பால லீலை
ஸ்கந்தம் 10: அத்யாயம் 11
श्री शुक उवाच गोपा नन्द-आदयः श्रुत्वा द्रुमयोः पततो रवम्। तत्र आजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः ॥१॥ भूम्याम् निपतितौ तत्र ददृशुः यमलार्जुनौ। बभ्रमुः तत् अविज्ञाय लक्ष्यं पतन-कारणम् ॥२॥ उलूखलम् विकर्षन्तं दाम्ना बद्धं च बालकम्। कस्य इदम् कुतः आश्चर्यं उत्पातः इति कातराः ॥३॥ बाला ऊचुः अनेन इति तिर्यक्-गतं उलूखलम्। विकर्षता मध्य-गेन पुरुषौ अपि अचक्ष्महि ॥४॥ न ते तत् उक्तं जगृहुः न घटेते इति तस्य तत्। बालस्य उत्पाटनं तर्वोः केचित् संदिग्ध-चेतसः ॥५॥ उलूखलम् विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम्। विलोक्य नन्दः प्रहसत्-वदनः विमुमोच ह ॥६॥ गोपीभिः स्तोभितः अनृत्यत् भगवान् बालवत् क्वचित्। उद्गायति क्वचित् मुग्धः तद्वशः दारु-यन्त्रवत् ॥७॥ बिभर्ति क्वचित् आज्ञप्तः पीठक-उन्मान-पादुकम्। बाहु-क्षेपं च कुरुते स्वानाम् च प्रीतिम् आवहन् ॥८॥ दर्शयन् तद्विदां लोक आत्मनः भृत्य-वश्यताम्। व्रजस्य उवाह वै हर्षं भगवान् बाल-चेष्टितैः ॥९॥ क्रीणीहि भोः फलानि इति श्रुत्वा सत्वरम् अच्युतः। फल-अर्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥१०॥ फल-विक्रयिणी तस्य च्युत-धान्यं कर-द्वयम्। फलैः अपूरयत् रत्नैः फल-भाण्डम् अपूरि च ॥११॥ सरित्-तीर-गतं कृष्णं भग्न-अर्जुनम् अथ आह्वयत्। रामं च रोहिणी देवी क्रीडन्तं बालकैः भृशम् ॥१२॥ न उपेयाताम् यदा आहूतौ क्रीडा-सङ्गेन पुत्रकौ। यशोदाम् प्रेषयामास रोहिणी पुत्र-वत्सलाम् ॥१३॥ क्रीडन्तं सा सुतं बालैः अतिवेलं सह अग्रजम्। यशोदा आह्वयत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी ॥१४॥ कृष्ण कृष्ण अरविन्द-आक्ष तात एहि स्तनं पिब। अलम् विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तः असि पुत्रक ॥१५॥ हे राम आगच्छ तात अशु स-अनुजः कुल-नन्दन। प्रातः एव कृत-आहारः तत् भवान् भोक्तुम् अर्हति ॥१६॥ प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणः व्रज-अधिपः। एहि आवयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥१७॥ धूलि-धूसरित-अङ्गः त्वं पुत्र मज्जनम् आवह। जन्म-अर्क्षम् अद्य भवतः विप्रेभ्यः देहि गाः शुचिः ॥१८॥ पश्य पश्य वयस्यान् ते मातृ-मृष्टान् स्व-अलङ्कृतान्। त्वं च स्नातः कृत-आहारः विहरस्व स्व-अलङ्कृतः ॥१९॥ इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीः नृप। हस्ते गृहीत्वा स-रामम् अच्युतं नीत्वा स्व-वाटं कृतवती अथ उदयम् ॥२०॥
गोप-वृद्धाः महा-उत्पातान् अनुभूय बृहत्-वने।
नन्द-आदयः समागम्य व्रज-कार्यं अमन्त्रयन् ॥२१॥
तत्र उपनन्द-नामाः आह गोपः ज्ञान-वयः अधिकः।
देश-काल-अर्थ-तत्त्व-ज्ञः प्रिय-कृत् राम-कृष्णयोः ॥२२॥
उत्थातव्यम् इतः अस्माभिः गो-कुलस्य हित-ऐषिभिः।
आयान्ति अत्र महा-उत्पाताः बालानाम् नाश-हेतवः ॥२३॥
मुक्तः कथं चित् राक्षस्या बाल-घ्न्या बालकः हि असौ।
हरेः अनुग्रहात् नूनम् अनः च उपरि न आपतत् ॥२४॥
चक्र-वातेन नीतः अयम् दैत्येन विपदम् वियत्।
शिलायाम् पतितः तत्र परित्रातः सुर-ईश्वरैः ॥२५॥
यत् न म्रियेत द्रुमयोः अन्तरम् प्राप्य बालकः।
असौ अन्य-तमः वा अपि तत् अपि अच्युत-रक्षणम् ॥२६॥
यावत् औत्पातिकः अरिष्टः व्रजम् न अभिभवेत् इतः।
तावत् बालान् उपादाय यास्यामः अन्यत्र स-अनुगाः ॥२७॥
वनम् वृन्दावनं नाम पशव्यं नव-काननम्।
गोप-गोपि-गवां सेव्यं पुण्य-अद्रि तृण-वीरुधम् ॥२८॥
तत् तत्र अद्य एव यास्यामः शकटान् युङ्क्त मा चिरम्।
गो-धनानि अग्रतः यान्तु भवताम् यदि रोचते ॥२९॥
तत् श्रुत्वा एक-धियः गोपाः साधु साधु इति वादिनः।
व्रजान् स्वान् स्वान् समायुज्य ययुः ऊढ-परिच्छदाः ॥३०॥
