ந்ருகன் பெற்ற பிறவி
ஸ்கந்தம் 10: அத்யாயம் 64
श्री-शुकः उवाच
विहर्तुम् साम्ब-प्रद्युम्न-चारु-भानु-गद-आदयः॥ १ ॥
क्रीडित्वा सु-चिरम् तत्र विचिन्वन्तः पिपासिताः।
जलम् निर्-उदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ २ ॥
कृकलासम् गिरि-निभम् वीक्ष्य विस्मित-मानसाः।
तस्य च उद्धरणे यत्नम् चक्रुः ते कृता-अन्विताः ॥ ३ ॥
चर्मजैः तान्तवैः पाशैः बद्ध्वा पतितम् अर्भकाः।
न अशक्नुवन् सम्-उद्धर्तुम् कृष्णाय आचख्युः उत्सुकाः ॥ ४ ॥
तत्र आगत्य अरविन्द-अक्षः भगवान् विश्व-भावनः।
वीक्ष्य उज्जहार वामेन तम् करेण सः लीलया ॥ ५ ॥
सः उत्तम-श्लोक-कर-अभिमृष्टः
विहाय सद्यः कृकलास-रूपम्।
सन्तप्त-चामीकर-चारु-वर्णः
स्वर्ग्य-अद्भुत-आलङ्करण-अम्बर-स्रक् ॥ ६ ॥
पप्रच्छ विद्वान् अपि तत् निदानम्
जनेषु विख्यापयितुम् मुकुन्दः।
कः त्वम् महा-भाग वरेण्य-रूपः
देव-उत्तमम् त्वाम् गणयामि नूनम् ॥ ७ ॥
दशाम् इमाम् वा कतमेन कर्मणा
सम्प्रापितः अस्य तत् अर्हः सुभद्र।
आत्मानम् आख्याहि विवित्सताम् नः
यत् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ ८ ॥
श्री-शुक उवाच -
इति स्म राजा सम्पृष्टः कृष्णेन अनन्त-मूर्तिना।
माधवम् प्रणिपत्य आह किरीटेन अर्क-वर्चसा ॥ ९ ॥
नृगः उवाच -
नृगः नाम नरेन्द्रः अहम् इक्ष्वाकु-तनयः प्रभो।
दानिषु आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ १० ॥
किम् नु ते अविदितम् नाथ सर्व-भूत-आत्म-साक्षिणः।
कालेन अव्याहत-दृशः वक्ष्ये अथ अपि तव आज्ञया ॥ ११ ॥
यावत्यः सिकताः भूमेः यावत्यः दिवि तारकाः।
यावत्यः वर्ष-धाराः च तावतः अददं स्म गाः ॥ १२ ॥
पयस्विनः तरुणीः शील-रूप-
गुण-उपपन्नाः कपिलाः हेम-सृङ्गीः।
न्याय-अर्जिताः रूप्य-खुराः स-वत्साः
दुकूल-माला-आभरणाः अददाम् अहम् ॥ १३ ॥
स्व-अलङ्कृतेभ्यः गुण-शील-वद्भ्यः
सीदत्-कुटुम्बेभ्यः ऋत-व्रतेभ्यः।
तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः
प्रादाम् युवभ्यः द्विज-पुङ्गवेभ्यः ॥ १४ ॥
गो-भू-हिरण्य-आयतन-अश्व-हस्तिनः
कन्याः सदा-असीः तिल-रूप्य-शय्याः।
वासांसि रत्नानि परिच्छदान् रथान्
निष्ठाम् च यज्ञैः चरितम् च पूर्तम् ॥ १५ ॥
कस्यचित् द्विज-मुख्यस्य भ्रष्टा गौः मम गो-धने।
सम्पृक्ता अविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥
ताम् नीयमानाम् तत्-स्वामी दृष्ट्वा उवाच मम् इति तम्।
मम् इति प्रतिग्राह्य आह नृगः मे दत्तवान् इति ॥ १७ ॥
विप्रौ विवदमानौ माम् ऊचतुः स्व-अर्थ-साधकौ।
भवान् दाता अपहर्ता इति तत् श्रुत्वा मे अभवत् भ्रमः ॥ १८ ॥
अनुनीतौ उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै।
गवाम् लक्षम् प्रकृष्टानाम् दास्यामि एषा प्रदीयताम् ॥ १९ ॥
भवन्तौ अनुगृह्णीताम् किङ्करस्य अविजानतः।
सम्-उद्धरतम् माम् कृच्छ्रात् पतन्तम् निरये अशुचौ ॥ २० ॥
न अहम् प्रतीच्छे वै राजन् नित्य-उक्त्वा स्वामि-अपाक्रमत्।
न अन्यत् गवाम् अपि अयुतम् इच्छामि इति अपरः ययौ ॥ २१ ॥
एतस्मिन् अन्तर-ए यामैः दूतैः नीतः यम-अक्षयम्।
