முசுகுந்தனுக்கு கிருஷ்ண தரிசனம்
ஸ்கந்தம் 10: அத்யாயம் 51
श्री शुक उवाच –
तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इव उडुपम् ।
दर्शनीय-तमम् श्यामम् पीत-कौशेय-वाससम् ॥ १ ॥
श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभ-अमुक्त-कन्धरम् ।
पृथु-दीर्घ-चतुर्-बाहुम् नव-कञ्ज-अरुण-ईक्षणम् ॥ २ ॥
नित्य-प्रमुदितम् श्रीमत्-सुकपोलम् शुचि-स्मितम् ।
मुख-अरविन्दम् बिभ्राणम् स्फुरत्-मकर-कुण्डलम् ॥ ३ ॥
वासुदेवः हि अयम् इति पुमान् श्रीवत्स-लाञ्छनः ।
चतुर्-भुजः अरविन्द-आक्षः वन-माल्य-अति-सुन्दरः ॥ ४ ॥
लक्षणैः नारद-प्रोक्तैः न अन्यः भवितुम् अर्हति ।
निरायुधः चलन् पद्भ्याम् योत्स्ये अनेन निरायुधः ॥ ५ ॥
इति निश्चित्य यवनः प्राद्रवन्तम् पराङ्मुखम् ।
अन्वधावत् जिघृक्षुः तम् दुरापम् अपि योगिनाम् ॥ ६ ॥
हस्त-प्राप्तम् इव आत्मानम् हरिणा स पदे पदे ।
नीतः दर्शयता दूरम् यवन-ईशः अद्रि-कन्दरम् ॥ ७ ॥
पलायनम् यदु-कुले जातस्य तव न उचितम् ।
इति क्षिपन् अनुगतः न एनम् प्राप् आहत-अशुभः ॥ ८ ॥
एवम् क्षिप्तः अपि भगवान् प्राविशत् गिरि-कन्दरम् ।
सः अपि प्रविष्टः तत्र अन्यम् शयानम् ददृशे नरम् ॥ ९ ॥
नु असौ दूरम् आनीय शेते माम् इह साधु-वत् ।
इति मत्वा अच्युतम् मूढः तम् पदा समताडयत् ॥ १० ॥
सः उत्थाय चिरम् सुप्तः शनैः उन्मील्य लोचने ।
दिशः विलोकयन् पार्श्वे तम् अद्राक्षीत् अवस्थितम् ॥ ११ ॥
सः तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत ।
देहजेन अग्निना दग्धः भस्मसात् अभवत् क्षणात् ॥ १२ ॥
श्रीराज उवाच –
कः नाम सः पुमान् ब्रह्मन् कस्य किम्-वीर्यः एव च ।
कस्मात् गुहाम् गतः शिष्ये किम् तेजः यवन-अर्दनः ॥ १३ ॥
श्री शुक उवाच –
सः इक्ष्वाकु-कुले जातः मान्धातृ-तनयः महान् ।
मुचुकुन्दः इति ख्यातः ब्रह्मण्यः सत्य-सङ्गरः ॥ १४ ॥
सः याचितः सुर-गणैः इन्द्र-आद्यैः आत्म-रक्षणे ।
असुरेभ्यः परित्रस्तैः तत् रक्षाम् सः अकरोत् चिरम् ॥ १५ ॥
लब्ध्वा गुहम् ते स्वः-पालम् मुचुकुन्दम् अथ अब्रुवन् ।
राजन् विरमताम् कृच्छ्रात् भवान् नः परि-पालनात् ॥ १६ ॥
नर-लोके परित्यज्य राज्यम् निहत-कण्टकम् ।
अस्मान् पालयतः वीर कामाः ते सर्वे उज्झिताः ॥ १७ ॥
सुता महिष्यः भवतः ज्ञातयः अमात्य-मन्त्रिणः ।
प्रजाः च तुल्य-कालीयाः न अधुना सन्ति कालिताः ॥ १८ ॥
कालः बलीयान् बलिनाम् भगवान् ईश्वरः अव्ययः ।
प्रजाः कालयते क्रीडन् पशु-पालः यथा पशून् ॥ १९ ॥
वरम् वृणीष्व भद्रम् ते ऋते कैवल्यम् अद्य नः ।
एकः एव ईश्वरः तस्य भगवान् विष्णुः अव्ययः ॥ २० ॥
एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः ।
अशयिष्ट गुहा-आविष्टः निद्रया देव-दत्तया ॥ २१ ॥
स्वापम् यातम् यः तु मध्ये बोधयेत् त्वाम् अचेतनः ।
सः त्वया दृप्त-मात्रः तु भस्मी-भवतु तत्-क्षणात् ॥ २२ ॥
यवने भस्म-सात् नीते भगवान् सात्वत-ऋषभः ।
