Followers

Search Here...

Wednesday, 23 April 2025

ஸ்கந்தம் 10: அத்யாயம் 59 (நரகாசுரன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

நரகாசுரன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 59

श्री-राजः उवाच –
यथा हतो भगवता भौमो येन च ताः स्त्रियः।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्ग-धन्वनः॥ १॥

श्री-शुक उवाच –
इन्द्रेण हृत-च्छत्रेण हृत-कुण्डल-बन्धुना।
हृत-अमराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम्।
सभार्यो गरुड-आरोढः प्राग्-ज्योतिष-पुरं ययौ॥ २॥

गिरि-दुर्गैः शस्त्र-दुर्गैः जल-अग्नि-अनिल-दुर्गमम्।
मुर-पाश-आयुतैः घोरैः दृढैः सर्वतः आवृतम्॥ ३॥

गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः।
चक्रेणाग्निं जलं वायुं मुर-पाशांस्तथा-असिना॥ ४॥

शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम्।
प्राकारं गदया गुर्व्या निर्बिभेद गदा-धरः॥ ५॥

पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्त-शनि-भीषणम्।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात्॥ ६॥

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
युगान्त-सूर्य-अनल-रोचि-रुल्बणः।
ग्रसंस्त्रि-लोकींव पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्य-सुतं यथोर्गः॥ ७॥

आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः।
स रोदसी सर्व-दिशोऽन्तरं महा-
नापूरयन्नण्डकटाहमावृणोत्॥ ८॥

तदापतद् वै त्रिशिखं गरुत्मते
हरिः शराभ्यामभिनत्त्रिधौजसा।
मुखेषु तं चापि शरैरताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत्॥ ९॥

तामापतन्तीं गदया गदां मृधे
गदाग्रजो निर्बिभिदे सहस्रधा।
उद्यम्य बाहूनभिधावतोऽजितः
शिरांसि चक्रेण जहार लीलया॥ १०॥

व्यसुः पपाताम्भसि कृत्तशीर्षो
निकृत्त-शृङ्गोऽद्रिरिवेन्द्रतेजसा।
तस्यात्मजाः सप्त पितुर्वधातुराः
प्रतिक्रियामर्षजुषः समुद्यताः॥ ११॥

ताम्र-ोऽन्तरिक्षः श्रवणो विभावसुः
वसुर्नभस्वानरुणश्च सप्तमः।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधाः॥ १२॥

प्रायुञ्जतासाद्य शरानसीन् गदाः
शक्त्यृष्टि-शूलान्यजिते रुषोल्बणाः।
तच्छस्त्रकूटं भगवान् स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त ह॥ १३॥

तान् पीठमुख्याननयद् यमक्षयं
निकृत्त-शीर्षो-रुभुजाङ्घ्रिवर्मणः।
स्वानीकपानच्युतचक्र-सायकै-
स्तथा निरस्तान् नरको धरासुतः॥ १४॥

निरीक्ष्य दुर्मर्षण आस्रवन्मदै-
र्गजैः पयोधि-प्रभवैर्निराक्रमात्।
दृष्ट्वा सभार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् सतडिद्-घनं यथा।
कृष्णं स तस्मै व्यसृजच्छतघ्नीं
योधाश्च सर्वे युगपत् स्म विव्यधुः॥ १५॥

तद् भौमसैन्यं भगवान् गदा-ग्रजो
विचित्र-वाजैर्निशितैः शिलीमुखैः।
निकृत्त-बाहू-रुशिरो-ध्रविग्रहं
चकार तर्ह्येव हताश्वकुञ्जरम्॥ १६॥

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह।
हरि-स्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः॥ १७॥

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्।
गुरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः॥ १८॥

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम्॥ १९॥

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः।
नाकम्पत तया विद्धो मालाहत इव द्विपः॥ २०॥

शूलं भौमः अच्युतम् हन्तुम् आददे वितथ-उद्यमः ।

तत्-विसर्गात् पूर्वम् एव नरकस्य शिरः हरिः ।

अपाहरत् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ २१ ॥


स-कुण्डलम् चारु-किरीट-भूषणम्

बभौ पृथिव्याम् पतितम् समुज्ज्वलम् ।

हा-हेति साधु-इति ऋषयः सुर-ईश्वराः

माल्यैः मुकुन्दम् विकिरन्तः ईडिरे ॥ २२ ॥


ततः-च भूमिः कृष्णम् उपेत्य कुण्डले ।

प्रतप्त-जाम्बूनद-रत्न-भास्वरे ।

सा वैजयन्त्या वन-माला-या अर्पयत्

प्राचेतसम् छत्रम् अथ महामणिम् ॥ २३ ॥


अस्तौषीत् अथ विश्व-ईशम् देवी देव-वर-अर्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥ २४ ॥


