இந்திரன் ஸ்துதி
ஸ்கந்தம் 10: அத்யாயம் 27
श्री शुक उवाच - गोवर्धने धृते शैले आसारात् रक्षिते व्रजे। गोलोकात् आव्रजत् कृष्णं सुरभिः शक्रः एव च ॥ 1 विविक्तः उपसङ्गम्य व्रीडीतः कृत-हेलनः। पस्पर्श पादयोः एनं किरीटेन अर्क-वर्चसा ॥ 2 दृष्ट-श्रुत-अनुभावः अस्य कृष्णस्य अमित-तेजसः। नष्ट-त्रि-लोक-ईश-मदः इन्द्रः आह कृत-अञ्जलिः ॥ 3 इन्द्र उवाच - विशुद्ध-सत्त्वं तव धाम शान्तं तपः-मयं ध्वस्त-रजस्-तमस्कम्। माया-मयः अयं गुण-सम्प्रवाहः न विद्यते ते अग्रहण-अनुबन्धः ॥ 4 कुतः नु तत्-हेतवः ईश तत्-कृताः लोभ-आदयः ये अभुध-लिङ्ग-भावाः। तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ 5 पिता गुरुः त्वं जगताम् अधीशः दुरत्ययः कालः उपात्त-दण्डः। हिताय स्वेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगत्-ईश-मानिनाम् ॥ 6 ये मत्-विध-आज्ञाः जगत्-ईश-मानिनः त्वां वीक्ष्य काले अभयम् आशु तत्-मदम्। हित्वा आर्य-मार्गं प्रभजन्ति अपस्मयाः ईहा खलानाम् अपि ते अनुशासनम् ॥ 7 सः त्वं मम ऐश्वर्य-मद-अप्लुतस्य कृत-अगसः ते अविदुषः प्रभावम्। क्षन्तुं प्रभो अथ अर्हसि मूढ-चेतसः मैवं पुनः भूः मतिः ईश मे असती ॥ 8 तव अवतारः अयम् अधोक्षज-इह स्वयं-भराणाम् उरु-भार-जन्मनाम्। चमू-पतिनाम् अभवाय देव भवाय युष्मत् चरण-अनुवर्तिनाम् ॥ 9 नमः तुभ्यम् भगवते पुरुषाय महात्मने। वासुदेवाय कृष्णाय सात्वताम् पतये नमः ॥ 10 स्वच्छन्द-उपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये। सर्वस्मै सर्व-बीजाय सर्व-भूत-आत्मने नमः ॥ 11 मया इदम् भगवन् गोष्ठ-नाशाय आसार-वा-युभिः। चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ 12 त्वया ईश अनुगृहीतः अस्मि ध्वस्त-स्तम्भः वृथा-उद्यमः। ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ 13 श्री शुक उवाच - एवम् सङ्कीर्तितः कृष्णः मघोना भगवानम् उम्। मेघ-गम्भीरया वाचा प्रहसन् इदम् अब्रवीत् ॥ 14 श्री भगवान् उवाच - मया ते अकारि मघवन् मख-भङ्गः अनुगृह्णता। मद्-अनुस्मृतये नित्यं मतस्य इन्द्र-श्रिया भृशम् ॥ 15 माम् ऐश्वर्य-श्री-मद-अन्धः दण्ड-पाणिं न पश्यति। तं भ्रंशयामि सम्पद्भ्यः यस्मै च इच्छामि अनुग्रहम् ॥ 16 गम्यतां शक्र भद्रं वः क्रियतां मे अनुशासनम्। स्थीयतां स्व-धिकारेषु युक्तैः वः स्तम्भ-वर्जितैः ॥ 17 अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी। स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ 18 सुरभिः उवाच - कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-सम्भव। भवता लोक-नाथेन सनाथाः वयम् अच्युत ॥ 19 त्वं नः परमकम् दैवम् त्वं न इन्द्रः जगत्-पते। भवाय भव गो-विप्र-देवानाम् ये च साधवः ॥ 20
इन्द्रं नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम्।
अवतीर्णः असि विश्व-आत्मन् भूमेः भार-अपनुत्तये॥ 21
श्री शुक उवाच -
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसाः आत्मनः।
जलैः आकाश-गङ्गायाः ऐरावत-कर-उद्धृतैः॥ 22
इन्द्रः सुर-ऋषिभिः साकं चोदितः देव-मातृभिः।
अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात्॥ 23
तत्र आगताः तुम्बुरु-नारद-आदयः
गन्धर्व-विद्याधर-सिद्ध-चारणाः।
जगुः यशः लोक-मल-अपहं हरेः
सुर-अङ्गनाः सन्-ननृतुः मुदा-अन्विताः॥ 24
तं तुष्टुवुः देव-निकाय-केतवः
व्यवाकिरन् च अद्भुत-पुष्प-वृष्टिभिः।
लोकाः परां निर्वृतिम् आप्नुवन् त्रयः
गावः तदा गाम् अनयन् पयः-द्रुताम्॥ 25
नाना-रस-ओघाः सरितः वृक्षाः आसन् मधु-स्रवाः।
अकृष्ट-पच्य-औषधयः गिरयः अभिभ्रत् उन्मणीन्॥ 26
कृष्णे अभिषिक्ते एतानि सत्त्वानि कुरु-नन्दन।
निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः॥ 27
इति गो-गोकुल-पतिम् गोविन्दम् अभिषिच्य सः।
अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम्॥ 28
No comments:
Post a Comment