துவாரகை நிர்மாணம்
ஸ்கந்தம் 10: அத்யாயம் 50
श्री शुक उवाच –
अस्तिः प्राप्तिः च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्म पितुः गृहान् ॥ १ ॥
पित्रे मगध-राजाय जरासन्धाय दुःखिते ।
वेदयाम् चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥ २ ॥
सः तत् अप्रियम् आकर्त्य शोक-अमर्ष-युतः नृप ।
अ-यादवीं महीं कर्तुम् चक्रे परमम् उद्यमम् ॥ ३ ॥
अक्षौहिणीभिः विंशत्या तिसृभिः च अपि संवृतः ।
यदु-राजधानीम् मथुराम् न्यरुणत् सर्वतः दिशम् ॥ ४ ॥
निरीक्ष्य तत् बलम् कृष्णः उद्वेलम् इव सागरम् ।
स्व-पुरम् तेन संरुद्धम् स्व-जनम् च भय-आकुलम् ॥ ५ ॥
चिन्तयामास भगवान् हरिः कारण-मानुषः ।
तत् देश-काल-अनुगुणम् स्व-अवतार-प्रयोजनम् ॥ ६ ॥
हनिष्यामि बलम् हि एतत् भुवि भारम् समाहितम् ।
मागधेन समानीतम् वश्यानाम् सर्व-भूभुजाम् ॥ ७ ॥
अक्षौहिणीभिः सङ्ख्यातम् भट-अश्व-रथ-कुञ्जरैः ।
मागधः तु न हन्तव्यः भूयः कर्ता बल-उद्यमम् ॥ ८ ॥
एतत् अर्थः अवतारः अयम् भू-भार-हरणाय मे ।
संरक्षणाय साधूनाम् कृतः अन्येषाम् वधाय च ॥ ९ ॥
अन्यः अपि धर्म-रक्षायै देहः संभ्रियते मया ।
विरामाय अपि अधर्मस्य काले प्रभवतः क्वचित् ॥ १० ॥
एवम् ध्यायति गोविन्दे आकाशात् सूर्य-वर्चसौ ।
रथौ उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥ ११ ॥
आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथ अब्रवीत् ॥ १२ ॥
पश्य आर्य व्यसनम् प्राप्तम् यदूनाम् त्वावताम् प्रभो ।
एष ते रथः आयातः दयितानि आयुधानि च ॥ १३ ॥
यानम् आस्थाय जहि एतत् व्यसनात् स्वान् समुद्धर ।
एतत् अर्थम् हि नौ जन्म साधूनाम् ईश शर्म-कृत् ॥ १४ ॥
त्रयो-विंशति-अनीक-अाख्यम् भूमेः भारम् अपाकुरु ।
एवम् सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५ ॥
निर्जग्मतुः स्व-आयुध-आढ्यौ बलेन अल्पीयसा आवृतौ ।
शङ्खम् दध्मौ विनिर्गत्य हरिः दारुक-सारथिः ॥ १६ ॥
ततः अभूत् पर-सैन्यानाम् हृदि वित्रास-वेपथुः ।
तौ अवाह मागधः वीक्ष्य हे कृष्ण पुरुष-अधम ॥ १७ ॥
न त्वया योद्धुम् इच्छामि बालेन एकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् ॥ १८ ॥
तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह ।
हित्वा वा मच्छरैः छिन्नम् देहम् स्वः याहि माम् जहि ॥ १९ ॥
श्रीभगवान् उवाच –
न वै शूराः विकत्थन्ते दर्शयन्ति एव पौरुषम् ।
न गृह्णीमः वचः राजन् आतुरस्य मुमूर्षतः ॥ २० ॥
श्री शुक उवाच –
जरासुतः तौ अभिसृत्य माधवौ
