ச்யமந்தக மணி
ஸ்கந்தம் 10: அத்யாயம் 56
श्री-शुकः उवाच –
सत्राजितः स्व-तनयाम् कृष्णाय कृत-किल्बिषः।
स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान्॥ १ ॥
श्री-राजा उवाच –
सत्राजितः किम् अकरोत् ब्रह्मन् कृष्णस्य किल्बिषम्।
स्यमन्तकः कुतः तस्य कस्मात् दत्ता सुता हरेः॥ २ ॥
श्री-शुकः उवाच –
आसीत् सत्राजितः सूर्यः भक्तस्य परमः सखा।
प्रीतः तस्मै मणिम् प्रादात् सूर्यः तुष्टः स्यमन्तकम्॥ ३ ॥
सः तम् बिभ्रत् मणिम् कण्ठे भ्राजमानः यथा रविः।
प्रविष्टः द्वारकाम् राजन् तेजसा न उपलक्षितः॥ ४ ॥
तम् विलोक्य जनाः दूरात् तेजसा मुष्ट-दृष्टयः।
दीव्यते अक्षैः भगवते शशंसुः सूर्य-शङ्किताः॥ ५ ॥
नारायण नमस्ते अस्तु शङ्ख-चक्र-गदा-धर।
दामोदर अरविन्दाक्ष गोविन्द यदु-नन्दन॥ ६ ॥
एषः आयाति सविता त्वाम् दिदृक्षुः जगत्-पते।
मुष्णन् गभस्ति-चक्रेण नृणाम् चक्षूंषि तिग्म-गुः॥ ७ ॥
नु अनु विच्छन्ति ते मार्गम् त्रिलोक्याम् विबुध-ऋषभाः।
ज्ञात्वा अद्य गूढम् यदुषु द्रष्टुम् त्वाम् याति अजः प्रभो॥ ८ ॥
श्री-शुकः उवाच –
निशम्य बाल-वचनम् प्रहस्य अम्बुज-लोचनः।
प्राह न असौ रविः देवः सत्राजिन् मणिना ज्वलन्॥ ९ ॥
सत्राजित् स्व-गृहम् श्रीमत् कृत-कौतुक-मङ्गलम्।
प्रविश्य देव-सदने मणिम् विप्रैः न्यवेशयत्॥ १० ॥
दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो।
दुर्भिक्षम् आर्य-अरिष्टानि सर्प-आधि-व्याधयः अशुभाः।
न सन्ति मायिनः तत्र यत्र आस्ते अभ्यर्चितः मणिः॥ ११ ॥
स याचितः मणिम् क्वापि यदु-राजाय शौरिणा।
न एव अर्थ-कामुकः प्रादात् याचन-भङ्गम् अ-तर्कयन्॥ १२ ॥
तम् एका-दा मणिम् कण्ठे प्रतिमुच्य महा-प्रभम्।
प्रसेनः हयम् आरुह्य मृगायाम् व्यचरत् वने॥ १३ ॥
प्रसेनम् सहयम् हत्वा मणिम् आच्छिद्य केशरी।
गिरिम् विशन् जाम्बवता निहतः मणिम् इच्छता॥ १४ ॥
सः अपि चक्रे कुमारस्य मणिम् क्रीडनकम् बिले।
अपश्यन् भ्रातरम् भ्राता सत्राजित् पर्यतप्यत॥ १५ ॥
प्रायः कृष्णेन निहतः मणि-ग्रीवः वनम् गतः।
भ्राता मम इति तत् श्रुत्वा कर्णे कर्णे अ-जपन् जनाः॥ १६ ॥
भगवान् तत् उपश्रुत्य दुर्यशः लिप्तम् आत्मनि।
मार्ष्टुम् प्रसेन-पदविम् अन्वपद्यत नागरैः॥ १७ ॥
हतम् प्रसेनम् अश्वम् च वीक्ष्य केसरिणा वने।
तम् च अद्रि-प्रिष्ठे निहतम् ऋक्षेण ददृशुः जनाः॥ १८ ॥
ऋक्ष-राज-बिलम् भीमम् अन्धेन तमसा आवृतम्।
एकः विवेश भगवान् अवस्थाप्य बहिः प्रजाः॥ १९ ॥
तत्र दृष्ट्वा मणि-प्रेष्ठम् बाल-क्रीडनकम् कृतम्।
हर्तुम् कृत-मतिः तस्मिन् अवतस्थे अर्भक-अन्तिके॥ २० ॥
तम् अपूर्वम् नरम् दृष्ट्वा धात्री चुक्रोश भीतवत्।
तत् श्रुत्वा अभ्यद्रवत् क्रुद्धः जाम्बवान् बलिनाम् वरः॥ २१ ॥
सः वै भगवता तेन युयुधे स्वामिना आत्मनः।
पुरुषम् प्राकृतम् मत्वा कुपितः न अनु-भाव-वित्॥ २२ ॥
