Followers

Search Here...

Wednesday, 2 April 2025

ஸ்கந்தம் 10: அத்யாயம் 27 (இந்திரன் ஸ்துதி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

இந்திரன் ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 27


श्री शुक उवाच - गोवर्धने धृते शैले आसारात् रक्षिते व्रजे। गोलोकात् आव्रजत् कृष्णं सुरभिः शक्रः एव च ॥ 1 विविक्तः उपसङ्गम्य व्रीडीतः कृत-हेलनः। पस्पर्श पादयोः एनं किरीटेन अर्क-वर्चसा ॥ 2 दृष्ट-श्रुत-अनुभावः अस्य कृष्णस्य अमित-तेजसः। नष्ट-त्रि-लोक-ईश-मदः इन्द्रः आह कृत-अञ्जलिः ॥ 3 इन्द्र उवाच - विशुद्ध-सत्त्वं तव धाम शान्तं तपः-मयं ध्वस्त-रजस्-तमस्कम्। माया-मयः अयं गुण-सम्प्रवाहः न विद्यते ते अग्रहण-अनुबन्धः ॥ 4 कुतः नु तत्-हेतवः ईश तत्-कृताः लोभ-आदयः ये अभुध-लिङ्ग-भावाः। तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ 5 पिता गुरुः त्वं जगताम् अधीशः दुरत्ययः कालः उपात्त-दण्डः। हिताय स्वेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगत्-ईश-मानिनाम् ॥ 6 ये मत्-विध-आज्ञाः जगत्-ईश-मानिनः त्वां वीक्ष्य काले अभयम् आशु तत्-मदम्। हित्वा आर्य-मार्गं प्रभजन्ति अपस्मयाः ईहा खलानाम् अपि ते अनुशासनम् ॥ 7 सः त्वं मम ऐश्वर्य-मद-अप्लुतस्य कृत-अगसः ते अविदुषः प्रभावम्। क्षन्तुं प्रभो अथ अर्हसि मूढ-चेतसः मैवं पुनः भूः मतिः ईश मे असती ॥ 8 तव अवतारः अयम् अधोक्षज-इह स्वयं-भराणाम् उरु-भार-जन्मनाम्। चमू-पतिनाम् अभवाय देव भवाय युष्मत् चरण-अनुवर्तिनाम् ॥ 9 नमः तुभ्यम् भगवते पुरुषाय महात्मने। वासुदेवाय कृष्णाय सात्वताम् पतये नमः ॥ 10 स्वच्छन्द-उपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये। सर्वस्मै सर्व-बीजाय सर्व-भूत-आत्मने नमः ॥ 11 मया इदम् भगवन् गोष्ठ-नाशाय आसार-वा-युभिः। चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ 12 त्वया ईश अनुगृहीतः अस्मि ध्वस्त-स्तम्भः वृथा-उद्यमः। ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ 13 श्री शुक उवाच - एवम् सङ्कीर्तितः कृष्णः मघोना भगवानम् उम्। मेघ-गम्भीरया वाचा प्रहसन् इदम् अब्रवीत् ॥ 14 श्री भगवान् उवाच - मया ते अकारि मघवन् मख-भङ्गः अनुगृह्णता। मद्-अनुस्मृतये नित्यं मतस्य इन्द्र-श्रिया भृशम् ॥ 15 माम् ऐश्वर्य-श्री-मद-अन्धः दण्ड-पाणिं न पश्यति। तं भ्रंशयामि सम्पद्भ्यः यस्मै च इच्छामि अनुग्रहम् ॥ 16 गम्यतां शक्र भद्रं वः क्रियतां मे अनुशासनम्। स्थीयतां स्व-धिकारेषु युक्तैः वः स्तम्भ-वर्जितैः ॥ 17 अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी। स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ 18 सुरभिः उवाच - कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-सम्भव। भवता लोक-नाथेन सनाथाः वयम् अच्युत ॥ 19 त्वं नः परमकम् दैवम् त्वं न इन्द्रः जगत्-पते। भवाय भव गो-विप्र-देवानाम् ये च साधवः ॥ 20

इन्द्रं नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम्।
अवतीर्णः असि विश्व-आत्मन् भूमेः भार-अपनुत्तये॥ 21

श्री शुक उवाच -
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसाः आत्मनः।
जलैः आकाश-गङ्गायाः ऐरावत-कर-उद्धृतैः॥ 22

इन्द्रः सुर-ऋषिभिः साकं चोदितः देव-मातृभिः।
अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात्॥ 23

तत्र आगताः तुम्बुरु-नारद-आदयः
गन्धर्व-विद्याधर-सिद्ध-चारणाः।
जगुः यशः लोक-मल-अपहं हरेः
सुर-अङ्गनाः सन्-ननृतुः मुदा-अन्विताः॥ 24

तं तुष्टुवुः देव-निकाय-केतवः
व्यवाकिरन् च अद्भुत-पुष्प-वृष्टिभिः।
लोकाः परां निर्वृतिम् आप्नुवन् त्रयः
गावः तदा गाम् अनयन् पयः-द्रुताम्॥ 25

नाना-रस-ओघाः सरितः वृक्षाः आसन् मधु-स्रवाः।
अकृष्ट-पच्य-औषधयः गिरयः अभिभ्रत् उन्मणीन्॥ 26

कृष्णे अभिषिक्ते एतानि सत्त्वानि कुरु-नन्दन।
निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः॥ 27

इति गो-गोकुल-पतिम् गोविन्दम् अभिषिच्य सः।
अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम्॥ 28

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः ॥ 27

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 26 (ஆச்சர்யமான கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஆச்சர்யமான கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 26


श्रीशुक उवाच

एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥

बालकस्य यत्-एतानि कर्माणि अति-अद्‍भुतानि वै
कथम् अर्हति असौ जन्म ग्राम्येषु आत्म-जुगुप्सितम् ॥ २ ॥

यः सप्त-हायनः बालः करेण एकेन लीलया
कथं बिभ्रत् गिरिवरं पुष्करं गज-राट् इव ॥ ३ ॥

तोकेन अमीलित-अक्षेण पूतनायाः महा-ओजसः
पीतः स्तनः सह प्राणैः कालेन इव वयस्-तनोः ॥ ४ ॥

हिन्वतः अधः-शयानस्य मास्यस्य चरणौ उदक्
अनः अपतत् विपर्यस्तं रुदतः प्रपद-अहतम् ॥ ५ ॥

एक-हायनः आसीनः ह्रियमाणः विहायसा
दैत्येन यः तृणावर्तम् अहन् कण्ठ-ग्रह-अतुरम् ॥ ६ ॥

क्वचित् धैतङ्-गवः स्तैन्ये मात्रा बद्धः उलूखले
गच्छन् अर्जुनयोः मध्ये बाहुभ्यां तौ अपातयत् ॥ ७ ॥

वने सञ्चारयन् वत्सान् सरामः बालकैः वृतः
हन्तु-कामं बकं दोर्भ्यां मुखतः अरिम् अपाटयत् ॥ ८ ॥

वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया
हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ ९ ॥

हत्वा रासभ-दैतेयम् तत्-बन्धून् च बल-अन्वितः
चक्रे ताल-वनं क्षेमं परिपक्व-फल-अन्वितम् ॥ १० ॥