महाबल-ओघेन बलीयसा आवृणोत् ।
ससैन्य-यान-ध्वज-वाजि-सारथी
सूर्य-अनलौ वायुः इव अभ्र-रेणुभिः ॥ २१ ॥
सुपर्ण-ताल-ध्वज-चिह्नितौ रथौ
वलक्षयन्त्यः हरि-रामयोः मृधे ।
स्त्रियः पुर-आट्टालक-हर्म्य-गोपुरम्
समाश्रिताः सम्मुमुहुः शुच्-आर्दिताः ॥ २२ ॥
हरिः पर-अनीक-पयः-मुचाम् मुहुः
शिलीमुख-आत्युल्बण-वर्ष-पीडितम् ।
स्वसैन्यम् आलोक्य सुर-असुर-अर्चितम्
व्यस्फूर्जयत् शार्ङ्ग-शर-असन-उत्तमम् ॥ २३ ॥
गृह्णन् निषङ्गात् अथ सन्दधत् शरान्
विकृष्य मुञ्चन् शित-बाण-पूगान् ।
निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन्
निरन्तरम् यद्वद् अलात-चक्रम् ॥ २४ ॥
निर्भिन्न-कुम्भाः करिणः निपेतुः
अनेकशः अश्वाः शर-वृक्ण-कन्धराः ।
रथाः हत-अश्व-ध्वज-सूत-नायकाः
पदायताः छिन्न-भुज-उरु-कन्धराः ॥ २५ ॥
सञ्छिद्यमान-द्विप-देह-वाजिनाम्
अङ्ग-प्रसूताः शतशः असृक्-आपगाः ।
भुज-आहयः पुरुष-शीर्ष-कच्छपाः
हत-द्विप-अद्वीप-हय ग्रह-आकुलाः ॥ २६ ॥
कर-ऊरु-मीना नर-केश-शैवला
धनुष्-तरङ्ग-आयुध-गुल्म-सङ्कुलाः ।
अच्छूरिका-आवर्त-भयानकाः महा-
मणि-प्रवेका-आभरण-अश्म-शर्कराः ॥ २७ ॥
प्रवर्तिता भीरु-भय-आवहाः मृधे
मनस्विनाम् हर्षकरीः परस्परम् ।
विनिघ्नत् आरिन् मुसलेन दुर्मदान्
सङ्कर्षणेन अपरिमेय-तेजसा ॥ २८ ॥
बलम् तत् अङ्ग-अर्णव-दुर्ग-भैरवम्
दुरन्त-पारम् मगध-इन्द्र-पालितम् ।
क्षयम् प्रणीतम् वसुदेव-पुत्रयोः
विक्रीडितम् तत् जगद्-ईशयोः परम् ॥ २९ ॥
स्थिति-उद्भव-अन्तम् भुवन-त्रयस्य यः
समीहिते अनन्त-गुणः स्व-लीलया ।
न तस्य चित्रम् पर-पक्ष-निग्रहः
तथा अपि मर्त्य-अनुविधस्य वर्ण्यते ॥ ३० ॥
जग्राह विरथम् रामः जरासन्धम् महा-बलम् ।
हत-अनीक-अवशिष्ट-आसुम् सिंहः सिंहम् इव ओजसा ॥ ३१ ॥
बध्यमानम् हत-अरातिम् पाशैः वारुण-मानुषैः ।
वारयामास गोविन्दः तेन कार्य-चिकीर्षया ॥ ३२ ॥
सः मुक्तः लोक-नाथाभ्याम् व्रीडितः वीर-सम्मतः ।
तपसे कृत-सङ्कल्पः वारितः पथि राजभिः ॥ ३३ ॥
वाक्यैः पवित्र-अर्थ-पदैः नयनैः प्राकृतैः अपि ।
स्व-कर्म-बन्ध-प्राप्तः अयम् यदुभिः ते पराभवः ॥ ३४ ॥
हतेषु सर्व-अनीकेषु नृपः बार्हद्रथः तदा ।
उपेक्षितः भगवता मगधान् दुर्मनाः ययौ ॥ ३५ ॥
मुकुन्दः अपि अक्षत-बलः निस्तीर्ण-अरि-बल-अर्णवः ।
विकीर्यमाणः कुसुमैः त्रिदशैः अनुमोदितः ॥ ३६ ॥
माथुरैः उपसङ्गम्य विज्वरैः मुदित-आत्मभिः ।
उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥ ३७ ॥
शङ्ख-दुन्दुभयः नेदुः भेरी-तूर्याणि अनेकशः ।
