ஸ்கந்தம் 1: அத்யாயம் 4
ஸ்ரீமத் பாகவதம்
Srimad Bhagavatham
நாரதர் வருகை
व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घ सत्रिणाम् ।
वृद्ध: कुलपति: सूतं बह्वृच: शौनको अब्रवीत् ॥ 1
शौनक उवाच
सूत सूत महाभाग वद नो वदतां वर ।
कथां भागवतीं पुण्यां यदाह भगवाण् सुक: ॥ 2
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ 3
तस्य पुत्रो महायोगी सम-दृङ् निर्विकल्पक: ।
एकान्त मति रुन्निद्रो गूढो मूढ इवेयते ॥ 4
दृष्ट्वा अनुयान्तम् रिषिम् आत्मजम् अपि अनग्नं
देव्यो ह्रिया परिदधु: न सुतस्य चित्रम् ।
तद् वीक्ष्य पृच्छति मुनौ जगदु: तव अस्ति
स्त्री-पुम् भिदा न तु सुतस्य विविक्त दृष्टे: ॥ 5
कथम् आलक्षित: पौरै: सम्प्राप्त: कुरु-जाङ्गलान् ।
उन्मत्त मूक जडवद् विचरन् गज-साह्वये ॥ 6
कथं वा पाण्डवेयस्य राजर्षे: मुनिना सह ।
संवाद: समभूत् तात यत्रैषा सात्वती श्रुति: ॥ 7
स गो-दोहन-मात्रं हि गृहेषु गृहमेधिनाम् ।
अवेक्षते महा-भाग: तीर्थी कुर्वं तद् आश्रमम् ॥ 8
अभिमन्यु-सुतं सूत प्राहु: भागवत उत्तमम् ।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ 9
स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।
प्राय उपविष्टो गङ्गायाम् अनादृत्य अधिराट् श्रियम् ॥ 10
नमन्ति यत्पाद निकेतम् आत्मन:
शिवाय हानीय धनानि शत्रव: ।
कथं स वीर: श्रियम् अङ्ग दुस्त्यजां
युव ऐषत उत्स्रष्टुम्.अहो सह असुभि: ॥ 11
शिवाय लोकस्य भवाय भूतये
य उत्तम श्लोक परायणा जना: ।
जीवन्ति न आत्मार्थम् असौ पराश्रयं
मुमोच निर्विद्य कुत: कलेवरम् ॥ 12
तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।
मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् ॥ 13
जात: पराशराद् योगी वासव्यां कलया हरे: ॥ 14
स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचि: ।
विविक्त एक आसीन उदिते रवि मण्डले ॥ 15
परावरज्ञ: स ऋषि: कालेन अव्यक्त रंहसा ।
युग धर्म व्यतिकरं प्राप्तं भुवि युगे युगे ॥ 16
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।
अश्रद्दधानान् नि:सत्त्वान् दुर्मेधान् ह्रसित आयुष: ॥ 17
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
सर्ववर्ण आश्रमाणां यद् दध्यौ हितम् अमोघ दृक् ॥ 18
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
व्यदधाद् यज्ञ सन्तत्यै वेदमेकं चतुर्विधम् ॥ 19
ऋग् यजु:.साम अथर्व आख्या वेदा: चत्वार उद्धृता: ।
इतिहास पुराणं च पञ्चमो वेद उच्यते ॥ 20
तत्र ऋग् वेद धर: पैल: सामगो जैमिनि: कवि: ।
वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ 21
अथर्व अङ्गिरसाम् आसीत् सुमन्तु: दारुणो मुनि: ।
इतिहास पुराणानां पिता मे रोम हर्षण: ॥ 22
त एत ऋषयो वेदं स्वं स्वं व्यस्यन् अनेकधा ।
शिष्यै: प्रशिष्यै तत् शिष्यै: वेदास्ते शाखिनो अभवन् ॥ 23
त एव वेदा दुर्मेधै: धार्यन्ते पुरुषै: यथा ।
एवं चकार भगवान् व्यास: कृपण वत्सल: ॥ 24
स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा ।
कर्म श्रेयसि मूढानां श्रेय एवं भवेद् इह ।
इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ 25
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।
सर्वात्मकेन अपि यदा न अतुष्यद् ह्रदयं तत: ॥ 26
न अतिप्रसीदद् ह्रदय: सरस्वत्या: तटे शुचौ ।
वितर्कयन् विविक्तस्थ इदं च उवाच धर्मवित् ॥ 27
धृत व्रतेन हि मया छन्दांसि गुरवो अग्नय: ।
मानिता निर्व्यलीकेन गृहीतं चानु शासनम् ॥ 28
भारत व्यपदेशेन हि आम्नाय अर्थश्च प्रदर्शित: ।
दृश्यते यत्र धर्मादि स्त्री शूद्रादिभि: अप्युत ॥ 29
तथापि बत मे दैह्यो हि आत्मा चैव आत्मना विभु: ।
असम्पन्न इव आभाति ब्रह्म वर्चस्य सत्तम: ॥ 30
किं वा भागवता धर्मा न प्रायेण निरूपिता: ।
प्रिया: परम-हंसानां त एव हि अच्युत प्रिया: ॥ 31
तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यत: ।
कृष्णस्य नारदो अभ्यागाद् आश्रमं प्राग् उदाहृतम् ॥ 32
तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतं मुनि: ।
पूजयामास विधिवन् नारदं सुर-पूजितम् ॥ 33