குருபுத்ரனை மீட்ட கண்ணன்
ஸ்கந்தம் 10: அத்யாயம் 45
श्री शुक उवाच –
पितरौ उपलब्ध-अर्थौ विदित्वा पुरुष-उत्तमः ।
मा भूत् इति निजाम् मायाम् ततान जन-मोहिनीम् ॥ १ ॥
उवाच पितरौ इत्य् साग्रजः सात्व-ऋषभः ।
प्रश्रय-अवनतः प्रीणन् अम्ब तात इति स-आदरम् ॥ २ ॥
न अस्मत्-तः युवयोः तात नित्य-उत्कण्ठितयोः अपि ।
बाल्य-पौगण्डक-ऐशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ ३ ॥
न लब्धः दैव-हतयोः वासः नौ भवत्-अन्तिके ।
याम् बालाः पितृ-गेह-स्थाः विन्दन्ते लालिता मुदम् ॥ ४ ॥
सर्व-अर्थ-सम्भवः देहः जनितः पोषितः यतः ।
न तयोः याति निर्वेशम् पित्रोः मर्त्यः शत-आयुषा ॥ ५ ॥
यः तयोः आत्मजः कल्पः आत्मना च धनेन च ।
वृत्तिम् न दद्यात् तम् प्रेत्य स्व-मांसम् खादयन्ति हि ॥ ६ ॥
मातरम् पितरम् वृद्धम् भार्याम् साध्वीम् सुतम् शिशुम् ।
गुरुम् विप्रम् प्रपन्नम् च कल्पः अबिभ्रत् श्वसन् मृतः ॥ ७ ॥
तत् न अवकल्पयोः कंसात् नित्यम् उद्विग्न-चेतसोः ।
मोघम् एते व्यतिक्रान्ताः दिवसाः वाम् अनर्चतोः ॥ ८ ॥
तत् क्षन्तुम् अर्हथः तात मातरन् नौ परतन्त्रयोः ।
अकुर्वतोः वाम् शुश्रूषाम् क्लिष्टयोः दुर्हृदा भृशम् ॥ ९ ॥
श्री शुक उवाच –
इति माया-मनुष्यस्य हरेः विश्व-आत्मनः गिरा ।
मोहितौ अङ्कम् आरोप्य परिष्वज्य आपतुः मुदम् ॥ १० ॥
सिञ्चन्तौ अश्रु-धाराभिः स्नेह-पाशेन च आवृतौ ।
न किञ्चित् ऊचतुः राजन् बाष्प-कण्ठौ विमोहितौ ॥ ११ ॥
एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः ।
मातामहम् तू उग्रसेनम् यदूनाम् अकरोत् नृपम् ॥ १२ ॥
आह च अस्मान् महा-राज प्रजाः च आज्ञप्तुम् अर्हसि ।
ययाति-शापात् यदुभिः न आसितव्यम् नृप-आसने ॥ १३ ॥
मयि भृत्ये उपासीने भवतः विबुध-आदयः ।
बलिम् हरन्ति अवनताः किम् उ तान्ये नर-अधिपाः ॥ १४ ॥
सर्वान् स्वान् ज्ञाति-संबन्धान् दिग्भ्यः कंस-भय-आकुलान् ।
यदु-वृष्णि-अन्धक-मधु-दाशार्ह-कुकुर-आदिकान् ॥ १५ ॥
सभाजितान् समाश्वास्य विदेश-आवास-कर्त्शितान् ।
न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् ॥ १६ ॥
कृष्ण-सङ्कर्षण-भुजैः गुप्ताः लब्ध-मनोरथाः ।
गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः ॥ १७ ॥
वीक्षन्तः अहरहः प्रीताः मुकुन्द-वदन-अम्बुजम् ।
नित्यं प्रमुदितम् श्रीमत् स-दय-स्मित-वीक्षणम् ॥ १८ ॥
तत्र प्रवयसः अपि आसन् युवानः अति-बल-ओजसः ।
पिबन्तः अक्षैः मुकुन्दस्य मुख-अम्बुज-सुधाम् मुहुः ॥ १९ ॥
अथ नन्दम् समसाद्य भगवान् देवकी-सुतः ।
सङ्कर्षणः च राजेन्द्र परिष्वज्य इदम् ऊचतुः ॥ २० ॥
पितर्य् उवाभ्याम् स्निग्धाभ्याम् पोषितौ लालितौ भृशम् ।
पित्रोः अभ्यधिका प्रीतिः आत्मजेषु आत्मनः अपि हि ॥ २१ ॥
सः पिता सा च जननी यौ पुष्णीताम् स्व-पुत्रवत् ।
शिशून् बन्धुभिः उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ २२ ॥
यात यूयम् व्रजम् तात वयम् च स्नेह-दुःखितान् ।
ज्ञातीन् वः द्रष्टुम् एष्यामः विधाय सुहृदाम् सुखम् ॥ २३ ॥
एवम् सान्त्वय्य भगवान् नन्दम् स-व्रजम् अच्युतः ।
वासः अलङ्कार-कुप्य-आद्यैः अर्हयामास स-आदरम् ॥ २४ ॥
इति उक्तः तौ परिष्वज्य नन्दः प्रणय-विह्वलः ।
पूरयन् अश्रुभिः नेत्रे सह गोपैः व्रजम् ययौ ॥ २५ ॥
अथ शूर-सुतः राजन् पुत्रयोः समकारयत् ।
