கோவர்தன மலையை கண்ணன் தூக்கினான்
ஸ்கந்தம் 10: அத்யாயம் 25
श्री शुक उवाच
इन्द्रः तदा आत्मनः पूजां विज्ञाय विहतां नृप।
गोपेभ्यः कृष्ण-नाथेभ्यः नन्द-आदिभ्यः च उकोप सः ॥ 1
गणं सांवर्तकं नाम मेघानां च अन्त-कारिणाम्।
इन्द्रः प्रचोदयत् क्रुद्धः वाक्यं च आह ईशमान्युत ॥ 2
अहो श्री-मदम्-आहात्म्यं गोपानां कानन-औकसाम्।
कृष्णं मर्त्यम्-उपाश्रित्य ये चक्रुः देव-हेलनम् ॥ 3
यथा अदृढैः कर्ममयैः क्रतुभिः नाम-अनौ-निभैः।
विद्याम्-आन्वीक्षिकीं हित्वा तितीर्षन्ति भव-अर्णवम् ॥ 4
वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम्।
कृष्णं मर्त्यम्-उपाश्रित्य गोपा मे चक्रुः अप्रियम् ॥ 5
एषां श्रिया-वलिप्तानां कृष्णेन आध्मापित-आत्मनाम्।
धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम् ॥ 6
अहं च ऐरावतं नागम्-आरुह्य अनु-व्रजे व्रजम्।
मरुद्-गणैः महा-वीर्यैः नन्द-गोष्ठ-जिघांसया ॥ 7
श्री शुक उवाच
इत्थं मघवता आज्ञप्ताः मेघाः निर्मुक्त-बन्धनाः।
नन्द-गोकुलम्-आसारैः पीडयामासुः ओजसा ॥ 8
विद्योतमानाः विद्युद्भिः स्तनन्तः स्तनयित्नुभिः।
तीव्रैः मरुद्-गणैः नुन्नाः ववृषुः जल-शर्कराः ॥ 9
स्थूण-अस्थूला वर्ष-धारा मुञ्चत् स्व-अभ्रेषु-भीक्ष्णशः।
जल-ओघैः प्लाव्यमाना भूः न अदृश्यत नत-उन्नतम् ॥ 10
अत्यासार-अति-वादेन पशवः जात-वेपनाः।
गोपाः गोप्यः च शीत-आर्ताः गोविन्दं शरणं ययुः ॥ 11
शिरः सुतान् च कायेन प्रच्छाद्य आसार-पीडिताः।
वेपमानाः भगवतः पाद-मूलम्-उपाययुः ॥ 12
कृष्ण कृष्ण महा-भाग त्वत्-नाथं गोकुलं प्रभो।
त्रातुम्-अर्हसि देव-अन्नः कुपितात् भक्त-वत्सल ॥ 13
शिला-वर्ष-निपातेन हन्यमानम्-अचेतनम्।
निरीक्ष्य भगवान् मेने कुपित-इन्द्र-कृतं हरिः ॥ 14
अपर्त्त्व अति-उल्बणं वर्षम् अति-वादं शिला-मयम्।
स्व-यागे विहते अस्माभिः इन्द्रः नाशाय वर्षति ॥ 15
तत्र प्रतिविधिं सम्यक् आत्म-योगेन साधये।
लोक-ईश-मानिनां मौढ्यात् हरिष्ये श्री-मदं तमः ॥ 16
न हि सद्भाव-युक्तानां सुराणाम्-ईश-विस्मयः।
मत्तः असतां मान-भङ्गः प्रशमाय उपकल्पते ॥ 17
तस्मात् मत्-शरणं गोष्ठं मत्-नाथं मत्-परिग्रहम्।
गोपये स्व-आत्म-योगेन सः अयं मे व्रतः आहितः ॥ 18
इति उक्त्वा एकेन हस्तेन कृत्वा गोवर्धन-अचलम्।
दधार लीलया कृष्णः छत्र-अकम्-इव बालकः ॥ 19
अथ आह भगवान् गोपान् हे अम्ब तात व्रज-औकसः।
यथोपजोषं विशत गिरि-गर्तं स-गोधनाः ॥ 20
न त्रास इह वः कार्यः मद्-हस्तात् अद्रि-निपातने।
वात-वर्ष-भयेन आलम् तत्-त्राणं विहितं हि वः॥ 21
तथा निर्विविशुः गर्तं कृष्ण-आश्वसित-मानसः।
यथा-अवकाशं स-धनाः स-व्रजाः स-उपजीविनः॥ 22
क्षुत्-तृट्-व्यथां सुख-अपेक्षां हित्वा तैः व्रज-वासिभिः।
वीक्ष्यमाणः दधाव् अद्रिं सप्ताहं न अचलत् पदात्॥ 23
कृष्ण-योग-अनुभावं तं निशम्य इन्द्रः अति-विस्मितः।
निः-स्तम्भः भ्रष्ट-सङ्कल्पः स्वान् मेघान् संन्यवारयत्॥ 24
खं व्यभ्रं उदित-आदित्यं वात-वर्षं च दारुणम्।
निशम्य उपरतं गोपान् गोवर्धन-धरः अब्रवीत्॥ 25
निर्यात त्यजत त्रासं गोपाः स-स्त्री-धन-अर्भकाः।
उपारतं वात-वर्षं व्युद-प्रायाः च निम्नगाः॥ 26
ततः ते निर्ययुः गोपाः स्वं स्वम् आदाय गो-धनम्।
शकट-उढ-उपकरणं स्त्री-बाल-स्थविराः शनैः॥ 27
भगवान् अपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः।
पश्यतां सर्व-भूतानां स्थापयामास लीलया॥ 28
तं प्रेम-वेगात् निभृताः व्रज-औकसः
यथा समीयुः परिरम्भण-आदिभिः।
गोप्यः च स-स्नेहम् अपूजयन् मुदा
दधि-अक्षत-आद्भिः युयुजुः सदा-आशिषः॥ 29
यशोदा रोहिणी नन्दः रामः च बलिनां वरः।
कृष्णम् आलिङ्ग्य युयुजुः आशिषः स्नेह-कातराः॥ 30
दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः।
तुष्टुवुः मुमुचुः तुष्टाः पुष्प-वर्षाणि पार्थिव॥ 31
शङ्ख-दुन्दुभयः नेदुः दिवि देव-प्रणोदिताः।
जगुः गन्धर्व-पतयः तुंबुरु-प्रमुखाः नृप॥ 32
ततः अनुरक्तैः पशुपैः परिश्रितः
राजन् स गोष्ठं स-बलः अव्रजत् हरिः।
तथा-विदानि अस्य कृतानि गोपिकाः
गायन्त्यः ईयुः मुदिताः हृदि-स्पृशः॥ 33
No comments:
Post a Comment