ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம்
ஸ்கந்தம் 10: அத்யாயம் 52
श्री-शुकः उवाच –
इत्थम् सः अनुग्रहीतः अङ्ग कृष्णेन इक्ष्वाकु-नन्दनः।
तम् परिक्रम्य सन्नम्य निःचक्राम गुहा-मुखात्॥ १ ॥
सः वीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुत्-वनस्पतीन्।
मत्वा कलि-युगम् प्राप्तम् जगाम दिशम् उत्तराम्॥ २ ॥
तपः-श्रद्धा-युतः धीरो निःसङ्गः मुक्त-संशयः।
समाधाय मनः कृष्णे प्राविशत् गन्ध-मादनम्॥ ३ ॥
बदर्याश्रमम् आसाद्य नर-नारायण-आलयम्।
सर्व-द्वन्द्व-सहः शान्तः तपसा आराधयत् हरिम्॥ ४ ॥
भगवान् पुनः-आव्रज्य पुरीम् यवन-वेष्टिताम्।
हत्वा म्लेच्छ-बलम् निन्ये तदीयम् द्वारकाम् धनम्॥ ५ ॥
नीयमाने धने गोभिः नृभिः च अच्युत-चोदितैः।
आजगाम जरासन्धः त्रयो-विंशति-अनीकपः॥ ६ ॥
विलोक्य वेग-रभसम् रिपु-सैन्यस्य माधवौ।
मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुः द्रुतम्॥ ७ ॥
विहाय वित्तम् प्रचुरम् अभीतौ भीरु-भीत-वत्।
पद्भ्याम् पद्म-पलाशाभ्याम् चेलतुः बहु-योजनम्॥ ८ ॥
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली।
अन्वधावत् रथ-अनीकैः ईशयोः अप्रमाण-वित्॥ ९ ॥
प्रद्रुत्य दूरम् संश्रान्तौ तुङ्गम् आरुहताम् गिरिम्।
प्रवर्षण-आख्यम् भगवान् नित्यदा यत्र वर्षति॥ १० ॥
गिरौ निलीनौ अविज्ञाय न अधिगम्य पदम् नृप।
ददाह गिरिम् एधोभिः समन्तात् अग्निम् उत्सृजन्॥ ११ ॥
ततः उत्पत्य तरसा दह्यमान-तटात् उभौ।
दश-एक-योजनात् तुङ्गात् निपेततुः अधः भुवि॥ १२ ॥
अलक्ष्य-माणौ रिपुणा स-अनुगेन यदु-उत्तमौ।
स्व-पुरम् पुनः-आयातौ समुद्र-परिखाम् नृप॥ १३ ॥
सः अपि दग्धौ इति मृषा मन्वानः बल-केशवौ।
बलम् आकृष्य सुमहम् मगधान् मागधः ययौ॥ १४ ॥
आनर्त-अधिपतिः श्रीमन् रैवतः रैवतीम् सुताम्।
ब्रह्मणा चोदितः प्रादात् बलाय इति पुरा-उदितम्॥ १५ ॥
भगवान् अपि गोविन्दः उपयेमे कुरु-उद्वह।
वैदर्भीम् भीष्मक-सुताम् श्रियः मात्राम् स्वयंवरे॥ १६ ॥
प्रमथ्य तरसा राज्ञः शाल्व-आदीन् च ऐद्य-पक्षगान्।
पश्यताम् सर्व-लोकानाम् तार्क्ष्य-पुत्रः सुधाम् इव॥ १७ ॥
श्री-राजा उवाच –
भगवान् भीष्मक-सुताम् रुक्मिणीम् रुचिर-आननाम्।
राक्षसेन विधानेन उपयेमे इति श्रुतम्॥ १८ ॥
भगवन् श्रोतुम् इच्छामि कृष्णस्य अमित-तेजसः।
यथा मागध-शाल्व-आदीन् जित्वा कन्याम् उपाहरत्॥ १९ ॥
ब्रह्मन् कृष्ण-कथाः पुण्याः माध्वीः लोक-मल-अपहाः।
कः नु तृप्येत शृण्वानः श्रुत-ज्ञः नित्य-नूतनाः॥ २० ॥
श्री शुक उवाच
राजा-आसीत् भीष्मकः नाम विदर्भाधिपतिर्महान्।
तस्य पञ्च-आभवन् पुत्राः कन्या-एका च वर-अनना ॥ २१
रुक्म्यग्रजः रुक्मरथः रुक्मबाहुः अनन्तरः।
रुक्मकेशः रुक्ममाली रुक्मिण्याः एषां स्वसा सती ॥ २२
सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः।
गृह-आगतानि गीयमानास्तं मेने सदृशं पतिम् ॥ २३
तां बुद्धि-लक्षण-औदार्य रूप-शील-गुण-आश्रयाम्।
कृष्णः च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४
बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप।
ततो निवार्य कृष्णद्विड् रुक्मी चैद्यम् अन्यम् अन्यत् ॥ २५
तदवेत्या-आसितापाङ्गी वैदर्भी दुर्मना भृशम्।
विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद्ध्रुतम् ॥ २६
द्वारकाम् स समभ्येत्य प्रतीहारैः प्रवेशितः।
अपश्यदाद्यं पुरुषं आसीनं काञ्चनासनात् ॥ २७
दृष्ट्वा ब्रह्मण्यदेवः तम् अवरुह्य निजासनात्।
उपवेश्यार्हयां चक्रे यथा-आत्मानं दिवौकसः ॥ २८
तम् भुक्तवंतं विश्रान्तम् उपगम्य सतां गतिः।
पाणिनाभिमृशन् पादौव्यग्रस्तम् अपृच्छत ॥ २९
कच्चिद् द्विजवर-श्रेष्ठ धर्मस्ते वृद्ध-सम्मतः।
वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा ॥ ३०
सन्तुष्टो यः-र्हि वर्तेत ब्राह्मणो येन केनचित्।
अहीयमानः स्वाद्धर्मात् स ह्यस्याखिल-कामधुक् ॥ ३१
असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः।
अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥ ३२
विप्रान् स्वलाभ-सन्तुष्टान् साधून् भूत-सुहृत्-तान्।
निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ ३३
कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः।
सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३४
यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया।
सर्वं नो ब्रूह्यगुह्यं चेत् किं कार्यं करवाम ते ॥ ३५
एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना।
लीलागृहीत-देहेन तस्मै सर्वमवर्णयत् ॥ ३६
श्री रुक्मिण्युवाच
श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते
निर्विश्य कर्णविवरैः हरतोऽङ्गतापम्।
रूपं दृशां दृशिमताम् अखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७
का त्वा मुकुन्द महती कुल-शील-रूप
विद्या-वयो-ध्रविण-धाम-भिरात्मतुल्यम्।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नर-लोक-मनोऽभिरामम् ॥ ३८
तन्मे भवान् खलु वृतः पतिरङ्ग जायाम्
आत्मार्पितश्च भवतोऽत्र विभो विधेहि।
मा वीर-भागमभिमर्शतु चैद्य आराद्
गोमायु-वन्मृग-पतेर्बलिमम्बुजाक्ष ॥ ३९
पूर्तेष्टदत्त-नियम-व्रत-देवविप्र
गुरु-वर्चनादिभिरलं भगवान् परेशः।
आराधितो यदि गदा-अग्रज एत्य पाणिं
गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४०
श्वो भाविनि त्वमजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतनापतिभिः परीतः।
निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्॥ ४१
अन्तःपुरान्तरचरी मनिहत्य बन्धून्
त्वामुद्वहे कथमिति प्रवदाम्युपायम्।
पूर्वेद्युरस्ति महती कुलदेवयात्रा
यस्यां बहिर्नववधू: गिरिजामुपेयात् ॥ ४२
यस्य आङ्घ्रि पङ्कज रजः स्नपनं महान्तो
वाञ्छन्ति उमापतिरिव आत्मतमोऽपहत्यै।
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात्॥ ४३
ब्राह्मण उवाच
इत्येते गुह्यसन्देशा यदुदेव मया आहृताः ।
विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम्॥ ४४