ஸ்ரீகிருஷ்ண பரமாத்மா மறைகிறார்
ஸ்கந்தம் 1: அத்யாயம் 14
सूत उवाच
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धु दिदृक्षया ।
ज्ञातुं च पुण्य श्लोकस्य कृष्णस्य च विचेष्टितम् ॥
व्यतीता: कतिचित् मासा: तदा न आयात् ततो अर्जुन: ।
ददर्श घोर रूपाणि निमित्तानि कुरू-द्वह: ॥
कालस्य च गतिं रौद्रां विपर्यस्त ऋतु धर्मिण: ।
पापीयसीं नृणां वार्तां क्रोध लोभ अनृत आत्मनाम् ॥
जिह्म-प्रायं व्यवहृतं शाठ्य मिश्रं च सौहृदम् ।
पितृ मातृ सुहृद् भ्रातृ दम्पतीनां च कल्कनम् ॥
निमित्तानि अति अरिष्टानि काले तु अनुगते नृणाम् ।
लोभ आदि अधर्म प्रकृतिं दृष्ट्वा उवाच अनुजं नृप: ॥
युधिष्ठिर उवाच
सम्प्रेषित: द्वारकायां जिष्णु: बन्धु दिदृक्षया ।
ज्ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् ॥
गता: सप्त अधुना मासा भीमसेन तव अनुज: ।
न आयाति कस्य वा हेतो: न: अहं वेद इदम् अञ्जसा ॥
अपि देवर्षिणा आदिष्ट: स कालो अयम् उपस्थित: ।
यदा आत्मनो अङ्गम् आक्रीडं भगवान् उत्सिसृक्षति ॥
यस्मात् न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: ।
आसन् सपत्न विजयो लोका: च यद् अनुग्रहात् ॥
पश्य उत्पातान् नर-व्याघ्र दिव्यान् भौमान् स-दैहिकान् ।
दारुणान् शंसतो अदूराद् भयं नो बुद्धि मोहनम् ॥
ऊरु अक्षि बाहवो मह्यं स्फुरन्ति अङ्ग पुन: पुन: ।
वेपथु: च अपि हृदये आराद् दास्यन्ति विप्रियम् ॥
शिवैषा उद्यन्तम् आदित्यम् अभि रौति अनल आनना ।
माम् अङ्ग सारमेयो अयम् अभिरेभति अभीरु-वत् ॥
शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशव अपरे ।
वाहां: च पुरुष-व्याघ्र लक्षये रुदतो मम ॥
मृत्यु दूत: कपोत अयम् उलूक: कम्पयन् मन: ।
प्रत्युलूक: च कुह्वानै: विश्वं वै शून्यम् इच्छत: ॥
धूम्रा दिश: परिधय: कम्पते भू: सह-अद्रिभि: ।
निर्घात: च महां तात साकं च स्तनयित्नुभि: ॥
वायु: वाति खर-स्पर्शो रजसा विसृजं तम: ।
असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वत: ॥
सूर्यं हत-प्रभं पश्य ग्रह-मर्दं मिथो दिवि ।
स-सङ्कुलै: भूत-गणै ज्वलिते इव रोदसी ॥
नद्यो नदा: च क्षुभिता: सरांसि च मनांसि च ।
न ज्वलति अग्नि: आज्येन काल: अयं किं विधास्यति ॥
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: ।
रुदन्ति अश्रु मुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥
दैवतानि रुदन्ति इव स्विद्यन्ति हि उच्चलन्ति च ।
इमे जनपदा ग्रामा: पुर उद्यान आकर आश्रमा: ।
भ्रष्ट श्रियो निरानन्दा: किम् अघं दर्शयन्ति न: ॥
मन्य एतै: महा उत्पातै: नूनं भगवत: पदै: ।
अनन्य पुरुष श्रीभि: हीना भू: हत सौभगा ॥
इति चिन्तयत: तस्य दृष्टा अरिष्टेन चेतसा ।