प्रलम्बं घातयित्वा उग्रं बलेन बल-शालिना
अमोचयत् व्रज-पशून् गोपान् च अरण्य-वह्नितः ॥ ११ ॥

आशीविष-तम् आहीन्द्रं दमित्वा विमदं ह्रदात्
प्रसह्य उद्वास्य यमुनां चक्रे असौ निर्विष-उदकाम् ॥ १२ ॥

दुस्त्यजः च अनुरागः अस्मिन् सर्वेषां नः व्रज-औकसाम्
नन्द ते तनये अस्मासु तस्य अपि औत्पत्तिकः कथम् ॥ १३ ॥

क्व सप्त-हायनः बालः क्व महा-अद्रि-विदारणम्
ततः नः जायते शङ्‌का व्रज-नाथ तव आत्मजे ॥ १४ ॥

श्रीनन्द उवाच

श्रूयतां मे वचः गोपाः व्येतु शङ्‌का च वः अर्भके
एनं कुमारम् उद्दिश्य गर्गः मे यद् उवाच ह ॥ १५ ॥

वर्णाः त्रयः किल अस्य आसन् गृह्णतः अनु-युगं तनूः
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः ॥ १६ ॥

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः
वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः ॥ १८ ॥

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः
अनेन सर्व-दुर्गाणि यूयम् अञ्जस्-तरिष्यथ ॥ १९ ॥

पुराणेन व्रज-पते साधवः दस्यु-पीडिताः
अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः ॥ २० ॥

यः एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णुपक्षान् इव असुराः॥ 21

तस्मात् नन्दकुमारः अयम् नारायण-समः गुणैः।
श्रिया कीर्त्या अनुभावेन तत् कर्मसु न विस्मयः॥ 22

इति अद्धा माम् समादिश्य गर्गे च स्वगृहम् गते।
मन्ये नारायणस्य अंशम् कृष्णम् अक्लिष्ट-कारिणम्॥ 23

इति नन्द-वचः श्रुत्वा गर्ग-गीतम् व्रज-औकसः।
दृष्ट-श्रुत-अनुभावाः ते कृष्णस्य अमित-तेजसः।
मुदिताः नन्दम् आनर्चुः कृष्णम् च गत-विस्मयाः॥ 24

देवे वर्षति यज्ञ-विप्लव-रुषा वज्र-अश्म-पर्ष-अनिलैः।
सीदत् पाल-पशु-स्त्रि आत्म-शरणम् दृष्ट्वा अनुकम्प्य उत् स्मयन्।
उत्पाट्य एका-करेण शैलम् अबलः लीला-उच्छिलीन्ध्रम् यथा।
बिभ्रत् गोष्ठम् अपात् महेन्द्र-मद-अभित् प्रीयात् न इन्द्रः गवाम्॥ 25

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्‌विंशोऽध्यायः ॥ 26

ஸ்கந்தம் 10: அத்யாயம் 25 (கோவர்தன மலையை கண்ணன் தூக்கினான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கோவர்தன மலையை கண்ணன் தூக்கினான்

ஸ்கந்தம் 10: அத்யாயம் 25


श्री शुक उवाच

इन्द्रः तदा आत्मनः पूजां विज्ञाय विहतां नृप।
गोपेभ्यः कृष्ण-नाथेभ्यः नन्द-आदिभ्यः च उकोप सः ॥ 1

गणं सांवर्तकं नाम मेघानां च अन्त-कारिणाम्।
इन्द्रः प्रचोदयत् क्रुद्धः वाक्यं च आह ईशमान्युत ॥ 2

अहो श्री-मदम्-आहात्म्यं गोपानां कानन-औकसाम्।
कृष्णं मर्त्यम्-उपाश्रित्य ये चक्रुः देव-हेलनम् ॥ 3

यथा अदृढैः कर्ममयैः क्रतुभिः नाम-अनौ-निभैः।
विद्याम्-आन्वीक्षिकीं हित्वा तितीर्षन्ति भव-अर्णवम् ॥ 4

वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम्।
कृष्णं मर्त्यम्-उपाश्रित्य गोपा मे चक्रुः अप्रियम् ॥ 5

एषां श्रिया-वलिप्तानां कृष्णेन आध्मापित-आत्मनाम्।
धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्‌क्षयम् ॥ 6

अहं च ऐरावतं नागम्-आरुह्य अनु-व्रजे व्रजम्।
मरुद्-गणैः महा-वीर्यैः नन्द-गोष्ठ-जिघांसया ॥ 7

श्री शुक उवाच

इत्थं मघवता आज्ञप्ताः मेघाः निर्मुक्त-बन्धनाः।
नन्द-गोकुलम्-आसारैः पीडयामासुः ओजसा ॥ 8

विद्योतमानाः विद्युद्‌भिः स्तनन्तः स्तनयित्नुभिः।
तीव्रैः मरुद्-गणैः नुन्नाः ववृषुः जल-शर्कराः ॥ 9

स्थूण-अस्थूला वर्ष-धारा मुञ्चत् स्व-अभ्रेषु-भीक्ष्णशः।
जल-ओघैः प्लाव्यमाना भूः न अदृश्यत नत-उन्नतम् ॥ 10

अत्यासार-अति-वादेन पशवः जात-वेपनाः।
गोपाः गोप्यः च शीत-आर्ताः गोविन्दं शरणं ययुः ॥ 11

शिरः सुतान् च कायेन प्रच्छाद्य आसार-पीडिताः।
वेपमानाः भगवतः पाद-मूलम्-उपाययुः ॥ 12

कृष्ण कृष्ण महा-भाग त्वत्-नाथं गोकुलं प्रभो।
त्रातुम्-अर्हसि देव-अन्नः कुपितात् भक्त-वत्सल ॥ 13

शिला-वर्ष-निपातेन हन्यमानम्-अचेतनम्।
निरीक्ष्य भगवान् मेने कुपित-इन्द्र-कृतं हरिः ॥ 14

अपर्त्त्व अति-उल्बणं वर्षम् अति-वादं शिला-मयम्।
स्व-यागे विहते अस्माभिः इन्द्रः नाशाय वर्षति ॥ 15

तत्र प्रतिविधिं सम्यक् आत्म-योगेन साधये।
लोक-ईश-मानिनां मौढ्यात् हरिष्ये श्री-मदं तमः ॥ 16

न हि सद्‌भाव-युक्तानां सुराणाम्-ईश-विस्मयः।
मत्तः असतां मान-भङ्गः प्रशमाय उपकल्पते ॥ 17

तस्मात् मत्-शरणं गोष्ठं मत्-नाथं मत्-परिग्रहम्।
गोपये स्व-आत्म-योगेन सः अयं मे व्रतः आहितः ॥ 18

इति उक्त्वा एकेन हस्तेन कृत्वा गोवर्धन-अचलम्।
दधार लीलया कृष्णः छत्र-अकम्-इव बालकः ॥ 19

अथ आह भगवान् गोपान् हे अम्ब तात व्रज-औकसः।
यथोपजोषं विशत गिरि-गर्तं स-गोधनाः ॥ 20

न त्रास इह वः कार्यः मद्-हस्तात् अद्रि-निपातने।
वात-वर्ष-भयेन आलम् तत्-त्राणं विहितं हि वः॥ 21

तथा निर्विविशुः गर्तं कृष्ण-आश्वसित-मानसः।
यथा-अवकाशं स-धनाः स-व्रजाः स-उपजीविनः॥ 22