वीणा-वॆणु-मृदङ्गानि पुरम् प्रविशति प्रभौ ॥ ३८ ॥
सिक्त-मार्गाम् हृष्ट-जनाम् पताकाभिः अलङ्कृताम् ।
निर्घुष्टाम् ब्रह्म-घोषेण कौतुक-आबद्ध-तोरणाम् ॥ ३९ ॥
निचीयमानः नारीभिः माल्य-दधि-अक्षता-अङ्कुरैः ।
निरीक्ष्यमाणः स-स्नेहम् प्रीति-उत्कलित-लोचनैः ॥ ४० ॥
आयोधनगतं वित्तम् अनन्तम् वीर-भूषणम्।
यदु-राजाय तत् सर्वम् आहृतम् प्रादिशत् प्रभुः॥ ४१॥
एवम् सप्तदश-कृत्वः तावत् अक्षौहिणी-बलः।
युयुधे मागधः राजा यदुभिः कृष्ण-पालितैः॥ ४२॥
अक्षिण्वन् तत् बलम् सर्वम् वृष्णयः कृष्ण-तेजसा।
हतेषु स्वेषु अनीकेषु त्यक्तः अयात् अरिभिः नृपः॥ ४३॥
अष्टादशम् सङ्ग्रामे आगामिनि तत् अन्तराः।
नारद-प्रेषितः वीरः यवनः प्रत्यदृश्यत॥ ४४॥
रुरोध मथुराम् एत्य तिसृभिः म्लेच्छ-कोटिभिः।
नृ-लोके च अप्रतिद्वन्द्वः वृष्णीन् श्रुत्वा आत्म-सम्मितान्॥ ४५॥
तम् दृष्ट्वा अचिन्तयत् कृष्णः सङ्कर्षण-सहायवान्।
अहो यदूनाम् वृजिनम् प्राप्तम् हि उभयतः महत्॥ ४६॥
यवनः अयम् निरुन्धे अस्मान् अद्य तावत् महा-बलः।
मागधः अपि अद्य वा श्वः वा परश्वः वा आगमिष्यति॥ ४७॥
आवयोः युध्यतोः अस्य यदि आगन्ता जरासुतः।
बन्धून् वधिष्यति अथ वा नेष्यते स्वपुरम् बली॥ ४८॥
तस्मात् अद्य विधास्यामः दुर्गम् द्विपद-दुर्गम्।
तत्र ज्ञातीन् समाधाय यवनम् घातयामहे॥ ४९॥
इति सम्मन्त्र्य भगवान् दुर्गम् द्वादश-योजनम्।
अन्तः-समुद्रे नगरम् कृत्स्नात् भुतम् अचीकरत्॥ ५०॥
दृश्यते यत्र हि त्वाष्ट्रम् विज्ञानम् शिल्प-नैपुणम्।
रथ्या-चत्वर-वीथीभिः यथा वास्तु विनिर्मितम्॥ ५१॥
सुर-द्रुम-लता-उद्यान विचित्र-उपवन-अन्वितम्।
हेम-शृङ्गैः दिवि-स्पृग्भिः स्फटिक-अट्टाल-गोपुरैः॥ ५२॥
राजत-आरकुटैः कोष्ठैः हेम-कुम्भैः अलङ्कृतैः।
रत्न-कूटैः गृहैः हेमैः महा-मरकत-स्थलैः॥ ५३॥
वास्तु-ईश्वतीनाम् च गृहैः वल्लभीभिः च निर्मितम्।
चातुर्वर्ण्य-जन-आकीर्णम् यदु-देव-गृह-उल्लसत्॥ ५४॥
सुधर्माम् पारिजातम् च महेन्द्रः प्राहिणोत् हरेः।
यत्र च अवस्थितः मर्त्यः मर्त्य-धर्मैः न युज्यते॥ ५५॥
श्याम-एक-कर्णान् वरुणः हयान् शुक्लान् मनोजवान्।
अष्टौ निधि-पतिः कोशान् लोक-पालः निज-उदयान्॥ ५६॥
यत् यत् भगवता दत्तम् आधिपत्यं स्व-सिद्धये।
सर्वम् प्रत्यर्पयामासुः हरेः भूमि-गते नृप॥ ५७॥
तत्र योग-प्रभावेण नीत्वा सर्व-जनम् हरिः।
प्रजापालेन रामेण कृष्णः समनुमन्त्रितः।
निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः॥ ५८॥
No comments:
Post a Comment