அகாசுரன் மோக்ஷம்
ஸ்கந்தம் 10: அத்யாயம் 12
श्रीशुक उवाच
क्वचित् वन-आशाय मनः दधत् व्रजात्
प्रातः समुत्थाय वयस्य-वत्सपान्।
प्रबोधयन् श्रृङ्ग-रवेण चारुणा
विनिर्गतः वत्स-पुरःसरः हरिः ॥१॥
तेन एव साकं पृथुकाः सहस्रशः
स्निग्धाः सु-शिग्वेत्र-विषाण-वेणवः।
स्वान् स्वान् सहस्रः परिसङ्ख्यान्वितान्
वत्सान् पुरस्कृत्य विनिर्ययुः मुदा ॥२॥
कृष्ण-वत्सैः असङ्ख्यातैः यूथीकृत्य स्व-वत्सकान्।
चारयन्तः अर्भ-लीलाभिः विजह्रुः तत्र तत्र ह ॥३॥
फल-प्रबाल-स्तबक-सुमनः-पिच्छ-धातुभिः।
काच-गुञ्जा-मणि-स्वर्ण-भूषिताः अपि अभूषयन् ॥४॥
मुष्णन्तः अन्योन्य-शिक्य-आदीन् ज्ञातान् आरा-अच्च चिक्षिपुः।
तत्रत्याः च पुनः दूरात् हसन्तः च पुनः अददुः ॥५॥
यदि दूरं गतः कृष्णः वन-शोभा-ईक्षणाय तम्।
अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥६॥
केचित् वेणून् वादयन्तः ध्मान्तः श्रृङ्गाणि केचन।
केचित् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥७॥
विच्छायाभिः प्रधावन्तः गच्छन्तः साधु हंसकैः।
बकैः उपविशन्तः च नृत्यन्तः च कलापिभिः ॥८॥
विकर्षन्तः कीश-बालान् आरोहन्तः च तैः द्रुमान्।
विकुर्वन्तः च तैः साकं प्लवन्तः च पलाशिषु ॥९॥
साकं भेकैः विलङ्घन्तः सरित्-प्रस्रव-संप्लुताः।
विहसन्तः प्रति-छायाः शपन्तः च प्रति-स्वनान् ॥१०॥
इत्थं सतां ब्रह्म-सुख-अनुभूत्याः
दास्यं गतानां पर-दैवतेन।
माया-आश्रितानां नर-दारकेण
साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥११॥
यत् पाद-पांसुः बहु-जन्म-कृच्छ्रतः
धृत-आत्मभिः योगिभिः अपि अलभ्यः।
स एव यत्-दृक्-विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टम् अतः व्रज-औकसाम् ॥१२॥
अथ अघ-नाम आभ्यपतत् महा-असुरः
तेषां सुख-क्रीडन-वीक्षण-अक्षमः।
नित्यं यत् अन्तः निज-जीवित-ईप्सुभिः
पीत-अमृतैः अपि अमरैः प्रतीक्ष्यते ॥१३॥
दृष्ट्वा अर्भकान् कृष्ण-मुखान् अघासुरः
कंस-अनुशिष्टः स बकी-बक-अनुजः।
अयं तु मे स-उदर-नाश-कृत्
तयोः द्वयोः मम एनं सबलम् हनिष्ये ॥१४॥
एते यदा मत्-सुहृदः तिलापः
कृताः तदा नष्ट-समाः व्रज-औकसः।
प्राणे गते वर्ष्मसु का नु चिन्ता
प्रजा-असवः प्राण-भृतः हि ये ते ॥१५॥
इति व्यवस्य अजगरं बृहत्-वपुः
स योजन-आयाम-महा-द्रि-पीवरम्।
धृत्वा अद्भुतं व्यात्त-गुहा-आननं तदा
पथि व्यशेत ग्रसन-आशया खलः ॥१६॥
धरा-अधर-ओष्ठः जलद-उत्तर-ओष्ठः
दर्य-आनन-अन्तः गिरि-शृङ्ग-दंष्ट्रः।
ध्वान्त-अन्तर-आस्यः वितत-अध्व-जिह्वः
परुष-अनिल-श्वास-दम्-ईक्षण-उष्णः ॥१७॥
दृष्ट्वा तम् तादृशं सर्वे मत्वा वृन्दावन-श्रियम्।
व्यात्त-अजगर-तुण्डेन हि उत्प्रेक्षन्ते स्म लीलया ॥१८॥
अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम्।
अस्मत्-सङ्ग्रसन-व्यात्त व्याल-तुण्डायते न वा ॥१९॥
सत्यं अर्क-कर-आरक्तं उत्तर-आहनु-वत् धनम्।
अधर-आहनु-वत् रोधः तत्-प्रति-छायया अरुणम् ॥२०॥
प्रतिस्पर्धेते सृक्किभ्यां सव्या असव्ये नगा उदरे
तुंग शृंग आलय: अपि एताः तद् दंष्ट्राभिः च पश्यत ॥ 21
आस्तृत आयाम मार्ग: अयं रसनां प्रति गर्जति
एषाम् अन्तर्गतं ध्वान्तम् एतत् अपि अन्त: आननम् ॥ 22
दाव उष्ण खर वात: अयं श्वासवत् भाति पश्यत
तत् दग्ध सत्त्व दुर्गन्ध: अपि अन्तर आमिष गन्धवत् ॥ 23
अस्मान् किम् अत्र ग्रसिता निविष्टा
न अयं तथा चेत् बकवत् विनङ्क्ष्यति
क्षणात् अनेन इति बक आर्युषम् मुखम्
वीक्ष्य उद्धसन्तः करताडनै: ययुः ॥ 24
इत्थं मिथ: अतथ्यम् अ-तज्ज्ञ भाषितम्
श्रुत्वा विचिन्त्य इत्य अमृषा मृषायते
रक्ष: विदित्वा अखिल-भूत हृत् स्थित:
स्वानाम् निरोद्धुं भगवान् मन: दधे ॥ 25
तावत् प्रविष्टाः तु असुर उदर अन्तरम्
परं न गीर्णाः शिशवः सवत्साः
प्रतीक्षमाणेन बक आरिवेशनम्
हत स्वकान्त स्मरणेन रक्षसा ॥ 26
तान् वीक्ष्य कृष्णः सकल अभय प्रदः
हि अनन्य नाथान् स्व करात् अवच्युतान्
दीनान् च मृत्युः जठर अग्नि घासान्
घृणा अर्दितः दिष्ट कृतेंन विस्मितः ॥ 27
कृत्यं किम् अत्र अस्य खलस्य जीवनम्
न वा अमीषां च सतां विहिंसनम्
द्वयं कथं स्यात् इति संविचिन्त्य तत्
ज्ञात्वा अविशत् तुण्डम् अशेष दृष्ट् हरिः ॥ 28
तदा घनच्छदा देवाः भयात् हा हा इति चुक्रुशुः
जहृषुः ये च कंस आद्याः कौणपास् तु अघ बान्धवाः ॥ 29
तत् श्रुत्वा भगवान् कृष्णः तु अव्ययः सार्भवत्सकम्
चूर्णी चिकीर्षोः आत्मानं तरसा ववृधे गले ॥ 30
ततः अति कायस्य निरुद्ध मार्गिणः
हि उद्गीर्ण दृष्टेः भ्रमतः तु इत: ततः
पूर्णः अन्तरङ्गे पवनः निरुद्धः
मूर्धन् विनिष्पाट्य विनिर्गतः बहिः ॥ 31
तेन एव सर्वेषु बहिः गतेषु
प्राणेषु वत्सान् सुहृदः परेतान्
दृष्ट्या स्वयम् उत्थाप्य तत् अन्वितः पुनः
वक्त्रात् मुकुन्दः भगवान् विनिर्ययौ ॥ 32
पीन अहि भोग उत्थितम् अद्भुतम् महत्
ज्योतिः स्वधाम्ना ज्वलयत् दिशः दश
प्रतीक्ष्य खे अवस्थितम् ईश निर्गमम्
विवेश तस्मिन मिषताम् दिवौकसाम् ॥ 33
ततः अति हृष्टाः स्व कृतः अ-कृत अर्हणम्
पुष्पैः सुराः अप्सरसः च नर्तनैः
गीतैः सुगाः वाद्य धराः च वाद्यकैः
स्तवैः च विप्राः जय निःस्वनैः गणाः ॥ 34
तत् अद्भुत स्तोत्र सुवाद्य गीतिका
जय आदि नैक उत्सव मङ्गल स्वनान्
श्रुत्वा स्वधाम्नः अन्त्यजः आगतः अचिरात्
दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ 35
राजन् आजगरं चर्म शुष्कं वृन्दावने अद्भुतम्
व्रज औकसाम् बहु तिथं बभूव आक्रीड गह्वरम् ॥ 36
एतत् कौमारजं कर्म हरेः आत्मा अ-हिमोक्षणम्
मृत्युः पौगण्डके बालाः दृष्ट्वा ऊचुः विस्मिताः व्रजे ॥ 37
न एतत् विचित्रं मनुज अर्भ मायिनः
परावराणाम् परमस्य वेधसः
अघः अपि यत् स्पर्शन धौत पातकः
प्राप आत्म साम्यम् तु असताम् सुदुर्लभम् ॥ 38
सकृत् यत् अङ्ग प्रतिमा अन्तर आहिताः
मनो मयी भागवतीं ददौ गतिम्
सः एव नित्य आत्म सुख अनुभूत्य अभि
व्युदस्त माया अन्तर्गतः हि किम् पुनः ॥ 39
श्री सूत उवाच
इत्थं द्विजाः यादव देव दत्तः
श्रुत्वा स्वरातुः चरितं विचित्रम्
पप्रच्छ भूयः अपि तत् एव पुण्यम्
वैयासकिं यत् निगृहीत चेताः ॥ 40
श्री राजः उवाच
ब्रह्मन् काल अन्तर कृतं तत्कालीनं कथं भवेत्
यत् कौमारे हरि कृतं जगुः पौगण्डके अर्भकाः ॥ 41
तत् ब्रूहि मे महा योगिन् परं कौतूहलं गुरो
नूनम् एतत् हरेः एव माया भवति न अन्यथा ॥ 42
वयं धन्यतमाः लोके गुरो अपि क्षत्र बन्धवः
यत् पिबामः मुहुः त्वत्तः पुण्यम् कृष्ण कथा अमृतम् ॥ 43
श्री सूतः उवाच
इत्थं स्म पृष्टः स तु बादरायणिः
तत् स्मारित अनन्त हृत अखिल इन्द्रियः
कृच्छ्रात् पुनः लब्ध बहिः दृष्टिः शनैः
प्रत्याह तम् भागवत उत्तम उत्तम ॥ 44
No comments:
Post a Comment