आत्मानम् दर्शयामास मुचुकुन्दाय धीमते ॥ २३ ॥
तम् आलोक्य घन-श्यामम् पीत-कौशेय-वाससम् ।
श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभेन विराजितम् ॥ २४ ॥
चतुः-भुजम् रोचमानम् वैजयन्त्या च मालया ।
चारु-प्रसन्न-वदनम् स्फुरत्-मकर-कुण्डलम् ॥ २५ ॥
प्रेक्षणीयम् नृ-लोकस्य स-अनुराग-स्मित-ईक्षणम् ।
अपीच्य-वयसम् मत्त-मृग-इन्द्र-उदार-विक्रमम् ॥ २६ ॥
पर्यपृच्छत् महा-बुद्धिः तेजसा तस्य धर्षितः ।
शङ्कितः शनकैः राजा दुर्धर्षम् इव तेजसा ॥ २७ ॥
श्री-मुचुकुन्द उवाच –
कः भवान् इह सम्प्राप्तः विपिने गिरि-गह्वरे ।
पद्भ्याम् पद्म-पालाशाभ्याम् विचरसि उरु-कण्टके ॥ २८ ॥
किम् स्वित् तेजस्विनाम् तेजः भगवान् वा विभावसुः ।
सूर्यः सोमः महा-इन्द्रः वा लोक-पालः अपरः अपि वा ॥ २९ ॥
मन्ये त्वाम् देव-देवानाम् त्रयाणाम् पुरुष-ऋषभम् ।
यत् बाधसे गुहा-अध्वान्तम् प्रदीपः प्रभया यथा ॥ ३० ॥
शुश्रूषताम् अव्यलीकम् अस्माकम् नर-पुङ्गव ।
स्व-जन्म कर्म गोत्रम् वा कथ्यताम् यदि रोचते ॥ ३१ ॥
वयम् तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः ।
मुचुकुन्दः इति प्रोक्तः यौवनाश्व-आत्मजः प्रभो ॥ ३२ ॥
चिर-प्रजागर-श्रान्तः निद्रया अपहत-इन्द्रियः ।
शये अस्मिन् विजने कामम् केन अपि उत्थापितः अधुना ॥ ३३ ॥
सः अपि भस्मी-कृतः नूनम् आत्मीयेन एव पाप्मना ।
अनन्तरम् भवान् श्रीमान् लक्षितः अमित्र-शातनः ॥ ३४ ॥
तेजसा ते अविषह्येण भूरि द्रष्टुम् न शक्नुमः ।
हत-ओजसा महा-भाग माननीयः असि देहिनाम् ॥ ३५ ॥
एवम् सम्भाषितः राज्ञा भगवान् भूत-भावनः ।प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥ ३६ ॥
श्री-भगवान् उवाच –
जन्म-कर्म-अभिधानानि सन्ति मे अङ्ग सहस्रशः ।
न शक्यन्ते अनुसङ्ख्यातुम् अनन्तत्वात् मया अपि हि ॥ ३७ ॥
क्वचित् रजांसि विममे पार्थिवानि उरु-जन्मभिः ।
गुण-कर्म-अभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८ ॥
काल-त्रय-उपपन्नानि जन्म-कर्माणि मे नृप ।
अनुक्रमन्तः न एव अन्तम् गच्छन्ति परम-ऋषयः ॥ ३९ ॥
तथा अपि अद्यतनानि अङ्ग शृणुष्व गदतः मम ।
विज्ञापितः विरिञ्चेन पुरा अहम् धर्म-गुप्तये ॥
भूमेः भार-आयमानानाम् असुराणाम् क्षयाय च ॥ ४० ॥
अवतीर्णः यदुकुले गृहे आनक-दुन्दुभेः।
वदन्ति वासुदेव इति वसुदेव-सुतम् हि माम्॥ ४१॥
काल-नेमिः हतः कंसः प्रलम्ब-आद्याः च सत्-द्विषः।
अयम् च यवनः दग्धः राजन् ते तिग्म-चक्षुषा॥ ४२॥
सः अहम् तव अनु-ग्रह-अर्थम् गुहाम् एताम् उपागतः।
प्रार्थितः प्रचुरम् पूर्वम् त्वया अहम् भक्त-वत्सलः॥ ४३॥
वरान् वृणीष्व राज-ऋषे सर्वान् कामान् ददामि ते।
माम् प्रसन्नः जनः कश्चित् न भूयः अर्हति शोचितुम्॥ ४४॥
श्री शुक उवाच –
इति उक्तः तम् प्रणम्य आह मुचुकुन्दः मुदान्वितः।
ज्ञात्वा नारायणम् देवं गर्ग-वाक्यम् अनुस्मरन्॥ ४५॥
श्री मुचुकुन्द उवाच –
