சத்ரார்ஜித் மரணம்
ஸ்கந்தம் 10: அத்யாயம் 57
श्रीशुक उवाच
विज्ञात-अर्थः अपि गोविन्दः दग्धान् आकर्ण्य पाण्डवान्।
कुन्तीम् च कुल्य-करणे स-रामः ययौ कुरून्॥ १ ॥
भीष्मम् कृपम् स-विदुरम् गान्धारीम् द्रोणम् एव च।
तुल्य-दुःखौ च संगम्य हा कष्टम् इति होचतुः॥ २ ॥
लब्ध्वा एतत् अन्तरम् राजन् शतधन्वानम् ऊचतुः।
अक्रूर-कृतवर्माणौ मणिः कस्मात् न गृह्यते॥ ३ ॥
यः अस्मभ्यम् सम्प्रतिश्रुत्य कन्या-रत्नम् विगर्ह्य नः।
कृष्णाय आदात् न सत्राजित् कस्मात् भ्रातरम् अन्वियात्॥ ४ ॥
एवम् भिन्न-मतिः ताभ्याम् सत्राजितम् असत्तमः।
शयानम् अवधीत् लोभात् स पापः क्षीण-जीवितः॥ ५ ॥
स्त्रीणाम् विक्रोशमानानाम् क्रन्दन्तीनाम् अनाथवत्।
हत्वा पशून् सौनिकवत् मणिम् आदाय जग्मिवान्॥ ६ ॥
सत्यभामा च पितरम् हतम् वीक्ष्य शुच-अर्पिता।
व्यलपत् तात तात इति हा हता अस्मि इति मुह्यती॥ ७ ॥
तैल-द्रोण्याम् मृतम् प्रास्य जगाम गजसाह्वयम्।
कृष्णाय विदित-अर्थाय तप्ता आचख्यौ पितुः वधम्॥ ८ ॥
तत् आकर्ण्य ईश्वरौ राजन् अनुसृत्य नृ-लोकताम्।
अहो नः परमम् कष्टम् इति अस्र-अक्षौ विलेपतुः॥ ९ ॥
आगत्य भगवाः तत् स्मात् स-भार्यः स-अग्रजः पुरम्।
शतधन्वानम् आरेभे हन्तुम् हर्तुम् मणिम् ततः॥ १० ॥
सः अपि कृत-उद्यमम् ज्ञात्वा भीतः प्राण-परिप्सया।
साहाय्ये कृतवर्माणम् अयाचत सः च अब्रवीत्॥ ११ ॥
न अहम् ईश्वरयोः कुर्याम् हेलनम् राम-कृष्णयोः।
कः नु क्षेमाय कल्पेत तयोः वृजिनम् आचरन्॥ १२ ॥
कंसः सह-अनुगः अपि इतः यत् द्वेषात् त्याजितः श्रिया।
जरासन्धः सप्तदश संयुगान् विरथः गतः॥ १३ ॥
प्रत्याख्यातः सः च अक्रूरम् पार्ष्णि-ग्राहम् अयाचत।
सः अपि आह कः विरुध्येत विद्वान् ईश्वरयोः बलम्॥ १४ ॥
यः इदम् लीलया विश्वम् सृजति अवति हन्ति च।
चेष्टाम् विश्व-सृजः यस्य न विदुः मोहिता अजया॥ १५ ॥
यः सप्त-हायनः शैलम् उत्पाट्य एकेन पाणिना।
दधार लीलया बालः उच्छिलीन्ध्रम् इव अर्भकः॥ १६ ॥
नमः तस्मै भगवते कृष्णाय अद्भुत-कर्मणे।
अनन्ताय आदि-भूताय कूटस्थाय आत्मने नमः॥ १७ ॥
प्रत्याख्यातः सः तेन अपि शतधन्वा महा-मणिम्।
तस्मिन् न्यस्य अश्वम् आरुह्य शत-योजन-गम् ययौ॥ १८ ॥
गरुड-ध्वजम् आरुह्य रथम् राम-जनार्दनौ।
अन्वयाताम् महा-वेगैः अश्वैः राजन् गुरु-द्रुहम्॥ १९ ॥
मिथिलायाम् उपवने विसृज्य पतितम् हयम्।
पद्भ्याम् अधावत् सन्त्रस्तः कृष्णः अपि अन्वद्रवत् रुषा॥ २० ॥
पदातेः भगवाः तस्य पदातिः तिग्म-नेमिना।
चक्रेण शिरः उत्कृत्य वाससः व्यचिनोत् मणिम्॥ २१ ॥
अलब्ध-मणिः आगत्य कृष्णः आह अग्रज-अन्तिकम्।
