अवतार: ते भुवो भार जिहीर्षया ।
स्वानां च अनन्य भावानाम् अनुध्यानाय च असकृत् ॥ 25
किम् इदं स्वित्-कुत: वा इति देवदेव न वेद्मि अहम् ।
सर्वतो मुखम् आयाति तेज: परम दारुणम् ॥ 26
श्रीभगवानुवाच
वेत्थ इदं द्रोण पुत्रस्य ब्रह्मम अस्त्रं प्रदर्शितम् ।
न: इवासौ वेद संहारं प्राण-बाध उपस्थिते ॥ 27
न हि अस्य अन्यतमं किञ्चिद् अस्त्रं प्रति अवकर्शनम् ।
जहि अस्त्र तेज उन्नद्धम् अस्त्रज्ञो हि अस्त्र तेजसा ॥ 28
सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुन: पर-वीरहा ।
स्पृष्ट्वा आप: तं परिक्रम्य ब्राह्मं ब्राह्म अस्त्रं सन्दधे॥ 29
संहत्य अन्योन्यम् उभयो: तेजसी शर संवृते ।
आवृत्य रोदसी खं च ववृधाते अर्क वह्नि-वत् ॥ 30
दृष्ट्वा अस्त्र तेज: तु तयो: त्रील्लोकान् प्रदहत् महत् ।
दह्यमाना: प्रजा: सर्वा: सांवर्तकम् अमंसत ॥ 31
प्रजा उपद्रवम् आलक्ष्य लोक व्यतिकरं च तम् ।
मतं च वासुदेवस्य सञ्जहार अर्जुनो द्वयम् ॥ 32
तत आसाद्य तरसा दारुणं गौतमी सुतम् ।
बबन्ध अमर्ष ताम्र अक्ष: पशुं रशनया यथा ॥ 33
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।
प्राह अर्जुनं प्रकुपित: भगवान् अम्बुजेक्षण: ॥ 34
मैनं पार्थ अर्हसि त्रातुं ब्रह्म बन्धुम् इमं जहि ।
य: असौ अनागस: सुप्तान् अवधीत् निशि बालकान् ॥ 35
मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ 36
स्व-प्राणान् य: पर-प्राणै: प्रपुष्णाति अघृण: खल: ।
तद् वध: तस्य हि श्रेय: यद् दोषाद् याति: अध: पुमान् ॥ 37
प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम ।
आहरिष्ये शिर: तस्य यस्ते मानिनि पुत्र-हा ॥ 38
तद् असौ वध्यतां पाप आततायि आत्म बन्धु-हा ।
भर्तु: च विप्रियं वीर कृतवान् कुल-पांसन: ॥ 39
सूत उवाच
एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: ।
न ऐच्छद् हन्तुं गुरुसुतं यद्यपि आत्महनं महान् ॥ 40