राज्ञ: प्रति आगमद् ब्रह्मन् यदु-पुर्या: कपिध्वज: ॥
तं पादयो निपतितम् अयथा पूर्वम् आतुरम् ।
अधो वदनम् अब् बिन्दून् सृजन्तं नयन अब्जयो: ॥
विलोक्य उद्विग्न हृदयो विच्छायम् अनुजं नृप: ।
पृच्छति स्म सुहृन्मध्ये संस्मरन् नारद ईरितम् ॥
युधिष्ठिर उवाच
कच्चिद् आनर्त पुर्यां न: स्व-जना: सुखम् आसते ।
मधु भोज दशार्ह अर्ह सात्वत अन्धक वृष्णय: ॥
शूरो मातामह: कच्चित् स्वस्ति आस्ते वा अथ मारिष: ।
मातुल: स-अनुज: कच्चित् कुशलि आनक दुन्दुभि: ॥
सप्त स्व-सार: तत्पत्न्यो मातुलान्य: सह आत्मजा: ।
आसते सस्नुषा: क्षेमं देवकी प्रमुखा: स्वयम् ॥
कच्चिद् राज आहुको जीवति असत्पुत्र: अस्य च अनुज: ।
हृदीक: स-सुत: अक्रूरो जयन्त गद सारणा: ॥
आसते कुशलं कच्चिद्ये च शत्रुजिद् आदय: ।
कच्चिद् आस्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥
प्रद्युम्न: सर्व वृष्णीनां सुखम् आस्ते महारथ: ।
गम्भीर रय: अनिरुद्धो वर्धते भगवानुत ॥
सुषेण: चारुदेष्ण: च साम्बो जाम्बवती सुत: ।
अन्ये च कार्ष्णि प्रवरा: स-पुत्रा ऋषभ आदय: ॥
तथैव अनुचरा: शौरे: श्रुतदेव उद्धव आदय: ।
सुनन्द नन्द शीर्षण्या ये च: अन्ये सात्वत ऋषभा: ॥
अपि स्वस्ति आसते सर्वे राम-कृष्ण भुज आश्रया: ।
अपि स्मरन्ति कुशलम् अस्माकं बद्ध सौहृदा: ॥
भगवानपि गोविन्दो ब्रह्मण्यो भक्त-वत्सल: ।
कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद् वृत: ॥
मङ्गलाय च लोकानां क्षेमाय च भवाय च ।
आस्ते यदु कुल अम्भोधौ आद्य अनन्त सख: पुमान् ॥
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: ।
क्रीडन्ति परमानन्दं महा पौरुषिका इव ॥
यत्पाद शुश्रूषण मुख्य कर्मणा सत्य-आदय द्वि अष्ट सहस्र योषित: ।
निर्जित्य सङ्ख्ये त्रि-दशां तद् आशिष: हरन्ति वज्र-आयुध वल्लभा उचिता: ॥
यद् बाहु-दण्ड अभ्युदय अनुजीविन यदु प्रवीरा हि अकुतोभया मुहु: ।
अधिक्रमन्ति अङ्घ्रिभि: आहृतां बलात् सभां सुधर्मां सुर सत्तम उचिताम् ॥
कच्चित्ते अनामयं तात भ्रष्ट तेजा विभासि मे ।
अलब्ध मान: अवज्ञात: किं वा तात चिरोषित: ॥
कच्चित् न अभिहत: अभावै: शब्द आदिभि: अमङ्गलै: ।
न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥
कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।
शरण-उपसृतं सत्त्वं न अत्याक्षी: शरण प्रद: ॥
कच्चित् त्वं न अगम: अगम्यां गम्यां वा असत्कृतां स्त्रियम् ।
पराजितो वाथ भवान् न उत्तमै: न असमै: पथि ॥
अपि स्वित् पर्य भुङ्क्था: त्वं सम्भोज्यान् वृद्ध बालकान् ।
जुगुप्सितं कर्म किञ्चित् कृतवान् न यद् अक्षमम् ॥
कच्चित् प्रेष्ठ तमेन अथ हृदयेन आत्म बन्धुना ।
शून्य: अस्मि रहितो नित्यं मन्यसे ते अन्यथा न रुक् ॥