यमेन पृष्टः तत्र अहम् देव-देव जगत्-पते ॥ २२ ॥
पूर्वम् तु अम्-अशुभम् भुङ्क्षे उत आहो नृपते शुभम्।
न अन्तम् दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३ ॥
पूर्वम् देव अशुभम् भुञ्ज इति प्राह पतिः इति सः।
तावत् अद्राक्षम् आत्मानम् कृकलासम् पतन् प्रभो ॥ २४ ॥
ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव।
स्मृतिः न अद्य अपि विध्वस्ता भवत्-सन्दर्शन-अर्थिनः ॥ २५ ॥
सः त्वम् कथम् मम विभो अपि इतः पर-आत्मा।
योग-ईश्वरैः श्रुति-दृशाम् अमल-हृत्-विभाव्यः॥
साक्षात् अधः-क्षजः उरु-व्यसन-अन्ध-बुद्धेः।
स्यात् मे अनुदृश्यः इह यस्य भव-अपवर्गः ॥ २६ ॥
देव-देव जगत्-नाथ गोविन्द पुरुष-उत्तम।
नारायण हृषी-केश पुण्य-श्लोक-अच्युत-अव्यय ॥ २७ ॥
अनुजानीहि माम् कृष्ण यान्तम् देव-गतिम् प्रभो।
यत्र क्व अपि सतः चेतः भूयात् मे त्वत्-पद-आस्पदम् ॥ २८ ॥
नमः ते सर्व-भावाय ब्रह्मणे अनन्त-शक्तये।
कृष्णाय वासुदेवाय योगानाम् पतये नमः ॥ २९ ॥
इति उक्त्वा तम् परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना।
अनुज्ञातः विमान-अग्र्यम् आरुहत् पश्यताम् नृणाम् ॥ ३० ॥
कृष्णः परिजनम् प्राह भगवान् देवकी-सुतः।
ब्रह्मण्य-देवः धर्म-आत्मा राजन्-यान् अनुशिक्षयन् ॥ ३१ ॥
दुर्जरम् बत ब्रह्म-स्वम् भुक्तम् अग्नेः मनाक् अपि।
तेजीयसः अपि किम् उत राज्ञाम् ईश्वर-मानिनाम् ॥ ३२ ॥
न अहम् हालाहलम् मन्ये विषम् यस्य प्रतिक्रिया।
ब्रह्म-स्वम् हि विषम् प्रोक्तम् न अस्य प्रतिविधिः भुवि ॥ ३३ ॥
हिनस्ति विषम् अत्तारम् वह्निः अद्भिः प्रशाम्यति।
कुलम् समूलम् दहति ब्रह्म-स्व-रणि-पावकः ॥ ३४ ॥
ब्रह्म-स्वम् दुर्-अनुज्ञातम् भुक्तम् हन्ति त्रि-पुरुषम्।
प्रसह्य तु बलात् भुक्तम् दश पूर्वान् दश अपरान् ॥ ३५ ॥
राजानः राज-लक्ष्म्या अन्धाः न आत्म-पातम् विचक्षते।
निरयम् ये अभिमन्यन्ते ब्रह्म-स्वम् साधवः बालिशाः ॥ ३६ ॥
गृह्णन्ति यावतः पांसून् क्रन्दताम् अश्रु-बिन्दवः।
विप्राणाम् हृत-वृत्तीनाम् वदान्यानाम् कुटुम्बिनाम् ॥ ३७ ॥
राजानः राज-कुल्याः च तावतः अब्दान् निरङ्कुशाः।
कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दाय-अपहारिणः ॥ ३८ ॥
स्व-दत्ताम् पर-दत्ताम् वा ब्रह्म-वृत्तिम् हरेत् च यः।
षष्टि-वर्ष-सहस्राणि विष्ठायाम् जायते कृमिः ॥ ३९ ॥
न मे ब्रह्म-धनम् भूयात् यत् गृद्ध्वा अल्प-आयुषः नराः।
पराजिताः च्युताः राज्यात् भवन्ति उद्वेजिनः अहयः ॥ ४० ॥
विप्रम् कृत-अगसम् अपि नैव द्रुह्यत मामकाः।
घ्नन्तम् बहु शपन्तम् वा नमस्कुरुत नित्यशः ॥ ४१ ॥
यथा अहम् प्रणमे विप्रान् अनु-कालम् समाहितः।
तथा नमत यूयं च यः अन्यथा मे सः दण्ड-भाक् ॥ ४२ ॥
ब्राह्मण-अर्थः हि अपहृतः हर्तारम् पातयति अधः।
अजानन्तम् अपि हि एनम् नृगम् ब्राह्मण-गौर् इव ॥ ४३ ॥
एवम् विश्राव्य भगवान् मुकुन्दः द्वारका-उकसः।
पावनः सर्व-लोकानाम् विवेश निज-मन्दिरम् ॥ ४४ ॥
॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे नृग-उपाख्यानम् नाम
चतुः-षष्टितमः अध्यायः ॥ ६४ ॥
No comments:
Post a Comment