क्षुत्-तृट्-व्यथां सुख-अपेक्षां हित्वा तैः व्रज-वासिभिः।
वीक्ष्यमाणः दधाव् अद्रिं सप्ताहं न अचलत् पदात्॥ 23

कृष्ण-योग-अनुभावं तं निशम्य इन्द्रः अति-विस्मितः।
निः-स्तम्भः भ्रष्ट-सङ्‌कल्पः स्वान् मेघान् संन्यवारयत्॥ 24

खं व्यभ्रं उदित-आदित्यं वात-वर्षं च दारुणम्।
निशम्य उपरतं गोपान् गोवर्धन-धरः अब्रवीत्॥ 25

निर्यात त्यजत त्रासं गोपाः स-स्त्री-धन-अर्भकाः।
उपारतं वात-वर्षं व्युद-प्रायाः च निम्नगाः॥ 26

ततः ते निर्ययुः गोपाः स्वं स्वम् आदाय गो-धनम्।
शकट-उढ-उपकरणं स्त्री-बाल-स्थविराः शनैः॥ 27

भगवान् अपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः।
पश्यतां सर्व-भूतानां स्थापयामास लीलया॥ 28

तं प्रेम-वेगात् निभृताः व्रज-औकसः
यथा समीयुः परिरम्भण-आदिभिः।
गोप्यः च स-स्नेहम् अपूजयन् मुदा
दधि-अक्षत-आद्भिः युयुजुः सदा-आशिषः॥ 29

यशोदा रोहिणी नन्दः रामः च बलिनां वरः।
कृष्णम् आलिङ्‌ग्य युयुजुः आशिषः स्नेह-कातराः॥ 30

दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः।
तुष्टुवुः मुमुचुः तुष्टाः पुष्प-वर्षाणि पार्थिव॥ 31

शङ्‌ख-दुन्दुभयः नेदुः दिवि देव-प्रणोदिताः।
जगुः गन्धर्व-पतयः तुंबुरु-प्रमुखाः नृप॥ 32

ततः अनुरक्तैः पशुपैः परिश्रितः
राजन् स गोष्ठं स-बलः अव्रजत् हरिः।
तथा-विदानि अस्य कृतानि गोपिकाः
गायन्त्यः ईयुः मुदिताः हृदि-स्पृशः॥ 33

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः॥25

ஸ்கந்தம் 10: அத்யாயம் 24 (கோவர்தன பூஜை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கோவர்தன பூஜை

ஸ்கந்தம் 10: அத்யாயம் 24

श्री शुकः उवाच -

भगवान् अपि तत्र एव बलदेवेन संयुतः ।
अपश्यन् निवसन् गोपान् इन्द्र-याग-कृत-उद्यमान् ॥ 1

तत् अभिज्ञः अपि भगवान् सर्व-आत्मा सर्व-दर्शनः ।
प्रश्रय-आवनतः अपृच्छत् वृद्धान् नन्द-पुरोगमान् ॥ 2

कथ्यतां मे पितः कः अयम् सम्भ्रमः वा उपागतः ।
किं फलं कस्य च उद्देशः केन वा साध्यते मखः ॥ 3

एतत् ब्रूहि महान् कामः मह्यम् शुश्रूषवे पितः ।
न हि गोप्यं हि साधूनां कृत्यं सर्व-आत्मनाम् इह ॥ 4

अस्ति अस्व-पर-दृष्टीनाम् अमित्र-उदासित-विद्विषाम् ।
उदासीनः अरिवत् वर्ज्य आत्मवत् सुहृद् उच्यते ॥ 5

ज्ञात्वा अज्ञात्वा च कर्माणि जनः अयम् अनुतिष्ठति ।
विदुषः कर्म-सिद्धिः स्यात् तथा न अविदुषः भवेत् ॥ 6

तत्र तावत् क्रिया-योगः भवतां किं विचारितः ।
अथवा लौकिकः तत् मे पृच्छतः साधु भण्यताम् ॥ 7

श्री नन्दः उवाच -

पर्जन्यः भगवान् इन्द्रः मेघाः तस्य आत्म-मूर्तयः ।
ते अभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ 8

तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् ।
द्रव्यैः तत् रेतसा सिद्धैः यजन्ते क्रतुभिः नराः ॥ 9

तत् शेषेण उपजीवन्ति त्रि-वर्ग-फल-हेतवे ।
पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥ 10

यः एवं विसृजेत् धर्मं परम्पर्यागतं नरः ।
कामात् लोभात् भयात् द्वेषात् सः वै न आप्नोति शोभनम् ॥ 11

श्री शुकः उवाच -

वचः निशम्य नन्दस्य तथा अन्येषां व्रज-ओकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ 12

श्री भगवान् उवाच -

कर्मणा जायते जन्तुः कर्मणा एव विलीयते ।
सुखं दुःखं भयम् क्षेमं कर्मणा एव अभिपद्यते ॥ 13

अस्ति चेत् ईश्वरः कश्चित् फल-रूपी अन्य-कर्मणाम् ।
कर्तारं भजते सः अपि न हि अकर्तुः प्रभुः हि सः ॥ 14

किं इन्द्रेण इह भूतानां स्व-स्व-कर्म-अनुवर्तिनाम् ।
अनीशेन अन्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥ 15

स्वभाव-तन्त्रः हि जनः स्वभावम् अनुवर्तते ।
स्वभाव-स्थम् इदं सर्वं सद्-देव-असुर-मानुषम् ॥ 16

देह-अनुच्चावचान् जन्तुः प्राप्य उत्सृजति कर्मणा ।
शत्रुः मित्रम् उदासीनः कर्म एव गुरु-ईश्वरः ॥ 17

तस्मात् संपूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् ।
अञ्जसा येन वर्तेत तत् एव अस्य हि दैवतम् ॥ 18

आजीव्य एकतरं भावं यः तु अन्यम् उपजीवति ।
न तस्मात् विन्दते क्षेमं जारं नारी असती यथा ॥ 19

वर्तेत ब्रह्मणा विप्रः राजन्यः रक्षया भुवः ।
वैश्यः तु वार्तया जीवेत् शूद्रः तु द्विज-सेवया ॥ 20