भूमिः उवाच

नमः ते देव-देव-ईश शङ्ख-चक्र-गदा-धर ।

भक्त-इच्छा-उपात्त-रूपाय परम-आत्मन् नमः अस्तु ते ॥ २५ ॥


नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।

नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये ॥ २६ ॥


नमः भगवते तुभ्यम् वासुदेवाय विष्णवे ।

पुरुषाय आदि-बीजाय पूर्ण-बोधाय ते नमः ॥ २७ ॥


अजाय जनयित्रे अस्य ब्रह्मणे अनन्त-शक्तये ।

पर-अवर-आत्मन् भूत-आत्मन् परम-आत्मन् नमः अस्तु ते ॥ २८ ॥


त्वम् वै सिसृक्षुः रजः उत्कटम् प्रभो

तमः निरोधाय बिभर्षि असंवृतः ।

स्थानाय सत्त्वम् जगतः जगत्-पते

कालः प्रधानम् पुरुषः भवान् परः ॥ २९ ॥


अहम् पयः ज्योतिः रथः अनिलः नभः

मात्राणि देवाः मनः इन्द्रियाणि ।

कर्ता महान् इति अखिलम् चर-अचरम्

त्वयि अद्वितीये भगवन् अयम् भ्रमः ॥ ३० ॥


तस्य आत्मजः अयम् तव पाद-पङ्कजम्

भीतः प्रपन्न-आर्ति-हर-उपसादितः ।

तत् पालय एनम् कुरु हस्त-पङ्कजम्

शिरसि अमुष्य अखिल-कल्मष-अपहम् ॥ ३१ ॥


श्री-शुकः उवाच –

इति भूम्या अर्थितः वाग्भिः भगवान् भक्ति-नम्रया ।

दत्वा आभयम् भौम-गृहम् प्राविशत् सकल-ऋद्धिमत् ॥ ३२ ॥


तत्र राजन्य-कन्यानाम् षट्-सहस्र-अधिक-आयुतम् ।

भौम-आहृतानाम् विक्रम्य राजभ्यः ददृशे हरिः ॥ ३३ ॥


तम् प्रविष्टम् स्त्रियः वीक्ष्य नर-वीरम् विमोहिताः ।

मनसा वव्रिरे अभीष्टम् पतिम् दैव-उपसादितम् ॥ ३४ ॥


भूयात् पतिः अयम् महि्यम् धाता तत् अनुमोदताम् ।

इति सर्वाः पृथक् कृष्णे भावेन हृदयम् दधुः ॥ ३५ ॥


ताः प्राहिणोत् द्वारवतीम् सुमृष्ट-विरजः-अम्बराः ।

नर-यानैः महा-कोशान् रथ-अश्वान् द्रविणम् महत् ॥ ३६ ॥


ऐरावत-कुल-इभान् च चतुर्-दन्तान् तरस्विनः ।

पाण्डुरान् च चतुः-षष्टिम् प्रेरयामास केशवः ॥ ३७ ॥


गत्वा सुर-इन्द्र-भवनम् दत्त्वा आदित्येभ्यः च कुण्डले ।

पूजितः त्रिदश-इन्द्रेण स-इन्द्र्यया च स-प्रियः ॥ ३८ ॥


चोदितः भार्यया उत्पाट्य पारीजातम् गरुत्मति ।

आरोप्य स-इन्द्रान् विबुधान् निर्जित्य उपानयत् पुरम् ॥ ३९ ॥


स्थापितः सत्यभामया गृह-उद्यान-उपशोभनः ।

अन्वगुः भ्रमराः स्वर्गात् तत्-गन्ध-आसव-लम्पटाः ॥ ४० ॥


ययाच आनम्य किरीट-कोटिभिः

पादौ स्पृशन् अच्युतम् अर्थ-साधनम् ।

सिद्ध-अर्थः एतेन विगृह्यते महा-

नः सुराणाम् च तमः धिक् आढ्यताम् ॥ ४१ ॥


अथ मुहूर्ते एकस्मिन् नाना-आगारेषु ताः स्त्रियः ।

यथा उपयेमे भगवन् तावत्-रूप-धरः अव्ययः ॥ ४२ ॥


गृहेषु तासाम् अनपाय्य अतर्क-कृत्

निरस्त-साम्य-अतिशयेषु अवस्थितः ।

रेमे रमाभिः निज-काम-सम्प्लुतः

यथा इतरः गार्हकम् एधिकान् चरन् ॥ ४३ ॥


इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः

ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम् ।

भेजुः मुदा अविरत-मेधित-यानु-राग-

हास-आवलोकन-वसङ्गम-जल्प-लज्जाः ॥ ४४ ॥


प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच-

ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।

केश-प्रसार-शयन-स्नपन-उपहार्यैः

दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥

No comments: