ஐந்து இளவரசிகளை கண்ணன் மணந்தான்
(காளிந்தீ, மித்ரவிந்தா. ஸத்யா, லக்ஷ்மணா, பத்ரா)
ஸ்கந்தம் 10: அத்யாயம் 58
श्री-शुकः उवाच –
एकदा पाण्डवān् द्रष्टुं प्रतीतान् पुरुषोत्तमः।
इन्द्र-प्रस्थं गतः श्रीमान् युयुधान-आदिभिः वृत्तः॥ १॥
दृष्ट्वा तमागतं पार्था मुकुन्द-मखिल-ईश्वरम्।
उत्तस्थुः युगपद् वीराः प्राणा मुख्यम् इव आगतम्॥ २॥
परिष्वज्य-आच्युतं वीरा अङ्ग-सङ्ग-हति-ऐनसः।
सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः॥ ३॥
युधिष्ठिरस्य भीमस्य कृत्वा पाद-आभिवन्दनम्।
फाल्गुनं परिरभ्याथ यमाभ्यां च आभिवन्दितः॥ ४॥
परम-आसनं आसीनं कृष्णा कृष्णा-मनिर्दिता।
नवोढा व्रीडिता किञ्चित् शनैः एत्य आभ्यवन्दत॥ ५॥
तथा-एव सात्यकिः पार्थैः पूजितश्च आभिवन्दितः।
निषसाद आसनेऽन्ये च पूजिताः पर्युपासत॥ ६॥
पृथां समागत्य कृत-आभिवादनं
स्तयाः तिहार्दार्द्र-दृशाः अभ्र-आम्बितः।
आपृष्टवांस्तां कुशलं सहस्नुषां
पितृ-स्वसारं परिपृष्ट-बान्धवः॥ ७॥
तमाह प्रेम-वैक्लव्य-रुद्ध-कण्ठ-आश्रुलोचना।
स्मरन्ती तान् बहून् क्लेशान् क्लेश-आपाय-आत्मदर्शनम्॥ ८॥
तदैव कुशलं नोऽभूत् सनाथाः ते कृता वयम्।
ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया॥ ९॥
न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः॥ १०॥
युधिष्ठिरः उवाच –
किं न आचरितं श्रेयो न वेदाहमधीश्वर।
योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम्॥ ११॥
इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम्।
जनयन् नयनानन्दमिन्द्र-प्रस्थ-औकसां विभुः॥ १२॥
एकदा रथमारुह्य विजयो वानर-ध्वजम्।
गाण्डीवं धनुरादाय तूणौ चाक्षय-सायकौ॥ १३॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम्।
बहु-व्या-ल-मृग-आकीर्णं प्राविशत् परवीरहा॥ १४॥
तत्राविध्यच्छरैः व्याघ्रान् सूकरान् महिषान् रुरून्।
शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान्॥ १५॥
तान् निन्युः किङ्कराः राज्ञे मेध्यान् पर्वण्युपागते।
तृट्-परितः परिश्रान्तो बिभत्सुर्य-मुनामगात्॥ १६॥
तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ।
कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम्॥ १७॥
तामासाद्य वरारोहां सुद्विजां रुचिराननाम्।
पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्॥ १८॥
का त्वं कस्यासी सुश्रोणि कुतोऽसि किं चिकीर्षसि।
मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने॥ १९॥
श्री-कालिन्युः उवाच –
अहं देवस्य सवितुर्दुहिता पतिमिच्छती।
विष्णुं वरेण्यं वरदं तपः परममास्थितः॥ २०॥
श्री-शुकः उवाच –
नान्यं पतिं वृणे वीर तमृते श्री-निकेतनम्।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथ-संश्रयः॥ २१॥
कालिन्दी-इति समाख्याता वसामि यमुनाजले।
निर्मिते भवने पित्रा यावद्-अच्युत-दर्शनम्॥ २२॥
तथा-एव अदत् गुडाकेशो वासुदेवाय सोऽपि ताम्।
रथमारोः यतद् विद्वान् धर्मराजमुपागमत्॥ २३॥
यदैव कृष्णः सन्दिष्टः पार्थानां परम-आद्भुतम्।
कारयामास नगरं विचित्रं विश्वकर्मणा॥ २४॥
भगवान्-स्तत्र निवसन् स्वनां प्रिय-चिकीर्षया।
अग्नये खाण्डवं दातुम् अर्जुनस्याथ सारथिः॥ २५॥
सोऽग्निः तुष्टो धनुरदाद्धयाञ्छ्वेतान् रथं नृप।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः॥ २६॥
मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्।
यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः॥ २७॥
स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः।
आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः॥ २८॥
अथोपयेमे कालिन्दीं सुपुण्य-अर्त्वृक्ष ऊर्जिते।
वितन्वन् परमानन्दं स्वानां परम-मङ्गलम्॥ २९॥
विन्द्य-आनुविन्दा-वावन्त्यौ दुर्योधनवशानुगौ।
स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम्॥ ३०॥
राजाधिदेव्यास्तनयां मित्रविन्दां पितृ-स्वसुः।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम्॥ ३१॥
नग्नजिन्नाम कौशल्य आसीद् राजातिधार्मिकः।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप॥ ३२॥
न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान्।
तीक्ष्ण-शृङ्गान् सुदुर्धर्षान् वीर्य-गन्धासहान् खलान्॥ ३३॥
तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः।
जगाम कौशल्यपुरं सैन्येन महता वृतः॥ ३४॥
स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः॥ ३५॥
वरं विलोक्याभिमतं समागतं
नरेन्द्रकन्या चकमे रमापतिम्।
भूयादयं मे पतिराशिषोऽनलः
करोतु सत्या यदि मे धृतो व्रतैः॥ ३६॥
यत्पादपङ्कजरजः शिरसा बिभर्ति
श्रीरब्जजः सगिरिशः सहलोकपालैः।
लीलातनू स्वकृतसेतुपरीप्सयेशः
काले दधत् स भगवान् मम केन तुष्येत्॥ ३७॥
अर्चितं पुनरित्याह नारायण जगत्पते।
आत्मानन्देन पूर्णस्य करवाणि किमल्पकः॥ ३८॥
श्री-शुकः उवाच –
तमाह भगवान् हृष्टः कृत-आसन-परिग्रहः।
मेघ-गम्भीर-या वाचा सस्मितं कुरु-नन्दन॥ ३९॥
श्री-भगवान् उवाच –
नरेन्द्र याच्ञा कविभिर्विगर्हिता
राजन्य-बन्धोर्निज-धर्म-वर्तिनः।
तथापि याचे तव सौहृद-इच्छया
कन्यां त्वदीयां न हि शुल्कदा वयम्॥ ४०॥
श्री-राजः उवाच –
कोऽन्यस्तेऽभ्यधिको नाथ कन्याः वर इहेप्सितः।
गुण-एक-धाम्नो यस्याङ्गे श्री-र्वसत्य-नपायिनी॥ ४१॥
किं त्वस्माभिः कृतः पूर्वं समयः सात्वत-र्षभ।
पुंसां वीर्य-परीक्षार्थं कन्यां वर-परिप्सया॥ ४२॥
सप्त-एते गोवृषा वीर दुर्दान्ता दुरवग्रहाः।
एतैः भग्नाः शुभेभो भिन्न-गात्रा नृपात्मजाः॥ ४३॥
यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन।
वरो भवान् अभिमतो दुहितुर्मे श्री-यः-पते॥ ४४॥
एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलया एव तान्॥ ४५॥
बद्ध्वा तान् दामभिः शौरिः भग्न-दर्पान् हतौजसः।
व्यकर्षल् लीलया बद्धान् बालो दारु-मयान् यथा॥ ४६॥
ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः॥ ४७॥
राजपत्न्यः च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्।
लेभिरे परमानन्दं जातश्च परम-उत्सवः॥ ४८॥
शङ्ख-भेर्य-अनकाः नेदुः गीत-वाध्य-द्विजा-आशीः।
नरा नार्यः प्रमुदिताः सुवासः-स्रगलङ्कृताः॥ ४९॥
दश-धेनु-सहस्राणि पारि-बर्हमदाद् विभुः।
युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवास-सम्॥ ५०॥
नव-नाग-सहस्राणि नाग-आच्छ-शत-गुणान् रथान्।
रथ-आच्छ-शत-गुणान् अश्वान् अश्व-आच्छ-शत-गुणान् नरान्॥ ५१॥
दम्पती रथमारोः व्य महत्या सेनया वृतौ।
स्नेह-प्रक्लिन्न-हृदयो यापयामास कोसलः॥ ५२॥
श्रुत्वैतद् रुरुधुर्भूपा नयन्तं पथि कन्यकाम्।
भग्न-वीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा॥ ५३॥
तानस्यतः शरव्रातान् बन्धु-प्रियकृदर्जुनः।
गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव॥ ५४॥
पारि-बर्हमुपागृह्य द्वारकामेत्य सत्यया।
रेमे यदूनामृषभो भगवान् देवकी-सुतः॥ ५५॥
श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृ-स्वसुः।
कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः॥ ५६॥
सुतां च मद्राधिपतेः लक्ष्मणा-लक्षणैर्युताम्।
स्वयंवरे जहारैकः स सुपर्णः सुधामिव॥ ५७॥
अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः॥ ५८॥
No comments:
Post a Comment