ஸ்கந்தம் 1: அத்யாயம் 6
ஸ்ரீமத் பாகவதம்
Srimad Bhagavatham
வியாசரை 'பாகவதம்'
எழுதச்சொல்கிறார் நாரதர்
सूत उवाच
एवं निशम्य भगवान् देवर्षे: जन्म कर्म च ।
भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवती सुत: ॥ 1
व्यास उवाच
भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: तव ।
वर्तमानो वयसि आद्ये तत: किम् अकरोद् भवान् ॥ 2
स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।
कथं च इदम् उदस्राक्षी: काले प्राप्ते कलेवरम् ॥ 3
प्राक् कल्प विषयाम् एतां स्मृतिं ते मुनिसत्तम ।
न हि एष व्यवधात् काल एष सर्व निराकृति: ॥ 4
नारद उवाच
भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: मम ।
वर्तमानो वयस्याद्ये तत एतद् अकारषम् ॥ 5
एकात्मजा मे जननी योषित् मूढा च किङ्करी ।
मयि आत्मजे अनन्य गतौ चक्रे स्नेह अनु-बन्धनम् ॥ 6
स अस्वतन्त्रा न कल्पा आसीद् योग क्षेमं मम इच्छती ।
ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ 7
अहं च तद् ब्रह्मकुले ऊषिवां तद् उपेक्षया ।
दिग्देश काल अव्युत्पन्नो बालक: पञ्च हायन: ॥ 8
एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।
सर्पो अदशत् पदा स्पृष्ट: कृपणां काल चोदित: ॥ 9
तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सत: ।
अनुग्रहं मन्यमान: प्रातिष्ठं दिशम् उत्तराम् ॥ 10
स्फीतान् जनपदां तत्र पुर ग्राम व्रज आकरान् ।
खेट खर्वट वाटीश्च वनानि उप-वनानि च ॥ 11
चित्र धातु विचित्र अद्रीन् इभ-भग्न भुज द्रुमान् ।
जलाशयान् छिव जलान् नलिनी: सुर सेविता: ।
चित्र स्वनै: पत्र रथै: विभ्रमद् भ्रमर श्रिय: ॥ 12
नल वेणु शर तन्ब कुश कीचक गह्वरम् ।
एक एव अतियातो अहम् अद्राक्षं विपिनं महत् ।
घोरं प्रतिभय आकारं व्याल उलूक शिव अजिरम् ॥ 13
परिश्रान्त इन्द्रिय आत्माहं तृट्परीतो बुभुक्षित: ।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत श्रम: ॥ 14
तस्मिन् निर्मनुजे अरण्ये पिप्पल उपस्थ आश्रित: ।
आत्मनात्मानम् आत्मस्थं यथा श्रुतम् अचिन्तयम् ॥ 15
ध्यायत: चरणाम् भोजं भाव निर्जित चेतसा ।
औत्कण्ठ्य अश्रुकल अक्षस्य हृदि आसीन्मे शनै: हरि: ॥ 16
प्रेमा अतिभर निर्भिन्न पुलक अङ्गो अति-निर्वृत: ।
आनन्द सम्प्लवे लीनो न अपश्यम् उभयं मुने ॥ 17
रूपं भगवतो यत्तन्मन: कान्तं शुचापहम् ।
अपश्यन् सहसा उत्तस्थे वैक्लव्याद् दुर्मना इव ॥ 18
दिदृक्षु: तद् अहं भूय: प्रणिधाय मनो हृदि ।
वीक्षमाणो अपि न अपश्यम् अवितृप्त इव आतुर: ॥ 19
एवं यतन्तं विजने माम् आह अगोचरो गिराम् ।
गम्भीर श्लक्ष्णया वाचा शुच: प्रशमयन् इव ॥ 20
हन्त अस्मिन् जन्मनि भवान् मा मां द्रष्टुमिह अर्हति ।
अविपक्व कषायाणां दुर्दर्शो अहं कुयोगिनाम् ॥ 21
सकृद् यद् दर्शितं रूपम् एतत् कामाय ते अनघ ।
मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ 22
सत्सेवया अदीर्घया अपि जाता मयि दृढा मति: ।
हित्वा अवद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ 23
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजा सर्ग निरोधे अपि स्मृतिश्च मद् अनुग्रहात् ॥ 24
एतावद् उक्त्वा उपरराम तद् महद्
भूतं नभ: लिङ्गम् अलिङ्गम् ईश्वरम् ।
अहं च तस्मै महतां महीयसे
शीर्ष्णा अवनामं विदधे अनुकम्पित: ॥ 25
नामानि अनन्तस्य हत त्रप: पठन्
गुह्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटं तुष्ट मना गतस्पृह:
कालं प्रतीक्षन् विमदो विमत्सर: ॥ 26
एवं कृष्ण मते ब्रह्मन् न आसक्तस्य अमलात्मन: ।
काल: प्रादुर-भूत् काले तडित् सौदामनी यथा ॥ 27
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्ध कर्म निर्वाणो न्यपतत् पाञ्च भौतिक: ॥ 28
कल्प अन्त इदमादाय शयाने अम्भसि उदन्वत: ।
शिशयिषो: अनुप्राणं विविशे अन्त: अहं विभो: ॥ 29
सहस्र युग पर्यन्ते उत्थाय इदं सिसृक्षत: ।
मरीचि मिश्रा ऋषय: प्राणेभ्यो अहं च जज्ञिरे ॥ 30
अन्त: बहि: च लोकां त्रीन् पर्येमि अस्कन्दित व्रत: ।
अनुग्रहान् महाविष्णो: अविघात गति: क्वचित् ॥ 31
देव दत्ताम् इमां वीणां स्वर ब्रह्म विभूषिताम् ।
मूर्च्छयित्वा हरि कथां गायमान: चराम्यहम् ॥ 32
प्रगायत: स्व-वीर्याणि तीर्थ-पाद: प्रिय-श्रवा: ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ 33
एतद् हि आतुर चित्तानां मात्रा स्पर्श इच्छया मुहु: ।
भव सिन्धु प्लवो दृष्टो हरि-चर्य अनुवर्णनम् ॥ 34
यम आदिभि: योग-पथै: काम-लोभ हतो मुहु: ।
मुकुन्द सेवया यद्वत् तथात्म अद्धा न शाम्यति ॥ 35
सर्वं तद् इदम् आख्यातं यत् पृष्ट अहं त्वया अनघ ।
जन्म कर्म रहस्यं मे भवत: च आत्म तोषणम् ॥ 36
सूत उवाच
एवं सम्भाष्य भगवान् नारदो वासवी सुतम् ।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनि: ॥ 37
अहो देवर्षि: धन्य अयं यत् कीर्तिं शार्ङ्ग-धन्वन: ।
गायन् माद्यन् इदं तन्त्र्या रमयति आतुरं जगत् ॥ 38