श्रीशुक उवाच
बाणः पुत्र-शत- ज्येष्ठः बलेः आसीत् महा-आत्मनः।
येन वामन-रूपाय हरये अदायि मेदिनी॥ 2 ॥
तस्य औरसः सुतः बाणः शिव-भक्ति-रतः सदा।
मान्यः वदान्यः धीमान् च सत्य-सन्धः दृढ-व्रतः॥ 3 ॥
शोणित-आख्ये पुरे रम्ये सः राज्यम् अकरोत् पुरा।
तस्य शम्भोः प्रसादेन किङ्कराः इव ते अमराः॥
सहस्र-बाहुः वाद्येन ताण्डवे अतोषयत् मृडम्॥ 4 ॥
भगवान् सर्व-भूत-ईशः शरण्यः भक्त-वत्सलः।
वरेण इच्छन्दयामास सः तम् वव्रे पुर-अधिपम्॥ 5 ॥
सः एकदा आह गिरिशम् पार्श्व-स्थम् वीर्य-दुर्मदः।
किरीटेण अर्क-वर्णेन संस्पृशन् तत्-पद-अम्बुजम्॥ 6 ॥
नमस्ये त्वाम् महा-देव लोकानाम् गुरुम् ईश्वरम्।
पुंसाम् अपूर्ण-कामानाम् काम-पूर्ण अमर-अङ्घ्रिपम्॥ 7 ॥
दोह्-सहस्रम् त्वया दत्तम् परम् भाराय मे अभवत्।
त्रि-लोक्याम् प्रति-योधारम् न लभे त्वत् ऋते समम्॥ 8 ॥
कण्डूत्या निभृतैः दोर्भिः युयुत्सुः दिग्-गजान् अहम्।
आद्यायाम् चूर्णयन् अद्रीन् भीताः ते अपि प्रदुद्रुवुः॥ 9 ॥
तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा।
त्वत्-दर्प-घ्नं भवेत् मूढ संयुगम् मत्-समेन ते॥ 10 ॥
इति उक्तः कुमतिः हृष्टः स्व-गृहम् प्राविशत् नृप।
प्रतीक्षन् गिरिश-आदेशम् स्व-वीर्य-नशनम् कु-धीः॥ 11 ॥
तस्य ऊषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्।
कन्यालभत कान्तेन प्राक्-दृष्ट-श्रुतेन सा॥ 12 ॥
सा तत्र तम् अपश्यन्ती क्व असि कान्त इति वादिनी।
सखीनाम् मध्ये उत्तस्थौ विह्वला व्रीडिता भृशम्॥ 13 ॥
बाणस्य मन्त्री कुम्भाण्डः चित्रलेखा च तत्-सुता।
सख्यः अपृच्छत् सखीम् ऊषाम् कौतूहल-समन्विता॥ 14 ॥
कं त्वम् मृगयसे सुभ्रु कीदृशः ते मनोरथः।
हस्त-ग्रहम् न ते अद्य अपि राज-पुत्रि उपलक्षये॥ 15 ॥
ऊषा उवाच
दृष्टः कश्चित् नरः स्वप्ने श्यामः कमल-लोचनः।
पीत-वासा बृहत्-बाहुः योषिताम् हृदय-अङ्गमः॥ 16 ॥
तम् अहम् मृगये कान्तम् पाययित्वा अधरम् मधु।
क्व अपि यातः स्पृहयतीम् क्षिप्त्वा माम् वृजिन-अर्णवे॥ 17 ॥
चित्रलेखा उवाच
व्यसनम् ते अपकर्षामि त्रि-लोक्याम् यदि भाव्यते।
तम् आनेष्ये नरम् यः ते मनः-हर्ता तम् आदिश॥ 18 ॥
इति उक्त्वा देव-गन्धर्व-सिद्ध-चारण-पन्नगान्।
दैत्य-विद्याधरान् यक्षान् मनुजान् च यथा अलिखत्॥ 19 ॥
