Followers

Search Here...

Thursday, 24 April 2025

ஸ்கந்தம் 10: அத்யாயம் 63 (கண்ணன் பானாசுரனோடு யுத்தம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் பானாசுரனோடு யுத்தம்

ஸ்கந்தம் 10: அத்யாயம் 63

श्री-शुकः उवाच 
अपश्यताम् च अनिरुद्धम् तद्-बन्धूनाम् च भारत। चत्वारः वार्षिकाः मासाः व्यतीयुः अनुशोचताम् ॥ १ ॥ 

नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च। प्रययुः शोणित-पुरम् वृष्णयः कृष्ण-दैवताः ॥ २ ॥ 

प्रद्युम्नः युयुधानः च गदः साम्बः अथ सारणः। नन्द-उपनन्द-भद्र-आद्याः राम-कृष्ण-अनुवर्तिनः ॥ ३ ॥ 

अक्षौहिणीभिः द्वादशभिः समेताः सर्वतः दिशम्। रुरुधुः बाण-नगरम् समन्तात् सात्वत-ऋषभाः ॥ ४ ॥ 

भज्यमान-पुर-उद्यान-प्राकार-अट्टाल-गोपुरम्। प्रेक्षमाणः रुषा आविष्टः तुल्य-सैन्यः अभिनिर्ययौ ॥ ५ ॥ 

बाण-अर्थे भगवान् रुद्रः स-सुतैः प्रमथैः वृतः। आरुह्य नन्दि-वृषभम् युयुधे राम-कृष्णयोः ॥ ६ ॥ 

आसीत् सुतुमुलम् युद्धम् अद्‌भुतम् रोमहर्षणम्। कृष्ण-शङ्करयोः राजन् प्रद्युम्न-गुहयोः अपि ॥ ७ ॥ 

कुम्भाण्ड-कूपकर्ण-आभ्याम् बलेन सह संयुगः। साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥ 

ब्रह्म-आदयः सुर-अधीशाः मुनयः सिद्ध-चारणाः। गन्धर्व-अप्सरसः यक्षाः विमानैः द्रष्टुम् आगमन् ॥ ९ ॥ 
शङ्कर-अनुचरान् शौरिः भूत-प्रमथ-गुह्यकान्। डाकिनी-यातुधानान् च वेतालान् स-विनायकान् ॥ १० ॥ 

प्रेत-मातृ-पिशाचान् च कूष्माण्डान् ब्रह्म-राक्षसान्। द्रावयामास तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः-च्युतैः ॥ ११ ॥ 
पृथक्-विधानि प्रायुङ्क्त पिणाकि-अस्त्राणि शाङ्गिणे। प्रत्य-अस्त्रैः शमयामास शार्ङ्ग-पाणिः अविस्मितः ॥ १२ ॥ 

ब्रह्म-अस्त्रस्य च ब्रह्म-अस्त्रम् वायव्यस्य च पार्वतम्। आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च ॥ १३ ॥ 

मोहयित्वा तु गिरिशम् जृम्भण-अस्त्रेण जृम्भितम्। बाणस्य पृतनाम् शौरिः जघान असि-गद-इषुभिः ॥ १४ ॥ 

स्कन्दः प्रद्युम्न-बाण-ओघैः अर्द्यमानः समन्ततः। असृक् विमुञ्चन् गात्रेभ्यः शिखिना अपक्रमत् रणात् ॥ १५ ॥ 

कुम्भाण्डः कूपकर्णः च पेततुः मुषल-अर्दितौ। दुद्रुवुः तत्-अनीकानि हत-नाथानि सर्वतः ॥ १६ ॥ 

विशीर्यमाणम् स्व-बलम् दृष्ट्वा बाणः अत्य-अमर्षणः। कृष्णम् अभ्यद्रवत् संख्ये रथी हित्वा एव सात्यकिम् ॥ १७ ॥ 

धनूंषि आकृष्य युगपत् बाणः पञ्च-शतानि वै। एक-एकस्मिन् शरौ द्वौ-द्वौ सन्दधे रण-दुर्मदः ॥ १८ ॥ 