वृथा हतः शतधनुः मणिः तत्र न विद्यते॥ २२ ॥
ततः आह बलः नूनम् सः मणिः शतधन्वना।
कस्मिंश्चित् पुरुषे न्यस्तः तम् अन्वेष पुरम् व्रज॥ २३ ॥
अहं वैदेहम् इच्छामि द्रष्टुम् प्रियतमम् मम।
इति उक्त्वा मिथिलाम् राजन् विवेश यदु-नन्दनः॥ २४ ॥
तम् दृष्ट्वा सहसा उत्थाय मैथिलः प्रीत-मानसः।
अर्हयामास विधिवत् अर्हणीयं समर्हणैः॥ २५ ॥
उवास तस्याम् कतिचित् मिथिलायाम् समाः विभुः।
मानितः प्रीति-युक्तेन जनकेन महात्मना॥ २६ ॥
ततः अशिक्षत् गदाम् काले धार्तराष्ट्रः सुयोधनः॥ २६ ॥
केशवः द्वारकाम् एत्य निधनम् शतधन्वनः।
अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृत् विभुः॥ २७ ॥
ततः सः कारयामास क्रियाः बन्धोः हतस्य वै।
साकम् सुहृद्भिः भगवान् या याः स्युः साम्परायिकाः॥ २८ ॥
अक्रूरः कृतवर्मा च श्रुत्वा शतधनुः-वधम्।
व्यूषतुः भय-वित्रस्तौ द्वारकायाः प्रयोजकौ॥ २९ ॥
अक्रूरे प्रोषिते अरिष्टान् आसन् वै द्वारका-उकसाम्।
शारीराः मानसाः तापाः मुहुः दैविक-भौतिकाः॥ ३० ॥
इति अङ्ग उपदिशन्ति एके विस्मृत्य प्राक्-उदाहृतम्।
मुनि-वास निवासे किं घटेत अरिष्ट-दर्शनम्॥ ३१ ॥
देवे अवर्षति काशी-ईशः श्वफल्काय आगताय वै।
स्वसुताम् गान्दिनीम् प्रादात् ततः अवर्षत् स्म काशिषु॥ ३२ ॥
तत्सुतः तत्-प्रभावः असौ अक्रूरः यत्र यत्र ह।
देवः अभिवर्षते तत्र न उपतापाः न मारिकाः॥ ३३ ॥
इति वृद्ध-वचः श्रुत्वा न एतावत् इह कारणम्।
इति मत्वा समानाय्य प्राह अक्रूरम् जनार्दनः॥ ३४ ॥
पूज्यित्वा अभिभाष्य एनम् कथयित्वा प्रियाः कथाः।
विज्ञत-अखिल-चित्त-ज्ञः स्मयमानः उवाच ह॥ ३५ ॥
ननु दान-पते न्यस्तः त्वयि आस्ते शतधन्वना।
स्यमन्तकः मणिः श्रीमान् विदितः पूर्वम् एव नः॥ ३६ ॥
सत्राजितः अनपत्यत्वात् गृह्णीयुः दुहितुः सुताः।
दायम् निनीय आपः पिण्डान् विमुच्य अर्णम् च शेषितम्॥ ३७ ॥
तथापि दुर्धरः त्वन्यैः त्वयि आस्ताम् सुव्रते मणिः।
किन्तु माम् अग्रजः सम्यक् न प्रत्येति मणिम् प्रति॥ ३८ ॥
दर्शयस्व महा-भाग बन्धूनाम् शान्तिम् आवह।
अव्युच्छिन्नाः मखाः ते अद्य वर्तन्ते रुक्म-वेदयः॥ ३९ ॥
एवम् सामभिः आलब्धः श्वफल्क-तनयः मणिम्।
आदाय वाससा आच्छन्नम् ददौ सूर्य-सम-प्रभम्॥ ४० ॥
स्यमन्तकम् दर्शयित्वा ज्ञातिभ्यः रज आत्मनः।
विमृज्य मणिना भूयः तस्मै प्रत्यर्पयत् प्रभुः॥ ४१ ॥
यस्त्वेतद् भगवत् ईश्वरस्य विष्णोः
वीर्याढ्यं वृजिन-हरं सुमङ्गलम् च।
आख्यानं पठति शृणोत्य अनुस्मरेद् वा
दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम्॥ ४२ ॥
No comments:
Post a Comment