कृषिवाणिज्य-गोरक्षा कुसीदं तूर्यम् उच्यते।

वार्ता चतुर्विधा तत्र वयं गोवृत्तयः अनिशम्॥ 21


सत्त्वं रजः तमः इति स्थित्य्-उत्पत्ति-अन्त-हेतवः।

रजसा उत्पद्यते विश्वम् अन्योन्यं विविधं जगत्॥ 22


रजसा चोदिताः मेघाः वर्षन्ति अम्बूनि सर्वतः।

प्रजाः तैः एव सिध्यन्ति महा-इन्द्रः किम् करिष्यति॥ 23


न नः पुरः जनपदाः न ग्रामाः न गृहाः वयम्।

नित्यं वन-औकसः तात वन-शैल-निवासिनः॥ 24


तस्मात् गवां ब्राह्मणानाम् अद्रेः च आरभ्यतां मखः।

यः इन्द्र-याग-संभाराः तैः अयम् साध्यतां मखः॥ 25


पच्यन्तां विविधाः पाकाः सूप-अन्ताः पायस-आदयः।

संयाव-अपूप-शष्कुल्यः सर्व-दोहः च गृह्यताम्॥ 26


हूयन्तां अग्नयः सम्यक् ब्राह्मणैः ब्रह्म-वादिभिः।

अन्नं बहु-विधं तेभ्यः देयं वः धेनु-दक्षिणाः॥ 27


अन्येभ्यः च अश्व-चाण्डाल पतितेभ्यः यथा अर्हतः।

यवसं च गवां दत्त्वा गिरये दीयतां बलिः॥ 28


स्वलङ्कृताः भुक्तवन्तः स्व-अनुलिप्ताः सु-वाससः।

प्रदक्षिणां च कुरुत गो-विप्र-अग्नि-पर्वतान्॥ 29


एतत् मम मतं तात क्रियतां यदि रोचते।

अयं गो-ब्राह्मण-अद्रीणां मह्यं च दयितः मखः॥ 30



---


श्री-शुकः उवाच -


काल-आत्मना भगवता शक्र-दर्पं जिघांसता।

प्रोक्तं निशम्य नन्द-आद्याः साधु-अगृह्णन्त तत् वचः॥ 31


तथा च व्यदधुः सर्वं यथा आह मधु-सूदनः।

वाचयित्वा स्वस्ति-अयनं तत् द्रव्येण गिरि-द्विजान्॥ 32


उपहृत्य बलीन् सर्वान् आदृताः यवसं गवाम्।

गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्॥ 33


अनांसि अनडुद्-युक्तानि ते चारुह्य स्वलङ्कृताः।

गोप्यः च कृष्ण-वीर्याणि गायन्त्यः सत् द्विज-आशिषः॥ 34


कृष्णः तु अन्यतमं रूपं गोप-विश्रम्भणं गतः।

शैलः अस्मि इति ब्रुवन् भूरि बलिम् आददत् बृहद्-वपुः॥ 35


तस्मै नमः व्रज-जनैः सह चक्रे आत्मना आत्मने।

अहो पश्यत शैलः असौ रूपी नः अनुग्रहम् व्यधात्॥ 36


एषः अवजानतः मर्त्यान् काम-रूपी वन-औकसः।

हन्ति हि अस्मै नमस्यामः शर्मणे आत्मनः गवाम्॥ 37


इति अद्रि-गो-द्विज-मखं वासुदेव-प्रणोदिताः।

यथा विधाय ते गोपाः सह-कृष्णाः व्रजं ययुः॥ 38

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ 24 ॥

ஸ்கந்தம் 10: அத்யாயம் 23 (யக்ஞ பத்னிகள் கண்ணன் தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யக்ஞ பத்னிகள்

கண்ணன் தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 23

श्रीगोपा ऊचुः -

राम राम महावीर्य कृष्ण दुष्टनिबर्हण।
एषा वै बाधते क्षुन् नः तच्छान्तिं कर्तुमर्हथः ॥१॥

श्रीशुक उवाच -

इति विज्ञापितः गोपैः भगवान् देवकीसुतः।
भक्तायाः विप्रभार्यायाः प्रसीदन् इदम् अब्रवीत् ॥२॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः।
सत्रम् आङ्गिरसं नाम हि आसते स्वर्गकाम्यया ॥३॥

तत्र गत्वा ओदनं गोपा याचत अस्मद् विसर्जिताः।
कीर्तयन्तः भगवत आर्यस्य मम च अभिधाम् ॥४॥

इत्यादिष्टाः भगवता गत्वा याचन्त ते तथा।
कृताञ्जलिपुटाः विप्रान् दण्डवत् पतिताः भुवि ॥५॥

हे भूमिदेवाः श्रृणुत कृष्णस्य आदेशकारिणः।
प्राप्ताञ्जानीत भद्रं वः गोपान् नो रामचोदितान् ॥६॥

गाः चारयन्तौ अविदूर ओदनं
राम आच्युतौ वः लषतः बुभुक्षितौ।
तयोः द्विजाः ओदनम् अर्थिनोः यदि
श्रद्धा च वः यच्छत धर्मवित्तमाः ॥७॥

दीक्षायाः पशुसंस्थायाः सौत्रामण्याः च सत्तमाः।
अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति ॥८॥

इति ते भगवत् याच्ञां शृण्वन्तः अपि न शुश्रुवुः।
क्षुद्राशाः भूरिकर्माणः बालिशाः वृद्धमानिनः ॥९॥

देशः कालः पृथक् द्रव्यम् मन्त्रतन्त्र ऋत्विजः अग्नयः।
देवता यजमानः च क्रतुः धर्मः च यन्मयः ॥१०॥

तं ब्रह्म परमं साक्षात् भगवन्तम् अधोक्षजम्।
मनुष्यदृष्ट्या दुष्प्रज्ञाः मर्त्यात्मानः न मेनिरे ॥११॥

न ते यदोमिति प्रोचुः न न इति च परन्तप।
गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्णरामयोः ॥१२॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः।
व्याजहार पुनः गोपान् दर्शयन् लौकिकीं गतिम् ॥१३॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणम् आगतम्।
दास्यन्ति कामम् अन्नं वः स्निग्धाः मयि उषिताः धिया ॥१४॥

गत्वा अथ पत्नीशालायां दृष्ट्वा आसीनाः स्वलङ्कृताः।
नत्वा द्विजसतीः गोपाः प्रश्रिताः इदम् अब्रुवन् ॥१५॥

नमो वः विप्रपत्नीभ्यः निबोधत वचांसि नः।
इतः अविदूरे चरता कृष्णेन इहेषिता वयम् ॥१६॥

गाः चारयन् स गोपालैः सरामः दूरम् आगतः।
बुभुक्षितस्य तस्य अन्नं सानुगस्य प्रदीयताम् ॥१७॥

श्रुत्वा अच्युतम् उपायातम् नित्यं तत् दर्शन उत्सुकाः।
तत् कथाक्षिप्तमनसः बभूवुः जातसम्भ्रमाः ॥१८॥

चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः।
अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥१९॥

निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः।
भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥२०॥

यमुन उपवने अशोक नव पल्लव मण्डिते
विचरन्तं वृतं गोपैः स आग्रजं ददृशुः स्त्रियः ॥ 21

श्यामं हिरण्य परिधिं वन माल्य बर्ह
धातु प्रवाल नट वेषम् अनुव्रत अंसे ।
विन्यस्त हस्तम् इतरेण धुनानम् अब्जं
कर्ण उत्पल आलक कपोल मुख अब्ज हासम् ॥ 22

प्रायः श्रुत प्रिय तम उदय कर्ण पूरैः
यस्मिन् निमग्न मनसः तम अथ अक्षि रंध्रैः ।
अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथा अभिमतयः विजहुः नरेन्द्र ॥ 23

ताः तथा त्यक्त सर्व आशाः प्राप्ताः आत्म दिदृक्षया ।
विज्ञाय अखिल दृक्-द्रष्टा प्राह प्रहसित आननः ॥ 24

स्वागतं वः महा भागाः आस्यतां करवाम किम् ।
यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदं हि वः ॥ 25

ननु अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ दर्शिनः ।
अहैतुक्या अव्यवहितां भक्तिम् आत्म प्रिय यथा ॥ 26

प्राण बुद्धि मनः स्व आत्म दार अपत्य धन आदयः ।
यत् सम्पर्कात् प्रियाः आसन् ततः कः नु अपरः प्रियः ॥ 27