द्वन्द्व-युद्धम् सुतुमुलम् उभयोः विजिगीषतोः।
आयुध-आश्म-द्रुमैः दोर्भिः क्रव्य-अर्थे श्येनयोः इव॥ २३ ॥
आसीत् तत् अष्टा-विंश-अहम् इतरेतरम् उष्टिभिः।
वज्र-निष्पेष-परुषैः अविश्रमम् अहः-निशम्॥ २४ ॥
कृष्ण-मुष्टि-विनिष्पात-निष्पिष्ट-अङ्ग-उरु-बन्धनः।
क्षीण-सत्त्वः स्विन्न-गात्रः तम् आह अतीव विस्मितः॥ २५ ॥
जाने त्वाम् सर्व-भूतानाम् प्राण-ओजः सहः बलम्।
विष्णुम् पुराण-पुरुषम् प्रभविष्णुम् अधीश्वरम्॥ २६ ॥
त्वम् हि विश्व-सृजाम् स्रष्टा सृज्यानाम् अपि यत् च सत्।
कालः कलयताम् ईशः पर-आत्मा तथा आत्मनाम्॥ २७ ॥
यस्य ईषत्-उत्कलित-रोष-कटाक्ष-मोक्षैः
वर्त्मा आदिशत् क्षुभित-नक्र-तिमिङ्गलः अब्धिः।
सेतुः कृतः स्व-यशः उज्ज्वलिता च लङ्का
रक्षः-शिरांसि भुवि पेतुः इषु-क्षतानि॥ २८ ॥
इति विज्ञात-विज्ञानम् ऋक्ष-राजानम् अच्युतः।
व्याजहार महाराज भगवान् देवकी-सुतः॥ २९ ॥
अभिमृश्य अरविन्द-आक्षः पाणिना शङ्करेण तम्।
कृपया परया भक्तम् प्रेम-गम्भीरया गिरा॥ ३० ॥
मणि-हेतोः इह प्राप्ताः वयम् ऋक्ष-पते बिलम्।
मिथ्या-अभिशापम् प्रमृजन् आत्मनः मणिना अमुना॥ ३१ ॥
इति उक्तः स्वाम् दुहितरम् कन्याम् जाम्बवतीम् मुदा।
अर्हण-अर्थम् स मणिना कृष्णाय उपजहार ह॥ ३२ ॥
अदृष्ट्वा निर्गमम् शौरेः प्रविष्टस्य बिलम् जनाः।
प्रतीक्ष्य द्वादश-अहानि दुःखिताः स्व-पुरम् ययुः॥ ३३ ॥
निशम्य देवकी देवी रुक्मिण्या अनक-दुन्दुभिः।
सुहृदः ज्ञातयः अशोचन् बिलात् कृष्णम् अनिर्गतम्॥ ३४ ॥
सत्राजितम् शपन्तः ते दुःखिताः द्वारका-उकसः।
उपतस्थुः महा-मायाम् दुर्गाम् कृष्ण-उपलब्धये॥ ३५ ॥
तेषाम् तु देवी-उपस्थानात् प्रत्यादिष्ट-आशिषा स च।
प्रादुर्बभूव सिद्ध-अर्थः स-दारः हर्षयन् हरिः॥ ३६ ॥
उपलभ्य हृषीकेशम् मृतम् पुनर्-इव आगतम्।
सह पत्न्या मणि-ग्रीवम् सर्वे जात-महोत्सवाः॥ ३७ ॥
सत्राजितम् समाहूय सभायाम् राजा-सन्निधौ।
प्राप्तिम् च आख्याय भगवान् मणिम् तस्मै न्यवेदयत्॥ ३८ ॥
सः च अति-व्रीडितः रत्नम् गृहीत्वा अवाङ्मुखः ततः।
अनुतप्यमानः भवनम् अगमत् स्वेन पाप्मना॥ ३९ ॥
सः अनु-ध्यायन् तत् एव अघम् बलवत्-विग्रह-आकुलः।
कथम् मृजामि आत्म-रजः प्रसीदेत् वा अच्युतः कथम्॥ ४० ॥
किं कृत्वा साधु मह्यम् स्यात् न शपेत् वा जनः यथा।
अदीर्घ-दर्शनम् क्षुद्रम् मूढम् द्रविण-लोलुपम्॥ ४१ ॥
दास्ये दुहितरम् तस्मै स्त्री-रत्नम् रत्नम् एव च।
उपायः अयम् समीचीनः तस्य शान्तिः न च अन्यथा॥ ४२ ॥
एवम् व्यवसितः बुद्ध्या सत्राजित् स्व-सुताम् शुभाम्।
मणिम् च स्वयम् उद्यम्य कृष्णाय उपजहार ह॥ ४३ ॥
ताम् सत्यभामाम् भगवान् उपयेमे यथा-विधि।
बहुभिः याचिताम् शील-रूप-औदार्य-गुण-अन्विताम्॥ ४४ ॥
भगवान् आह न मणिम् प्रतीच्छामः वयम् नृप।
तव अस्ताम् देव-भक्तस्य वयम् च फल-भागिनः॥ ४५ ॥
No comments:
Post a Comment