तानि चिच्छेद भगवान् धनूंषि युगपत् हरिः। सारथिम् रथम् अश्वान् च हत्वा शङ्खम् अपूरयत् ॥ १९ ॥ 

तत्-माता कोटरा नाम नग्ना मुक्त-शिर-उरुहा। पुरः अवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ २० ॥

ततः तिर्यङ्मुखः नग्नाम् अनिरीक्षन् गद-अग्रजः।
बाणः च तावत् विरथः छिन्न-धन्वा अविशत् पुरम् ॥ २१ ॥

विद्राविते भूत-गणे ज्वरः तु त्रि-शिराः त्रि-पात्।
अभ्यधावत दाशार्हम् दहन् इव दिशः दश ॥ २२ ॥

अथ नारायणः देवः तम् दृष्ट्वा व्यसृजत् ज्वरम्।
माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ ॥ २३ ॥

माहेश्वरः सम्-आक्रन्दन् वैष्णवेन बल-अर्दितः।
अलब्ध्वा अभयम् अन्यत्र भीतः माहेश्वरः ज्वरः।
शरण-अर्थी हृषीकेशम् तुष्टाव प्रयत-अञ्जलिः ॥ २४ ॥

ज्वरः उवाच -
नमामि त्वा अनन्त-शक्तिम् परेशम्
सर्व-आत्मानम् केवलम् ज्ञप्ति- मात्रम्।
विश्व-उत्पत्ति-स्थान-संरोध-हेतुम्
यत् तत् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ २५ ॥

कालः दैवम् कर्म जीवः स्वभावः
द्रव्यम् क्षेत्रम् प्राणः आत्मा विकारः।
तत्-सङ्घातः बीज-रोह-प्रवाहः
त्वत्-माया एषा तत्-निषेधम् प्रपद्ये ॥ २६ ॥

नाना-भावैः लीलया एव उपपन्नैः
देवान् साधून् लोक-सेतून् बिभर्षि।
हंसि उन्मार्गान् हिंसया वर्तमानान्
जन्म एतत् ते भार-हाराय भूमेः ॥ २७ ॥

तप्तः अहम् ते तेजसा दुःसहेन
शान्त-उग्रेण अति-उल्बणेन ज्वर्रेण।
तावत् तापः देहिनाम् ते अङ्घ्रि-मूलम्
नः सेवेरन् यावत् आशा-अनुबद्धाः ॥ २८ ॥

श्री-भगवान् उवाच -
त्रि-शिराः ते प्रसन्नः अस्मि व्येतु ते मत्-ज्वरात् भयम्।
यः नौ स्मरति संवादम् तस्य त्वम् न भवेत् भयम् ॥ २९ ॥

इति उक्तः अच्युतम् आनम्य गतः माहेश्वरः ज्वरः।
बाणः तु रथम् आरूढः प्रागात् योत्स्यम् जनार्दनम् ॥ ३० ॥

ततः बाहु-सहस्रेण नाना-आयुध-धरः असुरः।
मुमोच परम-क्रुद्धः बाणान् चक्रायुधे नृप ॥ ३१ ॥

तस्य अस्यतः अस्त्राणि असकृत् चक्रेण क्षुर-नेमिना।
चिच्छेद भगवान् बाहून् शाखाः इव वनस्पतेः ॥ ३२ ॥

बाहुषु उच्छिद्यमानेषु बाणस्य भगवान् भवः।
भक्तान् अ-कम्प्य उपव्रज्य चक्रायुधम् अभाषत ॥ ३३ ॥

श्री-रुद्रः उवाच -
त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाङ्मये।
यम् पश्यन्ति अमल-आत्मानः आकाशम् इव केवलम् ॥ ३४ ॥

नाभिः नभः अग्निः मुखम् अम्बु रेतः
द्यौः शीर्षम् आशाः श्रुतिः अङ्घ्रिः उर्वी।
चन्द्रः मनः यस्य दृक् अर्कः आत्मा
अहम् समुद्रः जठरम् भुज-इन्द्रः ॥ ३५ ॥

रोमाणि यस्य औषध्यः अम्बु-वाहाः
केशाः विरिञ्चः धिषणा विसर्गः।
प्रजापतिः हृदयं यस्य धर्मः
सः वै भवान् पुरुषः लोक-कल्पः ॥ ३६ ॥