तत् यात देव यजनं पतयः वः द्विजातयः ।
स्व सत्रं पारयिष्यन्ति युष्माभिः गृह मेधिनः ॥ 28

श्री-पत्न्यः ऊचुः

माऽइवम् विभो अर्हति भवान् गदितुं नृशंसम्
सत्यं कुरुष्व निगमं तव पाद मूलम् ।
प्राप्ताः वयं तुलसी दाम पद अवसृष्टं
केशैः निवोढुम् अतिलङ्‌घ्य समस्त बन्धून् ॥ 29

गृह्णन्ति नः न पतयः पितरौ सुता वा
न भ्रातृ बन्धु सुहृदः कुतः एव च अन्ये ।
तस्मात् भवत् प्रपदयोः पतित आत्मनाम् नः
न अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ 30

श्री भगवान् उवाच

पतयः न अभ्यसूयेरन् पितृ भ्रातृ सुत आदयः ।
लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते ॥ 31

न प्रीतये अनुरागाय हि अङ्ग सङ्गः नृणाम् इह ।
तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ ॥ 32

श्री-शुकः उवाच

इति उक्ताः द्विज पत्न्यः ताः यज्ञ वाटं पुनः गताः ।
ते च अनसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥ 33

तत्र एका विधृता भर्त्रा भगवन्तं यथा श्रुतम् ।
हृदा उपगुह्य विजहौ देहं कर्म अनुबन्धनम् ॥ 34

भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् ।
चतुर्विधेन आशयित्वा स्वयं च बुभुजे प्रभुः ॥ 35

एवं लीला नर वपुः नृ लोकम् अनुशीलयन् ।
रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ 36

अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत आगसः ।
यत् विश्व ईश्वरयोः याच्ञाम् अहन् नृविडम्बयोः ॥ 37

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।
आत्मानं च तया हीनम् अनुतप्ताः व्यगर्हयन् ॥ 38

धिक् जन्म नः त्रिवृत् विद्यां धिक् व्रतं धिक् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखाः ये तु अधोक्षजे ॥ 39

नूनं भगवतः माया योगिनाम् अपि मोहिनी ।
यत् वयं गुरवः नृणां स्वार्थे मुह्यामहे द्विजाः ॥ 40

अहो पश्यत नारीणाम् अपि कृष्णे जगत्-गुरौ ।
दुरन्त-भावं यः अविध्यन् मृत्युपाशान् गृह-अभिधान् ॥ 41

न असाम् द्विजाति संस्कारः न निवासः गुरौ अपि ।
न तपः न आत्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ 42

अथ अपि हि उत्तमः-श्लोके कृष्णे योग-ईश्वर-ईश्वरे ।
भक्तिः दृढा न च अस्माकं संस्कार आदि मताम् अपि ॥ 43

ननु स्वार्थ विमूढानां प्रमत्तानां गृहे इहया ।
अहो नः स्मारयामास गोप-वाक्यैः सतां गतिः ॥ 44

अन्यथा पूर्ण-कामस्य कैवल्य आदि अशिषां पतेः ।
ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम् ॥ 45

हित्वा अन्यान् भजते यं श्रीः पाद-स्पर्श आशया सकृत् ।
आत्म-दोष अपवर्गेण तत् याच्ञा जन मोहिनी ॥ 46

देशः कालः पृथक् द्रव्यं मन्त्र तन्त्र ऋत्विजः अग्नयः ।
देवता यजमानः च क्रतुः धर्मः च यत्-मयः ॥ 47

सः एषः भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः ।
जातः यदुषु इति आशृण्म हि अपि मूढाः न विद्महे ॥ 48

अहो वयं धन्य तमाः येषां नः तादृशीः स्त्रियः ।
भक्त्या यासां मतिः जाता अस्माकं निश्चला हरौ ॥ 49

नमः तुभ्यं भगवते कृष्णाय अकुण्ठ-मेधसे ।
यत् माया मोहित-धियः भ्रमामः कर्म-वर्त्मसु ॥ 50

सः वै न आद्यः पुरुषः स्व-माया मोहित आत्मनाम् ।
अविज्ञात अनुभावानां क्षन्तुम् अर्हति अतिक्रमम् ॥ 51

इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।
दिदृक्षवः अपि अच्युतयोः कंसात् भीताः न च अचलन् ॥ 52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणं नाम त्रयोविंशोऽध्यायः ॥ 23

ஸ்கந்தம் 10: அத்யாயம் 22 (கண்ணன் கோப சிறுமிகளின் வஸ்திரத்தை எடுத்து கொள்கிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் கோப சிறுமிகளின்

வஸ்திரத்தை எடுத்து கொள்கிறான்

ஸ்கந்தம் 10: அத்யாயம் 22

श्री शुकः उवाच

हेमन्ते प्रथमे मासि नन्द व्रज कुमारिकाः।
चेरुः हविष्यं भुञ्जानाः कात्यायनि अर्चन व्रतम् ॥१॥

आप्लुत्य अम्भसि कालिन्द्याः जल अन्ते च उदिते अरुणे।
कृत्वा प्रतिकृतिं देव्याः अनर्चुः नृप सैकतीम् ॥२॥

गन्धैः माल्यैः सुरभिभिः बलिभिः धूप दीपकैः।
उच्चावचैः च उपहारैः प्रवाल फल तण्डुलैः ॥३॥

कात्यायनि महामाये महा योगिनि अधीश्वरि।
नन्द गोप सुतं देवि पतिं मे कुरु ते नमः ॥
इति मन्त्रं जपन्त्यः ताः पूजां चक्रुः कुमारिकाः ॥४॥

एवं मासं व्रतं चेरुः कुमार्यः कृष्ण चेतसः।
भद्र कालीं सम अनर्चुः भूयात् नन्द सुतः पतिः ॥५॥

ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्या बद्ध बाहवः।
कृष्णं उच्चैः जगुः यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥६॥

नद्याः कदा चित् आगत्य तीरे निक्षिप्य पूर्ववत्।
वासांसि कृष्णं गायन्त्यः विजह्रुः सलिले मुदा ॥७॥

भगवान् तत् अभिप्रेत्य कृष्णः योगेश्वर ईश्वरः।
वयस्यैः आवृतः तत्र गतः तत् कर्म सिद्धये ॥८॥

तासां वासांसि उपादाय नीपं आरुह्य सत्वरः।
हसद्भिः प्रहसन् बालैः परिहासं उवाच ह ॥९॥

अत्र आगत्य अबलाः कामं स्वं स्वं वासः प्रगृह्यताम्।
सत्यं ब्रवाणि नो नर्म यत् यूयम् व्रत कर्शिताः ॥१०॥

न मया उदित पूर्वं वा अनृतं तत् इमे विदुः।
एक एकशः प्रतीच्छध्वं सह एव इति सुमध्यमाः ॥११॥

तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम परिप्लुताः।
व्रीडिताः प्रेक्ष्य च अन्योन्यं जात हासाः न निर्ययुः ॥१२॥

एवं ब्रुवति गोविन्दे नर्मणा आक्षिप्त चेतसः।
आकण्ठम् अग्नाः शीत उदे वेपमानाः तम् अब्रुवन् ॥१३॥

मानयं भोः कृथाः त्वं तु नन्द गोप सुतं प्रियम्।
जानीमः अङ्ग व्रज श्लाघ्यम् देहि वासांसि वेपिताः ॥१४॥