पुरोधसा ब्राह्मणैः च यथावत् द्विज-संस्कृतिम् ॥ २६ ॥
तेभ्यः अदात् दक्षिणाः गावः रुक्म-मालाः स्व-अलङ्कृताः ।
स्व-अलङ्कृतेभ्यः संपूज्य स-वत्साः क्षौम-मालिनीः ॥ २७ ॥
याः कृष्ण-राम-जन्म-अर्क्षे मनः-दत्ताः महा-मतिः ।
ताः च अददात् अनुस्मृत्य कंसेन अधर्मतः हृताः ॥ २८ ॥
ततः च लब्ध-संस्कारौ द्विजत्वम् प्राप्य सु-व्रतौ ।
गर्गात् यदु-कुल-आचार्यात् गायत्रम् व्रतम् आस्थितौ ॥ २९ ॥
प्रभवौ सर्व-विद्यानाम् सर्वज्ञौ जगत्-ईश्वरौ ।
न अन्य-सिद्ध-अमल-ज्ञानम् गूहमानौ नर-ईहितैः ॥ ३० ॥
अथः गुरुकुले वासम् इच्छन्तौ उपजग्मतुः ।
काश्यम् सान्दीपनिम् नाम हि अवन्तिपुर-वासिनम् ॥ ३१ ॥
यथा उपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् ।
ग्राहयन्तौ उपेतौ स्म भक्त्या देवम् इव आदृतौ ॥ ३२ ॥
तयोः द्विज-वरः तुष्टः शुद्ध-भाव अनुवृत्तिभिः ।
प्रोवाच वेदान् अखिलान् स-आङ्ग-उपनिषदः गुरुः ॥ ३३ ॥
स-रहस्यम् धनुः-वेदम् धर्मान् न्याय-पथान् तथा ।
तथा च आन्वीक्षिकीम् विद्याम् राज-नीतिम् च षड्विधाम् ॥ ३४ ॥
सर्वम् नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ ।
सकृत् निगद-मात्रेण तौ सञ्जगृहतुः नृप ॥ ३५ ॥
अहो-रात्रैः चतुः-षष्ट्या संयत्तौ तावतीः कलाः ।
गुरु-दक्षिणया आचार्यम् छन्दयामासतुः नृप ॥ ३६ ॥
द्विजः तयोः तम् महिमानम् अद्भुतम्
संलक्ष्य राजन् अति-मानुषीम् मतिम् ।
सम्मन्त्र्य पत्न्या सः महा-अर्णवे मृतम्
बालम् प्रभासे वरयाम्-अभूव ह ॥ ३७ ॥
तथैति अथ आरुह्य महा-रथौ रथम्
प्रभासम् आसाद्य दुरन्त-विक्रमौ ।
वेलाम् उपव्रज्य निषीदतुः क्षणम्
सिन्धुः विदित्वा अर्हणम् आहरत् तयोः ॥ ३८ ॥
तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् ।
यः असौ इह त्वया ग्रस्तः बालकः महता ऊर्मिणा ॥ ३९ ॥
श्री-समुद्रः उवाच –
न एव आहर्षम् अहम् देव दैत्यः पञ्चजनः महा-अन् ।
अन्तः-जल-चरः कृष्ण शङ्ख-रूप-धरः असुरः ॥ ४० ॥
आस्ते तेन आहृतः नूनम् तत् श्रुत्वा सत्वरम् प्रभुः ।
जलम् आविश्य तम् हत्वा न अपश्यत् उदरे अर्भकम् ॥ ४१ ॥
तत् अङ्ग-प्रभवम् शङ्खम् आदाय रथम् आगमत् ।
ततः संयमनीम् नाम यमस्य दयिताम् पुरीम् ॥ ४२ ॥
गत्वा जनार्दनः शङ्खम् प्रदध्मौ सह-आयुधः ।
शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनः यमः ॥ ४३ ॥
तयोः सपर्याम् महतीम् चक्रे भक्ति-उपबृंहिताम् ।
उवाच अवनतः कृष्णम् सर्व-भूत-आशय-आलयम् ।
लीलाम् अनुष्य हे विष्णो युवयोः करवाम किम् ॥ ४४ ॥
श्री-भगवान् उवाच –
गुरु-पुत्रम् इह आनीतम् निज-कर्म-निबन्धनम् ।
आनयस्व महा-राज मत्-शासन-पुरस्कृतः ॥ ४५ ॥
तथा इति तेन उपानीतम् गुरु-पुत्रम् यदूत्तमौ ।
दत्त्वा स्व-गुरवे भूयः वृणीष्व इति तम् ऊचतुः ॥ ४६ ॥
श्री-गुरुः उवाच –
सम्यक् सम्पादितः वत्स भवद्भ्याम् गुरु-निष्क्रयः ।
कः नु युष्मत्-विदः गुरोः कामानाम् अवशिष्यते ॥ ४७ ॥
गच्छतम् स्व-गृहम् वीरौ कीर्तिः वाम् अस्तु पावनी ।
छन्दांसि अयात-यामानि भवंतु इह परत्र च ॥ ४८ ॥
गुरुणा एवम् अनुज्ञातौ रथेन अनिल-रंहसा ।
आयातौ स्व-पुरम् तात पर्जन्य-निनदेन वै ॥ ४९ ॥
समनन्दन् प्रजाः सर्वाः दृष्ट्वा राम-जनार्दनौ ।
अपश्यन्त्यः बहु-अहानि नष्ट-लब्ध-धनाः इव ॥ ५० ॥
No comments:
Post a Comment