கண்ணன் கோப சிறுமிகளின்
வஸ்திரத்தை எடுத்து கொள்கிறான்
ஸ்கந்தம் 10: அத்யாயம் 22
श्री शुकः उवाच
हेमन्ते प्रथमे मासि नन्द व्रज कुमारिकाः।
चेरुः हविष्यं भुञ्जानाः कात्यायनि अर्चन व्रतम् ॥१॥
आप्लुत्य अम्भसि कालिन्द्याः जल अन्ते च उदिते अरुणे।
कृत्वा प्रतिकृतिं देव्याः अनर्चुः नृप सैकतीम् ॥२॥
गन्धैः माल्यैः सुरभिभिः बलिभिः धूप दीपकैः।
उच्चावचैः च उपहारैः प्रवाल फल तण्डुलैः ॥३॥
कात्यायनि महामाये महा योगिनि अधीश्वरि।
नन्द गोप सुतं देवि पतिं मे कुरु ते नमः ॥
इति मन्त्रं जपन्त्यः ताः पूजां चक्रुः कुमारिकाः ॥४॥
एवं मासं व्रतं चेरुः कुमार्यः कृष्ण चेतसः।
भद्र कालीं सम अनर्चुः भूयात् नन्द सुतः पतिः ॥५॥
ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्या बद्ध बाहवः।
कृष्णं उच्चैः जगुः यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥६॥
नद्याः कदा चित् आगत्य तीरे निक्षिप्य पूर्ववत्।
वासांसि कृष्णं गायन्त्यः विजह्रुः सलिले मुदा ॥७॥
भगवान् तत् अभिप्रेत्य कृष्णः योगेश्वर ईश्वरः।
वयस्यैः आवृतः तत्र गतः तत् कर्म सिद्धये ॥८॥
तासां वासांसि उपादाय नीपं आरुह्य सत्वरः।
हसद्भिः प्रहसन् बालैः परिहासं उवाच ह ॥९॥
अत्र आगत्य अबलाः कामं स्वं स्वं वासः प्रगृह्यताम्।
सत्यं ब्रवाणि नो नर्म यत् यूयम् व्रत कर्शिताः ॥१०॥
न मया उदित पूर्वं वा अनृतं तत् इमे विदुः।
एक एकशः प्रतीच्छध्वं सह एव इति सुमध्यमाः ॥११॥
तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम परिप्लुताः।
व्रीडिताः प्रेक्ष्य च अन्योन्यं जात हासाः न निर्ययुः ॥१२॥
एवं ब्रुवति गोविन्दे नर्मणा आक्षिप्त चेतसः।
आकण्ठम् अग्नाः शीत उदे वेपमानाः तम् अब्रुवन् ॥१३॥
मानयं भोः कृथाः त्वं तु नन्द गोप सुतं प्रियम्।
जानीमः अङ्ग व्रज श्लाघ्यम् देहि वासांसि वेपिताः ॥१४॥
श्याम सुन्दर ते दास्यः करवाम तव उदितम्।
देहि वासांसि धर्म ज्ञ नो चेत् राज्ञे ब्रुवाम हे ॥१५॥
श्री भगवान् उवाच
भवत्यः यदि मे दास्यः मया उक्तं वा करिष्यथ।
अत्र आगत्य स्व वासांसि प्रतीच्छन्तु शुचि स्मिताः ॥१६॥
ततः जलाशयात् सर्वाः दारिकाः शीत वेपिताः।
पाणिभ्यां योनिं आच्छाद्य प्रोत्तेरुः शीत कर्शिताः ॥१७॥
भगवान् अहताः वीक्ष्य शुद्ध भाव प्रसादितः।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥१८॥
यूयम् विवस्त्राः यत् अपः धृत व्रताः
व्यगाहत एतत् तत् उ देव हेलनम्।
बद्ध्वा अञ्जलिं मूर्ध्नि अपनुत्तये अंहसः
कृत्वा नमः अधः वसनं प्रगृह्यताम् ॥१९॥
इति अच्युतेन अभिहिता व्रज अबलाः
मत्वा विवस्त्र अप्लवनं व्रत च्युतिम्।
तत् पूर्ति कामाः तत् अशेष कर्मणाम्
साक्षात् कृतं नेमुः अवद्यम् ऋग् यतः ॥२०॥
ताः तथा अवनताः दृष्ट्वा भगवान् देवकी सुतः।
वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः ॥२१॥
दृढं प्रलब्धाः त्रपया च हापिताः
प्रस्तोभिताः क्रीडनवत् च कारिताः।
वस्त्राणि च एव अपहृतानि अथ अपि अमुम्
ता न अभ्यसूयन् प्रिय सङ्ग निर्वृताः ॥२२॥
परिधाय स्व वासांसि प्रेष्ठ सङ्गम सज्जिताः।
गृहीत चित्ताः न उचेलुः तस्मिन् लज्जायितेक्षणाः ॥२३॥
तासां विज्ञाय भगवान् स्व पाद स्पर्श काम्यया।
धृत व्रतानां सङ्कल्पम् आह दामोदरः अबलाः ॥२४॥
सङ्कल्पः विदितः साध्व्यः भवतीनां मम् अर्चनम्।
मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति ॥२५॥
न मयि आवेशित धियां कामः कामाय कल्पते।
भर्जिताः क्वथिताः धानाः प्रायः बीजाय न ईष्यते ॥२६॥
याताः अबलाः व्रजं सिद्धाः मया इमाः रंस्यथ क्षपाः।
यत् उद्दिश्य व्रतम् इदम् चेरुः आर्या अर्चनं सतीः ॥२७॥
श्री शुकः उवाच।
इति आदिष्टाः भगवता लब्ध कामाः कुमारिकाः।
ध्यायन्त्यः तत् पदाम्भोजं कृच्छ्रात् निर्विविशुः व्रजम् ॥२८॥
अथ गोपैः परिवृतः भगवान् देवकी सुतः।
वृन्दावनात् गतः दूरं चारयन् गाः सह अग्रजः ॥२९॥
निदाघ अर्क आतपे तिग्मे छायाभिः स्वाभिः आत्मनः।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रज ओकसः ॥३०॥
हे स्तोककृष्ण हे अंशो श्रीदामन् सुबल अर्जुन।
विशाल ऋषभ तेजस्विन् देवप्रस्थ वरूथप ॥३१॥
पश्यत एतान् महा भागान् परार्थ एकान्त जीवितान्।
वात वर्ष आतप हिमान् सहन्तः वारयन्ति नः ॥३२॥
अहो एषां वरं जन्म सर्व प्राणि उपजीवनम्।
सुजनस्य इव येषां वै विमुखाः यान्ति न अर्थिनः ॥३३॥
पत्र पुष्प फल छाया मूल वल्कल दारुभिः।
गन्ध निर्यास भस्म अस्थि तोक्मैः कामान् वितन्वते ॥३४॥
एतावत् जन्म साफल्यं देहिनाम् इह देहिषु।
प्राणैः अर्थैः धिया वाचा श्रेयः एव आचरेत् सदा ॥३५॥
इति प्रवाल स्तबक फल पुष्प दल उत्करैः।
तरूणां नम्र शाखानां मध्येन यमुनां गतः ॥३६॥
तत्र गाः पाययित्वा अपः सुमृष्टाः शीतलाः शिवाः।
ततः नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥३७॥
तस्याः उपवने कामं चारयन्तः पशून् नृप।
कृष्ण रामौ उपागम्य क्षुध आर्ताः इदम् अब्रुवन् ॥३८॥
No comments:
Post a Comment