श्याम सुन्दर ते दास्यः करवाम तव उदितम्।
देहि वासांसि धर्म ज्ञ नो चेत् राज्ञे ब्रुवाम हे ॥१५॥

श्री भगवान् उवाच

भवत्यः यदि मे दास्यः मया उक्तं वा करिष्यथ।
अत्र आगत्य स्व वासांसि प्रतीच्छन्तु शुचि स्मिताः ॥१६॥

ततः जलाशयात् सर्वाः दारिकाः शीत वेपिताः।
पाणिभ्यां योनिं आच्छाद्य प्रोत्तेरुः शीत कर्शिताः ॥१७॥

भगवान् अहताः वीक्ष्य शुद्ध भाव प्रसादितः।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥१८॥

यूयम् विवस्त्राः यत् अपः धृत व्रताः
व्यगाहत एतत् तत् उ देव हेलनम्।
बद्ध्वा अञ्जलिं मूर्ध्नि अपनुत्तये अंहसः
कृत्वा नमः अधः वसनं प्रगृह्यताम् ॥१९॥

इति अच्युतेन अभिहिता व्रज अबलाः
मत्वा विवस्त्र अप्लवनं व्रत च्युतिम्।
तत् पूर्ति कामाः तत् अशेष कर्मणाम्
साक्षात् कृतं नेमुः अवद्यम् ऋग् यतः ॥२०॥

ताः तथा अवनताः दृष्ट्वा भगवान् देवकी सुतः।
वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः ॥२१॥

दृढं प्रलब्धाः त्रपया च हापिताः
प्रस्तोभिताः क्रीडनवत् च कारिताः।
वस्त्राणि च एव अपहृतानि अथ अपि अमुम्
ता न अभ्यसूयन् प्रिय सङ्ग निर्वृताः ॥२२॥

परिधाय स्व वासांसि प्रेष्ठ सङ्गम सज्जिताः।
गृहीत चित्ताः न उचेलुः तस्मिन् लज्जायितेक्षणाः ॥२३॥

तासां विज्ञाय भगवान् स्व पाद स्पर्श काम्यया।
धृत व्रतानां सङ्कल्पम् आह दामोदरः अबलाः ॥२४॥

सङ्कल्पः विदितः साध्व्यः भवतीनां मम् अर्चनम्।
मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति ॥२५॥

न मयि आवेशित धियां कामः कामाय कल्पते।
भर्जिताः क्वथिताः धानाः प्रायः बीजाय न ईष्यते ॥२६॥

याताः अबलाः व्रजं सिद्धाः मया इमाः रंस्यथ क्षपाः।
यत् उद्दिश्य व्रतम् इदम् चेरुः आर्या अर्चनं सतीः ॥२७॥

श्री शुकः उवाच।

इति आदिष्टाः भगवता लब्ध कामाः कुमारिकाः।
ध्यायन्त्यः तत् पदाम्भोजं कृच्छ्रात् निर्विविशुः व्रजम् ॥२८॥

अथ गोपैः परिवृतः भगवान् देवकी सुतः।
वृन्दावनात् गतः दूरं चारयन् गाः सह अग्रजः ॥२९॥

निदाघ अर्क आतपे तिग्मे छायाभिः स्वाभिः आत्मनः।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रज ओकसः ॥३०॥

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबल अर्जुन।
विशाल ऋषभ तेजस्विन् देवप्रस्थ वरूथप ॥३१॥

पश्यत एतान् महा भागान् परार्थ एकान्त जीवितान्।
वात वर्ष आतप हिमान् सहन्तः वारयन्ति नः ॥३२॥

अहो एषां वरं जन्म सर्व प्राणि उपजीवनम्।
सुजनस्य इव येषां वै विमुखाः यान्ति न अर्थिनः ॥३३॥

पत्र पुष्प फल छाया मूल वल्कल दारुभिः।
गन्ध निर्यास भस्म अस्थि तोक्मैः कामान् वितन्वते ॥३४॥

एतावत् जन्म साफल्यं देहिनाम् इह देहिषु।
प्राणैः अर्थैः धिया वाचा श्रेयः एव आचरेत् सदा ॥३५॥

इति प्रवाल स्तबक फल पुष्प दल उत्करैः।
तरूणां नम्र शाखानां मध्येन यमुनां गतः ॥३६॥

तत्र गाः पाययित्वा अपः सुमृष्टाः शीतलाः शिवाः।
ततः नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥३७॥

तस्याः उपवने कामं चारयन्तः पशून् नृप।
कृष्ण रामौ उपागम्य क्षुध आर्ताः इदम् अब्रुवन् ॥३८॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहारो नाम द्वाविंशोऽध्यायः॥ 22 ॥

ஸ்கந்தம் 10: அத்யாயம் 21 (கண்ணன் குழலின் அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் குழலின் அழகு

ஸ்கந்தம் 10: அத்யாயம் 21

श्री शुक उवाच


इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।

न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥


कुसुमित-वन-राजि-शुष्मि-भृङ्ग

द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।

मधु-पतिः अवगाह्य चारयन् गाः

सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥


तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥


तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।

नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥


बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्

बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।

रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः

वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥


इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।

श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥



---


श्री-गोप्यः ऊचुः


अक्षण्वतां फलम् इदम् न परं विदामः

सख्यः पशून् अनु विवेशयतोः वयस्यैः।

वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं

यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥


चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज

माला-अनुपृक्त-परिधान-विचित्र-वेषौ।

मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्

रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥


गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः

दामोदर अधर-सुधाम् अपि गोपिकानाम्।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः

हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥


वृन्दावनं सखि भुवः वितनोति कीर्तिम्

यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।

गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं

प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥


धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः

याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।

आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः

पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥


कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं

श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।

देव्यः विमान-गतयः स्मर-उन्न-साराः

भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥


गावः च कृष्ण-मुख-निर्गत-वेणु-गीत

पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।

शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः

गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥


प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्

कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्

श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥


नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्

आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।

आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः

गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥


दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः

सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।

प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः

सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥


पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।

तत्-दर्शन-स्मर-रुजः तृण-रूषितेन

लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥


हन्त अयम् अद्रिः अबला हरि-दास-वर्यः

यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।

मानं तनोति सह-गोगणयोः तयोः यत्

पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥


गा-गोपकैः अनु वनं नयतोः उदार

वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।

अस्पन्दनं गतिमतां पुलकः तरुणां

**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥


एवं-विदाः भगवतः या वृन्दावन-चारिणः।

वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ 21 ॥

ஸ்கந்தம் 10: அத்யாயம் 20 (பிருந்தாவன அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பிருந்தாவன அழகு