वृद्धान् बालान् स्त्रियः राजन् सर्व-उपकरणानि च।
अनः-स्व आरोप्य गोपालाः यत्ताः आत्त-शरासनाः ॥३१॥
गो-धनानि पुरस्कृत्य शृङ्गाणि आपूर्य सर्वतः।
तूर्य-घोषेण महता ययुः सह-पुरोहिताः ॥३२॥
गोप्यः ऊढ-रथाः नूत्न-कुच-कुङ्कुम-कान्तयः।
कृष्ण-लीलाः जगुः प्रीत्या निष्क-कण्ठ्यः सु-वससः ॥३३॥
तथा यशोदा रोहिण्यौ एकं शकटम् आस्थिते।
रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवण-उत्सुके ॥३४॥
वृन्दावनं सम्प्रविश्य सर्व-काल-सुख-अवहम्।
तत्र चक्रुः व्रज-आवासं शकटैः अर्ध-चन्द्रवत् ॥३५॥
वृन्दावनं गोवर्धनं यमुन-अपुलिनानि च।
वीक्ष्य आसीत् उत्तमा प्रीति राम-माधवयोः नृप ॥३६॥
एवं व्रज-औकसाम् प्रीतिं यच्छन्तौ बाल-चेष्टितैः।
कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥३७॥
अविदूरे व्रज-भुवः सह गोपाल-दारकैः।
चारयामासतुः वत्सान् नाना-क्रीडा-परिच्छदौ ॥३८॥
क्वचित् वादयतः वेणुं क्षेपणैः क्षिपतः क्वचित्।
क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः ॥३९॥
वृष-आयमाणौ नर्दन्तौ युयुधाते परस्परम्।
अनुकृत्य रुतैः जन्तून् अंश्चेरतुः प्राकृतौ यथा ॥४०॥
कदाचित् यमुना-तीरे वत्सान् चारयतोः स्वकैः।
वयस्यैः कृष्ण-बलयोः जिघांसुः दैत्यः आगमत् ॥४१॥
तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतम् हरिः।
दर्शयन् बलदेवाय शनैः मुग्धः इव आसदत् ॥४२॥
गृहीत्वा अपर-पादाभ्यां सह-लाङ्गूलम् अच्युतः।
भ्रामयित्वा कपित्थ-अग्रे प्राहिणोत् गत-जीवितम् ॥
स कपित्थैः महा-कायः पात्यमानैः पपात ह ॥४३॥
तं वीक्ष्य विस्मिताः बालाः शशंसुः साधु साधु इति।
देवाः च परिसन्तुष्टाः बभूवुः पुष्प-वर्षिणः ॥४४॥
तौ वत्स-पालकौ भूत्वा सर्व-लोक-एक-पालकौ।
स-प्रातराशौ गो-वत्सान् चारयन्तौ विचेरतुः ॥४५॥
स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्तः एकदा।
गत्वा जलाशय-अभ्याशं पाययित्वा पपुः जलम् ॥४६॥
ते तत्र ददृशुः बालाः महा-सत्त्वम् अवस्थितम्।
तत्र असुरः वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥४७॥
स वै बकः नाम महान् असुरः बक-रूप-धृक्।
आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डः अग्रसत् बली ॥४८॥
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा राम-आदयः अर्भकाः।
बभूवुः इन्द्रियाणि इव विना प्राणं विचेतसः ॥४९॥
तं तालु-मूलं प्रदहन्तम् अग्नि-वत्
गोपाल-सूनुं पितरं जगत्-गुरोः।
चच्छर्द सद्यः अति-रुषा क्षतम् बकः
तुण्डेन हन्तुं पुनः अभ्यपद्यत् ॥५०॥
तम् आपतन्तं स निगृह्य तुण्डयोः
दोर्भ्यां बकम् कंस-सखं सतां पतिः।
पश्यत्सु बालेषु ददार लीलया
मुदा-अवहः वीरणवत् दिव-औकसाम् ॥५१॥
तदा बकारिं सुर-लोक-वासिनः
समाकिरन् नन्दन-मल्लिका-आदिभिः।
समीडिरे च अनक-शङ्ख-संस्तवैः तद्
वीक्ष्य गोपाल-सुताः विसिस्मिरे ॥५२॥
मुक्तं बक-अस्यात् उपलभ्य बालकाः
राम-आदयः प्राणम् इव इन्द्रिय-गणः।
स्थान-आगतं तं परिरभ्य निर्वृताः
प्रणीय वत्सान् व्रजम् एत्य तत् जगुः ॥५३॥
श्रुत्वा तत् विस्मिताः गोपाः गोप्यः च अति-प्रिया-आदृताः।
प्रेत्य-आगतम् इव उत्सुक्यात् ऐक्षन्त तृषित-ईक्षणाः ॥५४॥
अहो बत अस्य बालस्य बहवः मृत्यवः अभवन्।
अपि आसीत् विप्रियं तेषां कृतं पूर्वं यतः भयम् ॥५५॥
अथ अपि अभिभवन्ति एनं नैव ते घोर-दर्शनाः।
जिघांसया एनम् आसाद्य नश्यन्ति अग्नौ पतङ्गवत् ॥५६॥
अहो ब्रह्म-विदां वाचः न असत्याः सन्ति कर्हिचित्।
गर्गः यत् आह भगवान् अन्वभावि तथैव तत् ॥५७॥
इति नन्द-आदयः गोपाः कृष्ण-राम-कथाम् मुदा।
कुर्वन्तः रममाणाः च न अविन्दन् भव-वेदनाम् ॥५८॥
एवं विहारैः कौमारैः कौमारं जहतुः व्रजे।
निलायनैः सेतु-बन्धैः मर्कट-उत्प्लवन-आदिभिः ॥५९॥
No comments:
Post a Comment