विमोहितः अयम् जनः ईश मायाया
त्वदीयया त्वाम् न भजति अनर्थ-दृक्।
सुखाय दुःख-प्रभवेषु सज्जते
गृहेषु योषित् पुरुषः च वञ्चितः॥ ४६॥
लब्ध्वा जनः दुर्लभम् अत्र मानुषम्
कथंचित् अव्यङ्गम् अयत्नतः अनघ।
पाद-अरविन्दम् न भजति असत्-मतिः
गृह-अन्ध-कूपे पतितः यथा पशुः॥ ४७॥
मम एषः कालः अजित निष्फलः गतः
राज्य-श्रिया उन्नद्ध-मदस्य भूपतेः।
मर्त्य-आत्म-बुद्धेः सुत-दार-कोश-भू-
षु आसज्जमानस्य दुरन्त-चिन्तया॥ ४८॥
कलेवरे अस्मिन् घट-कुड्य-सन्निभे
निरूढ-मानः नर-देवः इति अहम्।
वृतः रथ-इभ-अश्व-पदाति-अनीक-पैः
गाम् पर्यटन् त्वाम् अगणयन् सुदुर्मदः॥ ४९॥
प्रमत्तम् उच्चैः इति कृत्य-चिन्तया
प्रवृद्ध-लोभम् विषयेषु लालसम्।
त्वम् अप्रमत्तः सहसा अभिपद्यसे
क्षुल्ल इह आनः अहिः इव आखुम् अन्तकः॥ ५०॥
पुरा रथैः हेम-परिष्कृतैः चरन्
मतङ्गजैः वा नर-देव-संज्ञितः।
सः एव कालेन दुरत्ययेन ते
कलेवरः विट्-कृमि-भस्म-संज्ञितः॥ ५१॥
निर्जित्य दिक्-चक्रम् अभूत-विग्रहः
वर-आसन-स्थः सम-राज-वन्दितः।
गृहेषु मैथुन-सुखेषु योषिताम्
क्रीडा-मृगः पुरुषः ईश नीयते॥ ५२॥
करोति कर्माणि तपः-सु-निष्ठितः
निवृत्त-भोगः तत् अपेक्षया ददत्।
पुनः च भूयासम् अहम् स्व-राट् इति
प्रवृद्ध-तर्षः न सुखाय कल्पते॥ ५३॥
भव-अपवर्गः भ्रमतः यदा भवेत्
जनस्य तर्हि अच्युत सत्-समागमः।
सत्-सङ्गमः यः हि तदा एव सद्-गतौ
पर-आवर-ईशे त्वयि जायते मतिः॥ ५४॥
मन्ये मम अनुग्रहः ईश ते कृतः
राज्य-अनुबन्ध-अपगमः यदृच्छया।
यः प्रार्थ्यते साधुभिः एक-चर्यया
वनम् विविक्षद्भिः अखण्ड-भूमि-पैः॥ ५५॥
न कामये अन्यम् तव पाद-सेवनात्
अकिञ्चन-प्रार्थ्य-तमात् वरम् विभो।
आराध्यः कः त्वाम् हि अपवर्गदम् हरे
वृणीते आर्यः वरम् आत्म-बन्धनम्॥ ५६॥
तस्मात् विसृज्य आशीः ईश सर्वतः
रजः-तमः-सत्त्व-गुण-अनुबन्धनाः।
निरञ्जनम् निर्गुणम् अद्वयम् परम्
त्वाम् ज्ञाप्ति-मात्रम् पुरुषम् व्रजामि अहम्॥ ५७॥
चिरम् इह वृजिन-आर्तः तप्यमानः अनुतापैः
अवितृष-षट्-अमित्रः अलब्ध-शान्तिः कथञ्चित्।
शरणद समुपेतः त्वत्-पद-अब्जम् पर-आत्मन्
अभयम् अमृतम् अशोकम् पाहि माम् आपन्नम् ईश॥ ५८॥
श्री भगवान् उवाच –
सार्व-भौम महा-राज मतिः ते विमलः ऊर्जिता।
वरैः प्रलोभितस्य अपि न कामैः विहता यतः॥ ५९॥
प्रलोभितः वरैः यत् त्वम् अप्रमादाय विद्धि तत्।
न धीः मयि एक-भक्तानाम् आशीर्भिः भिद्यते क्वचित्॥ ६०॥
युञ्जानानाम् अभक्तानाम् प्राणायाम-आदिभिः मनः।
अक्षीण-वासनम् राजन् दृश्यते पुनः-उत्थितम्॥ ६१ ॥
विचरस्व महीम् कामम् मयि-आवेशित-मानसः।
अस्तु एवम् नित्यदा तुभ्यम् भक्तिः मयि अनपायिनी॥ ६२ ॥
क्षात्र-धर्म-स्थितः जन्तून् न्यवधीः मृगया-आदिभिः।
समाहितः तत्-तपसा जहि अघम् मद्-उपाश्रितः॥ ६३ ॥
जन्मनि अनन्तरे राजन् सर्व-भूत-सुहृत्-तमः।
भूत्वा द्विज-वरः त्वम् वै माम् उपैष्यसि केवलम्॥ ६४ ॥
No comments:
Post a Comment