ஸ்கந்தம் 10: அத்யாயம் 20

श्री शुक उवाच।

तयोः तद् अद्‍भुतं कर्म दावाग्नेः मोक्ष-आत्मनः।


गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधं एव च॥ 1


गोप-वृद्धाः च गोप्यः च तद् उपाकर्ण्य विस्मिताः।


मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ॥ 2


ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा।


विद्योतमान-परिधिर्विस्फूर्जित नभस्तला॥ 3


सान्द्र-नीलाम्बुदैः व्योम सविद्युत् स्तनयित्-नुभिः।


अस्पष्ट-ज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥ 4


अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु।


स्व-गोभिर्मोक्तुम्-आरेभे पर्जन्यः काल आगते॥ 5


तडिद्-वन्तो महा-मेघाः चण्ड श्वसन वेपिताः।


प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव॥ 6


तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही।


यथा-एव काम्यतपसस्तनुः सम्प्राप्य तत्-फलम्॥ 7


निषामुखेषु खद्योताः तमसा भान्ति न ग्रहाः।


यथा पापेन पाखण्डा न हि वेदाः कलौ युगे॥ 8


श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः।


तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये॥ 9


आसन्नित्-पथवाहिन्यः क्षुद्रनद्यः अनुशुष्यतीः।


पुंसो यथा-स्वतंत्रस्य देह-द्रविण सम्पदः॥ 10


हरिता हरिभिः शष्पैरिन्द्र-गोपैश्च लोहिता।


उच्छिली-इन्द्र-कृत-च्छाया नृणां श्री-रिव भूरभूत्॥ 11


क्षेत्राणि सस्य-सम्पद्-भिः कर्षकाणां मुदं ददुः।


धनिनां-उनुतापं च दैवाधीनमजानताम्॥ 12


जल-स्थल-औकसः सर्वे नव-वारिनिषेवया।


अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया॥ 13


सरिद्-भी सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्।


अपक्व-योगिनः चित्तं काम-आक्तं गुणयुग् यथा॥ 14


गिरयः वर्षधाराभिर्हन्यमाना न विव्यथुः।


अभिभूयमाना व्यसनैर्यथा-अधोक्षज-चेतसः॥ 15


मार्गाः बभूवुः संदीघ्धाः तृणैः छन्नाः ह्यसंस्कृताः।


नाभ्यस्यमानाः श्रुतयः द्विजैः कालहता इव॥ 16


लोक-बन्धुषु मेघेषु विद्युत-चल-सौहृदाः।


स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव॥ 17


धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्।


व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥ 18


न रराज ओडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः।


अहं-मत्या भासितया स्वभासा पुरुषो यथा॥ 19


मेघागम-उत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः।


गृहेषु तप्ता निर्विण्णा यथा-आच्युत-जना-आगमे॥ 20


पीत्वा आपः पादपाः पद्-भिरासन् नानात्म-मूर्तयः।

प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया॥ 21

सरस्स्व-शान्त-रोधत्सु न्यूषु-रङ्ग-आपी सारसाः।

गृहेष्व-शान्त-कृत्येषु ग्राम्याः इव दुराशयाः॥ 22

जल-उघैः निरभिद्यन्त सेतवः वर्षती-ईश्वरे।

पाषण्डिनाम् असद्वादैः वेद-मार्गाः कलौ यथा॥ 23

व्यमुञ्चन् वायुभिः नुन्ना भूतेभ्योऽथ अमृतं घनाः।

यथा-आशिषो विश्पतयः काले काले द्विजेरिताः॥ 24

एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत्।

गो-गोपालैः वृतो रन्तुं सबलः प्राविशद् हरिः॥ 25

धेनवः मन्द-गामिन्यः ऊधोभारेण भूयसा।

ययुः भगवता-आहूता द्रुतं प्रीत्या स्नुतस्तनीः॥ 26

वन-औकसः प्रमुदिता वन-राजीर्-मधु-च्युतः।

जल-धारा गिरेः नादानासन्ना ददृशे गुहाः॥ 27

क्वचिद् वन-स्पतिक्रोडे गुहायां चाभिवर्षति।

निर्विश्य भगवान् रेमे कन्द-मूल-फल-आशनः॥ 28

दध्योदनं समानीतं शिलायां सलिलान्तिके।

सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षणान्वितः॥ 29

शाद्वल-उपरि संविश्य चर्वतो मीलितेक्षणान्।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभर-श्रमाḥ॥ 30

प्रावृट्-श्रियम् च तां वीक्ष्य सर्व-भूत-मुदावहम्।

भगवान् पूजयां चक्रे आत्म-शक्त्युपबृंहिताम्॥ 31

एवं निवसतोः तस्मिन् राम-केशव-योर-व्रजे।

शरत् समभवद् व्यभ्राः स्वच्छाम्ब्व-परुषानिला॥ 32

शरदा नीरज-उत्पत्त्या नीराणि प्रकृतिं ययुः।

भ्रष्टानाम् इव चेतांसि पुनः योग-निषेवया॥ 33

व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कमपां मलम्।

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथा-आशुभम्॥ 34

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः।

यथा त्यक्तैषणाः शान्ता मुनयः मुक्तकिल्बिषाः॥ 35

गिरयः मुमुचुः तोयं क्वचिन्न मुमुचुः शिवम्।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा॥ 36

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः।

यथा-आयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः॥ 37

गाधवारि-चराः तापमविन्दन् शरदर्कजम्।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः॥ 38

शनैः शनैः जहुः पङ्कं स्थलान्यामं च वीरुधः।

यथा अहं-ममतां धीराः शरीरादिष्वनात्मसु॥ 39

निश्चल-आम्बुरभूत् तूष्णीं समुद्रः शरद-आगमे।

आत्म-न्युपरते सम्यङ् मुनिर्व्युपरत-आगमः॥ 40

केदारेभ्यस्त्वपः अगृह्णन् कर्षकाः दृढसेतु-भिः।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः॥ 41

शरद-र्कांशुजांस्तापान् भूतानाम् उदुपोऽहरत्।

देहाभिमानजं बोधो मुकुन्दो व्रज-योषिताम्॥ 42

खमशोभत निर्मेघं शरद्विमल-तारकम्।

सत्त्वयुक्तं यथा चित्तं शब्द-ब्रह्म-आर्थ-दर्शनम्॥ 43

अखण्ड-मण्डल-ओ व्योम्नि रराजोडुगणैः शशी।

यथा यदुपतिः कृष्णो वृष्णि-चक्रावृतो भुवि॥ 44

आश्लिष्य समशीतोष्णं प्रसून वनमारुतम्।

जनास्तापं जहुर्गोप्यः न कृष्ण-हृत-चेतसः॥ 45

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्।

अन्वीयमानाः स्ववृषैः फलैः ईश-क्रिया इव॥ 46

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्-विना।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप॥ 47

पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः॥ 48

वणिङ्-मुनि-नृपस्नाता निर्गम्यार्थान् प्रपेदिरे।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल-आगते॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम विंशोऽध्यायः ॥ २०

ஸ்கந்தம் 10: அத்யாயம் 19 (கண்ணன் அக்னியை குடித்தான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் அக்னியை குடித்தான்