मनुजेषु च सा वृष्णीन् शूरम् आनक-दुन्दुभिम्।
व्यलिखत् राम-कृष्णौ च प्रद्युम्नम् वीक्ष्य लज्जिता॥ 20 ॥
अनिरुद्धं विलिखितं वीक्ष्य ऊषा अवाङ्-मुखी ह्रिया।
सः असौ-असौ इति प्राह स्मयमाना मही-पते ॥ २१ ॥
चित्रलेखा तम् आज्ञाय पौत्रम् कृष्णस्य योगिनी।
ययौ विहायसा राजन् द्वारकाम् कृष्ण-पालिताम् ॥ २२ ॥
तत्र सुप्तम् सुपर्यङ्के प्राद्युम्निम् योगम् आस्थिताः।
गृहीत्वा शोणित-पुरम् सख्यै प्रियम् अदर्शयत् ॥ २३ ॥
सा च तम् सुन्दर-वरम् विलोक्य मुदित-आनना।
दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४ ॥
परार्ध्य-वासः-स्रक्-गन्ध-धूप-दीप-आसन-आदिभिः।
पान-भोजन-भक्ष्यैः च वाक्यैः शुश्रूषया अर्चितः ॥ २५ ॥
गूढः कन्या-पुरे शश्वत् प्रवृद्ध-स्नेहया तया।
न अहर्-गणान् स बुबुधे ऊषया अपहृत-इन्द्रियः ॥ २६ ॥
ताम् तथा यदु-वीरेण भुज्यमानाम् हत-व्रताम्।
हेतुभिः लक्षयाञ्चक्रुः आप्रीताम् दुरवच्छदैः ॥ २७ ॥
भटाः आवेदयाञ्चक्रुः राजन् ते दुहितुः वयम्।
विचेष्टितम् लक्षयाम कन्यायाः कुल-दूषणम् ॥ २८ ॥
अनपायिभिः अस्माभिः गुप्तायाः च गृहे प्रभो।
कन्यायाः दूषणम् पुम्भिः दुष्प्रेक्षायाः न विद्महे ॥ २९ ॥
ततः प्रव्यथितः बाणः दुहितुः श्रुत-दूषणः।
त्वरितः कन्यका-आगारम् प्राप्तः अद्राक्षीत् यदु-उद्वहम् ॥ ३० ॥
काम-आत्मजम् तम् भुवन-एक-सुन्दरम्
श्यामम् पिशङ्ग-अम्बरम् अम्बुज-ईक्षणम्।
बृहत्-भुजम् कुण्डल-कुन्तल-त्विषा
स्मित-आवलोकेन च मण्डित-आननम् ॥ ३१ ॥
दीव्यन्तम् अक्षैः प्रियया अभिनृम्णया
तत्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम्।
बाह्वोः दधानम् मधु-मल्लिका-आश्रिताम्
तस्य अग्रे आसीनम् अवेक्ष्य विस्मितः ॥ ३२ ॥
सः तम् प्रविष्टम् वृतम् आततायिभिः
भटैः अनीकैः अवलोक्य माधवः।
उद्यम्य मौर्वम् परिघम् व्यवस्थितः
यथा अन्तकः दण्ड-धरः जिघांसया ॥ ३३ ॥
जिघृक्षया तान् परितः प्रसर्पतः
शुनः यथा शूकर-यूथपः अहनत्।
ते हन्यमानाः भवनात् विनिर्गताः
निर्भिन्न-मूर्धा-उरु-भुजाः प्रदुद्रुवुः ॥ ३४ ॥
तम् नाग-पाशैः बलि-नन्दनः बली
घ्नन्तम् स्व-सैन्यम् कुपितः बबन्ध ह।
ऊषा भृशम् शोक-विषाद-विह्वला
बद्धम् निशम्य अश्रु-कल-आक्ष्य रौदिषीत् ॥ ३५ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः ॥ 62 ॥
No comments:
Post a Comment