तव अवतारः अयम् अकुण्ठ-धामन्
धर्मस्य गुप्त्यै जगतः भवाय।
वयम् च सर्वे भवता अनुभाविताः
विभावयामः भुवनानि सप्त ॥ ३७ ॥

त्वम् एकः आद्यः पुरुषः अद्वितीयः
तुर्यः स्व-दृक् हेतु-अहेतुः ईशः।
प्रतीयसे अथ अपि यथा अविकारम्
स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ ३८ ॥

यथा एव सूर्यः पिहितः छायया स्वया
छायाम् च रूपाणि च सञ्चकास्ति।
एवम् गुणेन अपिहितः गुणान् त्वम्
आत्म-प्रदीपः गुणिनः च भूमन् ॥ ३९ ॥

यत् माया-मोहित-धियः पुत्र-दार-गृह-आदिषु।
उन्मज्जन्ति निमज्जन्ति प्रसक्ताः वृजिन-अर्णवे ॥ ४० ॥

देवदत्तम् इम् अम् लब्ध्वा नृ-लोकम् अजित-इन्द्रियः।
यः न आद्रियेत त्वत्-पादौ सः शोच्यः हि आत्म-वञ्चकः ॥ ४१ ॥

यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम्।
विपर्यय-इन्द्रिय-अर्थ-अर्थम् विषम् अत्त्य् अमृतम् त्यजन् ॥ ४२ ॥

अहम् ब्रह्म अथ विबुधाः मुनयः च अमल-आशयाः।
सर्व-आत्मना प्रपन्नाः त्वाम् आत्मानम् प्रेष्ठम् ईश्वरम् ॥ ४३ ॥

तम् त्वाम् जगत्-स्थिति-उदय-अन्त-हेतुम्
समम् प्रशान्तम् सुहृत्-आत्म-दैवम्।
अनन्यम् एकम् जगत्-आत्म-केतुम्
भव-अपवर्गाय भजाम देवम् ॥ ४४ ॥

अयम् मम इष्टः दयितः अनुवर्ती
मया अभयम् दत्तम् अमुष्य देव।
संपाद्यताम् तत् भवतः प्रसादः
यथा हि ते दैत्य-पतौ प्रसादः ॥ ४५ ॥

श्री-भगवान् उवाच -
यत् आत्तः भगवन् त्वम् नः करवाम प्रियम् तव।
भवतः यत् व्यवसितम् तत् मे साधु अनुमोदितम् ॥ ४६ ॥

अवध्यः अयम् मम अपि एषः वैरोचनि-सुतः असुरः।
प्रह्रादाय वरः दत्तः न वध्यः मे तव अन्वयः ॥ ४७ ॥

दर्प-उपशमनाय अस्य प्रवृक्ताः बाहवः मया।
सूदितम् च बलम् भूरि यत् च भारायितम् भुवः ॥ ४८ ॥

चत्वारः अस्य भुजाः शिष्टाः भविष्यन्ति अजर-अमराः।
पार्षद-मुख्यः भवतः न कुतःचित् भयः असुरः ॥ ४९ ॥

इति लब्ध्वा अभयम् कृष्णम् प्रणम्य शिरसा असुरः।
प्राद्युम्निम् रथम् आरोप्य स-वध्वा सम्-उपानयत् ॥ ५० ॥

अक्षौहिण्या परिवृतम् सु-वासः सम्-अलङ्कृतम्।
स-पत्नीकम् पुरः-कृत्य ययौ रुद्र-अनुमोदितः ॥ ५१ ॥

स्व-राज-धानीम् सम्-अलङ्कृताम् ध्वजैः
स-तोरणैः उक्षित-मार्ग-चत्वराम्।
विवेश शङ्ख-अनक-दुन्दुभि-स्वनैः
अभ्युद्यतः पौर-सुहृत्-द्विजातिभिः ॥ ५२ ॥

यः एवम् कृष्ण-विजयम् शङ्करेण च सं-युगम्।
संस्मरेत् प्रातः-उत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ 63

No comments: