ருக்மி வதம்
ஸ்கந்தம் 10: அத்யாயம் 61
श्रीशुक उवाच एकैकशः ताः कृष्णस्य पुत्रान् दश दश अबलाः। अजीजनन् अनवमान् पितुः सर्व-आत्म-सम्पदा ॥ 1 ॥ गृहात् अनपगम् वीक्ष्य राज-पुत्र्यः अच्युतम् स्थितम्। प्रेष्ठम् न्यमंसत स्वम् स्वम् न तत्-तत्त्व-विदः स्त्रियः ॥ 2 ॥ चारु-अब्ज-कोश-वदन-आयत-बाहु-नेत्र- स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः। सम्मोहिता भगवतः न मनः विजेतुम् स्वैः विभ्रमैः समशकन् वानिता विभूम्नः ॥ 3 ॥ स्माय-अवलोक-लव-दर्शित-भाव-हारि- भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः। पत्न्यः तु षोडश-सहस्रम् अनङ्ग-बाणैः यस्य इन्द्रियम् विमथितुम् करणैः न शेकुः ॥ 4 ॥ इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम्। भेजुः मुदा अविरत-मेधित-या अनुराग- हास-अवलोक-नव-सङ्गम-लालसा-अद्यं ॥ 5 ॥ प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच- ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः। केश-प्रसार-शयन-स्नपन-उपहार्यैः दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ 6 ॥ तासाम् या दश-पुत्राणाम् कृष्ण-स्त्रीणाम् पुरा उदिताः। अष्टौ महिष्यः तत्-पुत्रान् प्रद्युम्न-आदीन् गृणामि ते ॥ 7 ॥ चारु-देष्णः सुदेष्णः च चारु-देहः च वीर्यवान्। सुचारुः चारु-गुप्तः च भद्र-चारुः तथा अपरः ॥ 8 ॥ चारु-चन्द्रः विचारुः च चारुः च दशमः हरेः। प्रद्युम्न-प्रमुखाः जाताः रुक्मिण्याम् न अवमाः पितुः ॥ 9 ॥ भानुः सुभानुः स्वः-भानुः प्रभानुः भानु-मान् तथा। चन्द्र-भानुः बृहद्-भानुः अतिभानुः तथा अष्टमः ॥ 10 ॥ श्री-भानुः प्रतिभानुः च सत्य-भामा-आत्मजा दश। साम्बः सुमित्रः पुरुजित् शतजित् च सहस्रजित् ॥ 11 ॥ विजयः चित्रकेतुः च वसुमान् द्रविडः क्रतुः। जाम्बवत्या ः सुताः हि एते साम्ब-आद्याः पितृ-सम्मताः ॥ 12 ॥ वीरः चन्द्रः अश्वसेनः च चित्रगुः वेगवान् वृषः। आमः शङ्कुः वसुः श्रीमान् कुन्तिः नाग्नजितेः सुताः ॥ 13 ॥ श्रुतः कविः वृषः वीरः सुबाहुः भद्रः एकलः। शान्तिः दर्शः पूर्णमासः कालिन्द्याः सोमकः अवरः ॥ 14 ॥ प्रघोषः गात्रवान् सिंहः बलः प्रबलः ऊर्ध्वगः। माद्र्याः पुत्राः महा-शक्तिः सः ओजः अपराजितः ॥ 15 ॥ वृकः हर्षः अनिलः गृध्रः वर्धनः अन्नादः एव च। महा-अशः पावनः वह्निः मित्रविन्दा-आत्मजाः क्षुधिः ॥ 16 ॥ सङ्ग्राम-जित् बृहत्सेनः शूरः प्रहरणः अरिजित्। जयः सुभद्रः भद्रायाः वामः आयुः च सत्यकः ॥ 17 ॥ दीप्तिमान् ताम्र-तप्त-आद्याः रोहिण्याः तनयाः हरेः। प्रद्युम्नात् च अनिरुद्धः अभूत् रुक्मवत्याम् महा-बलः ॥ 18 ॥ पुत्र्याम् तु रुक्मिणः राजन् नाम्ना भोजकटे पुरे। एतेषाम् पुत्र-पौत्राः च बभूवुः कोटिशः नृप ॥ मातरः कृष्ण-जातीनाम् सहस्राणि च षोडश ॥ 19 ॥ श्रीराजा उवाच कथम् रुक्म्य-रिपुत्राय प्रादात् दुहितरम् युधि। कृष्णेन परिभूतः तम् हन्तुम् रन्ध्रम् प्रतीक्षते। एतत् आख्याहि मे विद्वन् द्विषोः वैवाहिकम् मिथः ॥ 20 ॥
अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम्।
विप्रकृष्टम् व्यवहितम् सम्यक् पश्यन्ति योगिनः॥ २१ ॥
श्रीशुक उवाच
वृतः स्वयंवरे साक्षात् अनङ्गः अङ्ग-युतः तया।
राज्ञः समेतान् निर्जित्य जहार एक-रथः युधि॥ २२ ॥
यद्यपि अनुस्मरन् वैरम् रुक्मी कृष्ण-अवमानितः।
व्यतरत् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम्॥ २३ ॥
रुक्मिण्याः तनयाम् राजन् कृतवर्म-सुतः बली।
उपयेमे विशालाक्षीं कन्यां चारुमतीम् किल॥ २४ ॥
दौहित्राय अनिरुद्धाय पौत्रीं रुक्म्यात् अदात् हरेः।
रोचनाम् बद्ध-वैरः अपि स्वसुः प्रिय-चिकीर्षया।
जानन् अधर्मम् तत् यौनम् स्नेह-पाश-अनुबन्धनः॥ २५ ॥
तस्मिन् अभ्युदये राजन् रुक्मिणी राम-केशवौ।
पुरम् भोजकटम् जग्मुः साम्ब-प्रद्युम्न-कादयः॥ २६ ॥
तस्मिन् निवृत्ते उद्वाहे कालिङ्ग-प्रमुखाः नृपाः।
दृप्ताः ते रुक्मिणम् प्रोचुः बलम् अक्षैः विनिर्जय॥ २७ ॥
अनक्ष-ज्ञः हि अयम् राजन् अपि तत् व्यसनम् महत्।
इति उक्तः बलम् आहूय तेन अक्षैः रुक्म्य दीव्यत॥ २८ ॥
शतम् सहस्रम् अयुतम् रामः तत्र आददे पणम्।
तम् तु रुक्मी अजयत् तत्र कालिङ्गः प्राहसत् बलम्।
दन्तान् सन्दर्शयन् उच्चैः न अमृष्यत् तत् हलायुधः॥ २९ ॥
ततः लक्षम् रुक्मी अगृह्णात् ग्लहम् तत्र अजयत् बलः।
जितवान् अहम् इति आह रुक्मी कैतवम् आश्रितः॥ ३० ॥
मन्युना क्षुभितः श्रीमान् समुद्रः इव पर्वणि।
जाति-अरुण-अक्षः अति-रुषा न्यर्बुदम् ग्लहम् आददे॥ ३१ ॥
तम् च अपि जितवान् रामः धर्मेण च्छलम् आश्रितः।
रुक्मी जितम् मया अत्र इमे वदन्तु प्राश्निकाः इति॥ ३२ ॥
तदा अब्रवीत् नभः-वाणी बलेन एव जितः ग्लहः।
धर्मतः वचनेन एव रुक्मी वदति वै मृषा॥ ३३ ॥
ताम् अनादृत्य वैदर्भः दुष्ट-राजन्य-चोदितः।
सङ्कर्षणम् परिहसन् बभाषे काल-चोदितः॥ ३४ ॥
न एव अक्ष-कोविदाः यूयम् गोपालाः वन-गोचराः।
अक्षैः दीव्यन्ति राजानः बाणैः च न भवत्-दृशाः॥ ३५ ॥
रुक्मिणा एवम् अधिक्षिप्तः राजभिः च उपहासितः।
क्रुद्धः परिघम् उद्यम्य जघ्ने तम् नृ-म्न-संसदि॥ ३६ ॥
कलिङ्ग-राजम् तरसा गृहीत्वा दशमे पदे।
दन्तान् अपातयत् क्रुद्धः यः अहसत् विवृतैः द्विजैः॥ ३७ ॥
अन्ये निर्भिन्न-बाहु-ऊरु-शिरसः रुधिर-उक्षिताः।
राजानः दुद्रुवुः भीताः बलेन परिघ-अर्दिताः॥ ३८ ॥
निहते रुक्मिणि श्याले न अब्रवीत् साधु असाधु वा।
रुक्मिणी-बलयोः राजन् स्नेह-भङ्ग-भयात् हरिः॥ ३९ ॥
ततः अनिरुद्धम् सह सूर्यया वरम्
रथम् समारोप्य ययुः कुशस्थलीम्।
राम-आदयः भोजकटात् दशार्हाः
सिद्ध-अखिल-अर्थाः मधुसूदन-आश्रयाः॥ ४० ॥
No comments:
Post a Comment