ஸ்கந்தம் 10: அத்யாயம் 19

श्रीशुक उवाच।

क्रीडासक्तेषु गोपेषु तद्‍गावो दूरचारिणीः।

स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम्॥ 1॥


अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम्।

इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥ 2॥


तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा।

जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम्॥ 3॥


तृणैस्तत्खुरदच्छिन्नैः गोष्पदैरङ्कितैर्गवाम्।

मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः॥ 4॥


मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्।

सम्प्राप्य तृषिताः श्रान्तास्ततस्ते संन्यवर्तयन्॥ 5॥


ता आहूता भगवता मेघगम्भीरया गिरा।

स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः॥ 6॥


ततः समन्ताद् वनधूमकेतुः

यदृच्छयाभूत् क्षयकृत् वनौकसाम्।

समीरितः सारथिनोल्बणोल्मुकैः

**विलेलिहानः स्थिरजङ्‌गमान् महान्॥ 7॥


तमापतन्तं परितो दवाग्निं

गोपाश्च गावः प्रसमीक्ष्य भीताः।

ऊचुश्च कृष्णं सबलं प्रपन्ना

**यथा हरिं मृत्युभयार्दिता जनाः॥ 8॥


कृष्ण कृष्ण महावीर हे रामामितविक्रम।

दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः॥ 9॥


नूनं त्वद्‍बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम्।

वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः॥ 10॥


श्रीशुक उवाच।

वचो निशम्य कृपणं बन्धूनां भगवान् हरिः।

निमीलयत मा भैष्ट लोचनानीत्यभाषत॥ 11॥


तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम्।

पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत्॥ 12॥


ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः।

निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः॥ 13॥


कृष्णस्य योगवीर्यं तद् योगमायानुभावितम्।

दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम्॥ 14॥


गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः।

वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुतः॥ 15॥


गोपीनां परमानन्द आसीद् गोविन्ददर्शने।

क्षणं युगशतमिव यासां येन विनाभवत्॥ 16॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निपान नामैकोनविंशोऽध्यायः ॥ १९

ஸ்கந்தம் 10: அத்யாயம் 18 (பலராமரின் ப்ரளம்பன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பலராமரின்

ப்ரளம்பன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 18

श्रीशुक उवाच

अथ कृष्णः परिवृतः ज्ञातिभिः मुदितात्मभिः।

अनुगीयमानः न्यविशद् व्रजं गोकुल-मण्डितम्॥ 1॥


व्रजे विक्रीडतोः एवम् गोपाल-च्छद्म-मायया।

ग्रीष्मः नाम ऋतुः अभवत् न अति-प्रेयान् शरीरिणाम्॥ 2॥


सः च वृन्दावन-गुणैः वसन्तः इव लक्षितः।

यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः॥ 3॥


यत्र निर्झर-निर्ह्राद-निवृत्त-स्वन-झिल्लिकम्।

शश्वत्-तच्छीक-रर्जीष-द्रुम-मण्डल-मण्डितम्॥ 4॥


सरित्-सरः-प्रस्रवण-उर्मि-वायुना

कह्लार-कञ्ज-उत्पल-रेणु-हारिणा।

न विद्यते यत्र वन-औकसां दवः

निदाघ-वह्न्य-अर्क-भवः अति-शाद्वले॥ 5॥


अगाध-तोय-ह्रदिनी-तट-उर्मिभिः

द्रवत्-पुरीष्याः पुलिनैः समन्ततः।

न यत्र चण्ड-अंशु-करा विष-उल्बणाः

भुवः रसं शाद्वलितं च गृह्णते॥ 6॥


वनं कुसुमितं श्रीमन् नदत् चित्र-मृग-द्विजम्।

गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम्॥ 7॥


क्रीडिष्यमाणः तत् कृष्णः भगवान् बल-संयुतः।

वेणुं विरणयन् गोपैः गो-धनैः संवृतः अविशत्॥ 8॥


प्रवाल-बर्ह-स्तबक-स्रग्-धातु-कृत-भूषणाः।

राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः॥ 9॥


कृष्णस्य नृत्यतः केचित् जगुः केचित् अवादयन्।

वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे॥ 10॥


गोप-जाति-प्रतिच्छनौ देवाः गोपाल-रूपिणौ।

ईडिरे कृष्ण-रामौ च नटा इव नटं नृप॥ 11॥


भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन-विकर्षणैः।

चिक्रीडतुं नियुद्धेन काकपक्ष-धरौ क्वचित्॥ 12॥


क्वचित् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम्।

शशंसतुं महाराज साधु साधु इति वादिनौ॥ 13॥


क्वचित् बिल्वैः क्वचित् कुम्भैः क्वचित् आमलक-मुष्टिभिः।

अस्पृश्य-नेत्र-बन्ध-आद्यैः क्वचित् मृग-खग-एहया॥ 14॥


क्वचित् च दर्दुर-प्लावैः विविधैः उपहासकैः।

कदाचित् स्पन्दोलिकया कर्हिचित् नृप-चेष्टया॥ 15॥


एवं तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने।

नदी-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च॥ 16॥


पशूंश्चारयतोः गोपैः तत्-वने राम-कृष्णयोः।

गोप-रूपी प्रलम्बः अगात् असुरः तत्-जिहीर्षया॥ 17॥


तं विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः।

अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन्॥ 18॥


तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-वित्।

हे गोपा विहरिष्यामः द्वन्द्वी-भूय यथा-यथम्॥ 19॥


तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ।

कृष्ण-सङ्घट्टिनः केचित् आसन् रामस्य च अपरे॥ 20॥


आचेरुः विविधाः क्रीडाः वाह्य-वाहक-लक्षणाः।
यत्र आरोहन्ति जेतारो वहन्ति च पराजिताः॥ 21॥

वहन्तः वाह्यमानाः च चारयन्तः च गोधनम्।
भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः॥ 22॥

राम-सङ्घट्टिनः यर्हि श्रीदाम-वृषभ-आदयः।
क्रीडायां जयिनः तान् तान् ऊहुः कृष्ण-आदयः नृप॥ 23॥

उवाह कृष्णः भगवान् श्रीदामानं पराजितः।
वृषभं भद्रसेनः तु प्रलम्बः रोहिणी-सुतम्॥ 24॥

अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः।
वहन् द्रुततरं प्रागात् अवरोहणतः परम्॥ 25॥

तम् उद्वहन् धरणि-धरेन्द्र-गौरवं
महासुरः विगत-रयः निजं वपुः।
सः आस्थितः पुरट-परिच्छदः बभौ
तडित्-द्युमान् उडुपति-वाडिव-अम्बुदः॥ 26॥

निरीक्ष्य तत् वपुः अलम् अम्बरे चरत्
प्रदीप्त-दृक् भ्रुकुटि-तट-उग्र-दंष्ट्रकम्।
ज्वलत्-शिखं कटक-किरीट-कुण्डल-
त्विषा अद्भुतं हलधरः ईषत्-अत्रसत्॥ 27॥

अथ आगत-स्मृतिः अभयः रिपुं बलः
विहाय सार्थम् इव हरन्तम् आत्मनः।
रुषा अहनत् शिरसि दृढेन मुष्टिना
सुर-अधिपः गिरिम् इव वज्र-रंहसा॥ 28॥

सः आहतः सपदि विशीर्ण-मस्तकः
मुखात् वमन् रुधिरम् अपस्मृतः असुरः।
महा-रवं व्यसुः अपतत् समीरयन्
गिरिः यथा मघवतः आयुध-आहतः॥ 29॥

दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना।
गोपाः सुविस्मिताः आसन् साधु साधु इति वादिनः॥ 30॥

आशिषः अभिगृणन्तः तम् प्रशशंसुः तत्-अर्हणम्।
प्रेत्य-आगतम् इव आलिङ्ग्य प्रेम-विह्वल-चेतसः॥ 31॥

पापे प्रलम्बे निहते देवाः परम-निर्वृताः।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साधु इति॥ 32॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः॥ 18